पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१७९
बालमनोरमा ।

बहवः । 'कृपायां च' इत्येके । 'सनाद्यन्ताः-' (सू २३०४) इति धातुत्वम् । ॠतीयते । ॠतीयाञ्चक्रे । आर्धधातुकविवक्षायां तु 'आयादय आर्धधातुके वा' (सू २३०५) इतीयङभावे 'शेषात्कर्तरि-' (सू २१५९) इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ।

इति तिन्ङतभ्वादिप्रकरणम्


इदन्तत्वे सति 'एरनेकाच' इति यण् स्यादिति वाच्यम् । एवमपि ॠतेर्ड्यः इति ड्यप्रत्यये कृते 'अकृत्सार्वधातुकयोर्दीर्घ' इति दीर्घेणैव सिद्धे ईयड्विधिवैयर्थ्यात् । एके इति ॥ अन्ये इत्यर्थः । ॠतीयते इति । ईयडोऽदन्तत्वात् शपि पररूपम् । ॠतीयाञ्चक्रे इति ॥ 'कास्प्रत्ययात्' इत्याम् । ॠतीयिता । ॠतीयिष्यते । ॠतीयताम् । आर्तीयत । ॠतीयेत । ॠतीयिषीष्ट । आर्तीयिष्ट । आर्तीयिष्यत । आनर्तेति ॥ ॠत् इति तकारान्तात् लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे 'अत आदेः' इत्यभ्यासस्य दीर्घे 'तस्मान्नुड्द्विहल' इति नुट् । नुड्विधौ ॠकारैकदेशो रेफो हल्त्वेन गृह्यते इति उत्तेरिति भावः । आनृततुः । आनृतुः । अनिट्सु अस्यापाठात् थलि नित्यमिट् । आनर्तिथ । आनृतथुः । आनृत । आनर्त । आनृतिव । आनृतिम । अर्तिता । अर्तिष्यति । ॠत्यात् । आर्तीदिति ॥ 'इट ईटि' इति सिज्लोपः । आडागमः । आर्तिष्यत् ॥

इति श्रीसिद्धान्तकौमुदीव्याख्यायां

वासुदेवदीक्षितविरचितायां बालमनोरमायां

॥ शब्विकरणनिरूपणम् ॥