२७७६ । हृशश्वतोर्लङ् च । (३-२-११६)
अनयोरुपपदयोलिड़विषये लङ् स्यात् । चालिट् । इति हाकरोचकार वा । शश्वद्करोचकार वा ।
२७७७ ॥ प्रश्रे चासन्नकाले । (३-२-११७)
प्रष्टव्यः प्रश्नः। आसन्नकाले पृच्छयमानेऽर्थे लिड़िषये लङ्कलिटौ स्तः । अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ।
२७७८ । लट् स्मे । (३-२-११८)
लिटोऽपवादः । यजति स्म युधिष्ठिर
२७७९ । अपरोक्षे च । (३-२-११९)
भूतानद्यतने लट् स्यात्स्मयोगे । एवं स्म पिता ब्रवीति ।
२७८० । । ननौ पृष्टप्रतिवचने । (३-२-१२०)
'अनद्यतने' 'परोक्षे' इति निवृत्तम् । भूते लट् स्यात् । अकार्षी किम् । ननु करोमि भोः ।
२७८१ । नन्वोर्विभाषा । (३-२-१२१)
च । तीर्थयात्रां विना यातः पुन सस्कारमर्हति ॥’ इति वचनादिति भाव । नाहङ्कलिङ्गाञ्जगामेत्यु त्तरम् । कलिङ्गशब्दस्य जनपदविशेषवाचित्वात् बहुवचनम् । अत्र तद्देशगमनोत्तरकालिकवास विषयकप्रश्रे कारणीभूतगमनस्यैवापलापादयन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्र * अक मैकधातुभिर्योगे देशः कालो भावः’ इति कर्मसज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकार निरूपितम् । हशश्वतोर्लङ् च ॥ स्पष्टम् । प्रश्रे चासन्नकाले ॥ प्रश्रे इत्यनेन प्रश्रविषयो विवक्षित इत्याह । प्रष्टव्यः प्रश्नः इति ॥ अथे इत्यनन्तर वर्तमानाद्धातोरिति शेषः । प्रयेोक्तृदृष्टिपथातिक्रान्तत्वमनासन्नकालकत्वम् । वृत्तौ तु पञ्चवर्षातीतकालः अना सन्नकाल इत्युक्तम् । लट् स्म ॥ स्मेल्यव्ययम् । तद्योगे लिड़िषये लट् स्यादित्यर्थ । यजति स्मेति ॥ स्मशब्दो भूतकालद्योतक. । अपरोक्षे च ॥ एवं स्मेति ॥ पिता एव मुक्तवानित्यर्थः । ननौ पृष्ट । निवृत्तमिति । व्याख्यानादिति भावः । अकार्षीः किमिति प्रश्रः । ननु करोमीत्युत्तरम् । अकार्षमित्यर्थ. । नन्विति सबोधने । नन्वोर्विभाषा ।