सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
[अदादि
सिध्दान्तकौमुदीसहिता

चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ।

२४३८ । अस्यतिवक्तिख्यातिभ्योऽङ् । (३-१-५२)

एभ्यश्च्लेरङ् । अख्यत्-अख्यत । अक्शासीत्-अक्शास्त । ‘वर्जने क्शाञ् नेष्टः’ (वा १५९२) । समचक्षिष्ट इत्यादि ।

अथ पृच्यन्ता अनुदात्तेत:। ईर १०१८ गतौ कम्पने च । ईर्ते । ईराञ्चक्रे । ईरिता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ईड १०१९ स्तुतौ । ईट्टे ।

२४३९ । ईशः से । (७-२-७७)

२४४० । ईडजनोर्ध्वे च । (७-२-७८)

ईशीडजनां 'से---' 'ध्वे---' शब्दयोः सार्वधातुकयोरिट् स्यात् ।


क्ष्महि । विधिलिङ्याह । चक्षीतेति ॥ आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह । ख्यायात्-ख्येयादिति ॥ 'वाऽन्यस्य' इत्येत्त्वविकल्पः । शस्य यत्वाभावपक्षे आह । क्शायात्-क्शेयादिति ॥ लुडि च्लेः सिचि प्राप्ते । अस्यतिवक्ति ॥ 'च्लेः सिच्' इत्यत च्लेरित्यनुवर्तते । तदाह । एभ्यश्च्लेरिति । अख्यत्-अख्यतेति ॥ यत्वपक्षे रूपम् । आल्लोपः ञित्त्वादुभयपदित्वादात्मनेपदे रूपम् ।ख्शादेशपक्षे परस्मैपदपक्षे तु आह । अक्शासीदिति ॥ अड्विधौ ख्यातीति यकारनिर्देशात् यत्वाभावपक्षे अड् न भवति । किन्तु आदन्तत्वलक्षणौ सगिटौ । अक्शासिष्टाम् इत्यादि । अक्शास्तेति ॥ आत्मनेपदे लुडि रूपम् । अक्शासातां इत्यादि । अख्यास्यत् । अख्यास्यत । अक्शास्यत् । अक्शास्यत । वर्जने क्शाञ् नेष्टः इति ॥ वार्तिकमिदम् । समचक्षिष्टेति ॥ अवर्जयदित्यर्थः । लुडि रूपम् । अथ पृच्यन्ताः इति ॥ ‘पृची सम्पर्चने' इत्येतत्पर्यन्ता इत्यर्थः । ईर गताविति ॥ सेट् । ईर्ते इति ॥ ईराते । ईरते । ईर्षे । ईराथे । ईर्ध्वे । ईरे । ईर्वहे । ईर्महे । ईराञ्चक्रे इति ॥ 'इजादेश्च' इत्याम् । ईरितेति ॥ ईरिष्यते । इत्यपि ज्ञेयम् । ईर्तामिति ॥ ईराताम् । ईरताम् । ईर्ष्वेति ॥ ईराथाम् इत्यपि ज्ञेयम् । ईर्ध्वमिति ॥ ईरै । ईरावहै । ईरामहै । ऐर्त । ऐराताम् । ऐरत । ऐर्थाः । ऐराथाम् । ऐर्ध्द्वम् । ऐरि । ऐर्वहि । ऐर्महि । ईरीत । ईरिषीष्ट । ऐरिष्ट । ऐरिष्यत । ईड स्तुतौ । ईट्टे इति ॥ तकारस्य ष्टुत्वेन ट: डस्य चर्त्वेन टः इति भावः । ईडाते । ईडते । ईड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते । ईशः से । ईडजनोर्ध्वे च ॥ 'इडत्त्यर्ति’ इत्यतः इडिति 'रुदादिभ्यः' इत्यतः सार्वधातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वय युगपद्व्याचष्टे । ईशीडजनामिति ॥ ध्वे इत्यस्य पूर्वत्रापकर्षः । से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः । प्रत्येक व्याख्याने तु ईशो ध्वे शब्दे परे न स्यात् । ईडजनोः सेशब्दे परे न स्यादिति भावः । ननु तर्हि 'ईशीडजनाम्' से