पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५२
शिवशर्मोवाच-।
मंगले श्रूयतां वाक्यं यदि पृच्छसि सांप्रतम् ।
यदर्थं हि त्वया पृष्टं तन्निबोध वरानने १।
इयं हि सांप्रतं प्राप्ता वराकी भिक्षुरूपिणी ।
वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने २।
सुदेवा नाम भद्रेयं मम जाया प्रिया सदा ।
केनापि कारणेनैव देशं त्यक्त्वा समागता ३।
ममदुःखेन दग्धेयं वियोगेन वरानने ।
मां ज्ञात्वा तु समायाता भिक्षुरूपेण ते गृहम् ४।
एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितम् ।
कर्त्तव्यं न च संदेह इच्छंत्या मम सुप्रियम् ५।
भर्तुर्वाक्यं निशम्यैव मंगला पतिदेवता ।
हर्षेण महताविष्टा स्वयमेव सुमंगला ६।
स्नानाच्छादन भोज्यं च मम चक्रे वरानने ।
रत्नकांचनयुक्तैश्चाभरणैश्च पतिव्रता ७।
अहं हि भूषिता भद्रे तयैव पतिकाम्यया ।
तयाहं भूषिता देवि मानस्नानैश्च भोजनैः ८।
भर्त्राहं मानिता देवि जातं दुःखमनंतकम् ।
ममोरसि महातीव्रं सर्वप्राणविनाशनम् ९।
तस्या मानो मया दृष्टो दुःखमात्मगतं तथा ।
चिंता मे दारुणा जाता यया प्राणा व्रजंति मे १०।
कदापि वचनं दत्तं न मया पापया शुभम् ।
अस्यैव विप्रवर्यस्य आचरंत्या च दुष्कृतम् ११।
पादप्रक्षालनं नैव अंगसंवाहनं नहि ।
एकांतं न मया दत्तं तस्यैव हि महात्मनः १२।
संभाषां कथमस्यैव करिष्ये पापनिश्चया ।
रात्रौ चैव तदा तत्र पतिता दुःखसागरे १३।
एवं हि चिंतमानायाः स्फुटितं हृदयं मम ।
गताः प्राणास्तदा कायं परित्यज्य वरानने १४।
तत्र दूताः समायाता धर्मराजस्य वै तदा ।
वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः १५।
तैस्तु बद्धा महाभागे शृंखलैर्दृढबंधनैः ।
नीता यमपुरं तैस्तु रुदमाना सुदुःखिता १६।
मुद्गरैस्ताड्यमानाहं दुर्गमार्गेण पीडिता ।
भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता १७।
दृष्टाहं यमराजेन सक्रोधेन महात्मना ।
अंगारसंचये क्षिप्ता क्षिप्ता नरकसंचये १८।
लोहस्य पुरुषं कृत्वा अग्निना परितापितः ।
ममोरसि समुत्क्षिप्तो निजभर्तुश्च वंचनात् १९।
नानापीडातिसंतप्ता नरकाग्निप्रतापिता ।
तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि २०।
असिपत्रैश्च संच्छिन्ना जलमंत्रेण वाहिता ।
कूटशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना २१।
पूयशोणितविष्ठायां पतिता कृमिसंकुले ।
सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनंदिनि २२।
पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना ।
करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम् २३।
अन्येष्वेव नरकेषु पातिता नृपनंदिनि ।
योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसंकटे २४।
धर्मराजेन तेनाहं नरकेषु निपातिता ।
वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम् २५।
गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता ।
सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम् २६।
एवं योनिविशेषेषु पापयोनिषु तेन च ।
क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु २७।
तेनैवाहं कृता भूमौ शूकरी नृपनंदिनि ।
तवहस्ते महाभागे संति तीर्थान्यनेकशः २८।
तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि ।
मम पापं गतं देवि प्रसादात्तव सुंदरि २९।
तवैव तेजःपुण्येन जातं ज्ञानं वरानने ।
इदानीं मामुद्धरस्व पतितां नरकसंकटे ३०।
यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम् ।
नरकं च महाभागे त्राहि मां दुःखभागिनीम् ३१।
गताहं पापभावेन दीनाहं च निराश्रया ।
सुदेवोवाच-
किं कृतं हि मया भद्रे सुकृतं पुण्यसंभवम् ३२।
येनाहमुद्धरे त्वां वै तन्मे त्वं वद सांप्रतम् ।
शूकर्युवाच-
अयं राजा महाभाग इक्ष्वाकुर्मनुनंदनः ३३।
विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा ।
पतिव्रता महाभागा पतिव्रतपरायणा ३४।
त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया ।
देवि सर्वमयी नित्यं सर्वदेवमयी सदा ३५।
महापतिव्रता लोक एका त्वं नृपतेः प्रिया ।
यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम् ३६।
एकस्य दिवसस्यापि पुण्यं देहि वरानने ।
पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम् ३७।
मम माता पिता त्वं वै त्वं मे गुरुः सनातनः ।
अहं पापा दुराचारा असत्या ज्ञानवर्जिता ३८।
मामुद्धर महाभागे भीताहं यमताडनैः ।
सुकलोवाच-
एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा ३९।
किं करोमि महाराज एषा किं वदते पशुः ।
इक्ष्वाकुरुवाच-
एनां दुःखां वराकीं वै पापयोनिं गतां शुभे ४० ।
समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति ।
एवमुक्ता वरा नारी सुदेवा चारुमंगला ४१।
उवाचैकाब्दपुण्यं ते मया दत्तं वरानने ।
एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् ४२।
रूपयौवनसंपन्ना दिव्यमालाविभूषिता ।
दिव्यदेहा च संभूता तेजोज्वालासमावृता ४३।
सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता ।
संजाता दिव्यरूपा सा दिव्यगंधानुलेपना ४४।
दिव्यं विमानमारूढा अंतरिक्षं गता सती ।
तामुवाच ततो राज्ञीं प्रणतानतकंधरा ४५।
स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुंदरि ।
व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम् ४६।
प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम ।
एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ४७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सुदेवास्वर्गारोहणंनाम द्विपंचाशत्तमोऽध्यायः ५२।