सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
[भ्वादि
सिध्दान्तकौमुदीसहिता

(सू २४०८) इति सम्प्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । 'जॄस्तम्भु-' (सू २२९१) इत्यङ् वा ।

२४२१ । श्वयतेरः । (७-४-१८)

श्वयतेरिकारस्याकारः स्यादडि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । 'विभाषा धेट्श्व्यो:' (सू २३७५) इति चङ् । इयङ् । अशिश्वियत् । 'ह्म्यन्त–' (सू २२९९) इति न वृद्धिः । अश्वयीत् । वृत् । यजादयो वृत्ताः । भ्वादिस्त्वाकृतिगणः । तेन चुलुम्पतीत्यादिसङ्ग्रहः । इति भ्वादयः ।

२४२२ । ऋतेरीयङ् । (३-१-२९)

ऋतिः सौत्रस्तस्मादीयङ् स्यात्स्वार्थे । 'जुगुप्सायामयं धातुः' इति


कित्त्वाद्वचिस्वपीति सम्प्रसारणे पूवरूपे ‘अकृत्सावंधातुकयोः' इति दीर्घ इति भावः । लुडि विशेषमाह । जॄस्तम्भ्विति ॥ तथाच अश्वि अ त् इति स्थिते इयडि प्राप्ते । श्वयतेरः ॥ श्वयते अः इति च्छेदः । श्वयतेरिति श्तिपा निर्देशः । श्विधातोरित्यर्थः । ‘अलोऽन्त्यस्य' इत्यन्त्यस्य इकारस्येति लभ्यते । ‘ऋदृशोऽडि’ इत्यतः अडीत्यनुवर्तते । तदाह । श्वयतेरिकारस्येति ॥ अश्व अ त् इति स्थिते सवर्णदीर्घमाशङ्क्याह । पररूपमिति ॥ आर्धधातुकोपदेशे अदन्तत्वाभावात् न अल्लोपः । अश्वन्निति ॥ अश्वः । अश्वतम् । अश्वत । अश्वम् । अश्वाव । अश्वाम । अडभावपक्षे त्वाह । विभाषेति ॥ इयङिति ॥ ‘चडि’ इति द्वित्वमित्यपि ज्ञेयम् । तदाह । अशिश्वियदिति ॥ अडश्चडश्चाभावे तु अश्वि ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्या आयादेशे अश्वायीदिति प्राप्ते आह । ह्म्यन्तेति न वृद्धिरिति ॥ श्विग्रहणादिति भावः । नच ‘नेटि’ इत्येव सिचि वृद्धेः निषेधसिद्धेः पृथक् श्विग्रहण व्यर्थमिति वाच्यम् । ‘नेटि' इति निषेधस्य हलन्तलक्षणवृद्धिमात्रविषयत्वात् । नच अश्वि ईत् इति स्थिते सिचि वृध्द्यपेक्षया परत्वादन्तरङ्गत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाभावेन सिचि वृध्द्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेः 'ह्म्यन्त’ इत्यत्र श्विग्रहण व्यर्थमिति वाच्यम् । अनवकाशतया अपवादत्वेन गुणम्बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम् । वृदित्यस्य व्याख्यान यजादयो वृत्ता इति । ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह । भ्वादिस्त्वाकृतिगणः इति ॥ चुलुम्पतीति ॥ चुलुम्पधातुर्लोपार्थकः तस्यापि भ्वादिगणे पाठात् शब्विकरणत्वमिति भावः । इति भ्वादयः इति ॥ नचैव सति ‘अद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्व कथमित्याशङ्क्य शब्विकरणा. भ्वादयस्समाप्ता इत्यर्थात् । ऋतेरीयङ् ॥ ऋतेर्धातुपाठे अदर्शनादाह । ऋतिः सौत्रः इति ॥ स्वार्थे इति ॥ अर्थविशेषस्यानिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टः न त्विकारान्तः । इदन्तत्वे हि सवर्णदीघेणैव सिद्धे ईकारोच्चारणवैयर्थ्यात् । नच