सामग्री पर जाएँ

शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ०५ शिवपुराणम् - शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)
अध्यायः ६
[[लेखकः :|]]
अध्यायः ०७ →

ब्रह्मोवाच ।।
सुतवर्य महाप्राज्ञ शृणु संध्यातपो महत् ।।
यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद्ध्रुवम् ।। १ ।।
उपविश्य तपोभावं वसिष्ठे स्वगृहं गते ।।
संध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ।। २ ।।
ततस्सानंदमनसो वेषं कृत्वा तु यादृशम् ।।
तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ।। ३ ।।
यथोक्तं तु वशिष्ठेन मंत्रं तपसि साधनम् ।।
मंत्रेण तेन सद्भक्त्या पूजयामास शंकरम् ।।४।।
एकान्तमनसस्तस्याः कुर्वंत्या सुमहत्तपः ।।
शंभौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ।। ५ ।।
प्रसन्नोभूत्तदा शंभुस्तपसा तेन तोषितः ।।
अंतर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ।। ६ ।।
यद्रूपं चिंतयंती सा तेन प्रत्यक्षतां गतः ।। ७ ।।
अथ सा पुरतो दृष्ट्वा मनसा चिंतितं प्रभुम् ।।
प्रसन्नवदनं शांतं मुमोदातीव शंकरम् ।।८।।
ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ।।
इति चिंतापरा भूत्वा न्यमीलयत चक्षुषी ।। ९ ।।
निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ।।
दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ।।2.2.6.१०।।
दिव्यज्ञानं दिव्यचक्षुर्दिव्या वाचमवाप सा ।।
प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ।।११।। ।।
संध्योवाच ।।
निराकारं ज्ञानगम्यं परं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ।।
अंतश्चिंत्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोस्तु ।। १२ ।।
सर्वं शांतं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ।।
खाध्वप्रख्यं ध्वांतमार्गात्परस्तद्रूपं यस्य त्वां नमामि प्रसन्नम् ।। १३ ।।
एकं शुद्धं दीप्यमानं तथाजं चिदानंदं सहजं चाविकारि ।।
नित्यानंदं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ।। १४ ।।
विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छंदं ध्येयमात्मस्वरूपम् ।।
सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ।। १५ ।।
यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ।।
इष्टाभीती शूलमुंडे दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम् ।।१६।।
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।।
पुनः कालश्च रूपाणि यस्य तुभ्यं नमोस्तु ते ।। १७ ।।
प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ।।
तस्मादव्यक्तरूपाय शंकराय नमोनमः ।। १८ ।।
यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ।।
संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमोनमः ।।१९।।
नमोनमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय।।
समस्तलोकांतरभूतिदाय प्रकाशरूपाय परात्पराय ।। 2.2.6.२० ।।
यस्याऽपरं नो जगदुच्यते पदात् क्षितिर्दिशस्सूर्य इंदुर्मनौजः ।।
बर्हिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शंभवे मे नमोस्तु ।। २१ ।।
त्वं परः परमात्मा च त्वं विद्या विविधा हरः ।।
सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ।।२२।।
यस्य नादिर्न मध्यं च नांतमस्ति जगद्यतः ।।
कथं स्तोष्यामि तं देवं वाङ्मनोगोचरं हरम्।। ।। २३ ।।
यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ।।
न विप्रण्वंति रूपाणि वर्णनीयः कथं स मे ।। २४ ।।
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।।
नैव जानंति यद्रूपं सेन्द्रा अपि सुरासुराः ।। २५ ।।
नमस्तुभ्यं महेशान नमस्तुभ्यं तमोमय ।।
प्रसीद शंभो देवेश भूयोभूयो नमोस्तु ते ।। २६ ।।
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्संस्तुतः परमेश्वरः ।।
सुप्रसन्नतरश्चाभूच्छंकरो भक्तवत्सलः ।। २७ ।।
अथ तस्याश्शरीरं तु वल्कलाजिनसंयुतम् ।।
परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ।। २८ ।।
हिमानीतर्जितांभोजसदृशं वदनं तदा ।।
निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ।।२९।।
महेश्वर उवाच ।।
प्रीतोस्मि तपसा भद्रे भवत्याः परमेण वै ।।
स्तवेन च शुभप्राज्ञे वरं वरय सांप्रतम् ।। 2.2.6.३० ।।
येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् ।।
तत्करिष्ये च भद्रं ते प्रसन्नोहं तव व्रतैः ।। ३१ ।।
ब्रह्मोवाच ।।
इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा ।।
संध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ।। ३२ ।।
संध्योवाच ।। ।।
यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि ।।
यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर।।३३।।
यदि देव प्रसव्रोऽसि तपसा मम सांप्रतम् ।।
वृतस्तदायं प्रथमो वरो मम विधीयताम् ।।३४।।
उत्पन्नमात्रा देवेश प्राणिनोस्मिन्नभः स्थले ।।
न भवंतु समेनैव सकामास्संभवंतु वै ।।३५।।
यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा ।।
भविष्यामि तथा नान्या वर एको वृतो मया ।। ३६ ।।
सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति ।।
यो मे पतिर्भवेन्नाथ सोपि मेऽतिसुहृच्च वै ।। ३७ ।।
यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ।।
नाशं गमिष्यति तदा स च क्लीबो भविष्यति ।।।३८।।
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्यश्शंकरो भक्तवत्सलः ।।
उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ।।३९।।
महेश्वर उवाच ।।
शृणु देवि च संध्ये त्वं त्वत्पापं भस्मतां गतम् ।।
त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ।।2.2.6.४०।।
यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया।।
सुप्रसन्नेन तपसा तव संध्ये वरेण हि ।। ४१ ।।
प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ।।
तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ।।४२।।
तृतीये त्वथ संप्राप्ते वयोभागे शरीरिणः।।
सकामास्स्युर्द्वितीयांतो भविष्यति क्वचित् क्वचित् ।। ४३ ।।
तपसा तव मर्यादा जगति स्थापिता मया ।।
उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ।।४४।।
त्वं च लोके सतीभावं तादृशं समवाप्नुहि ।।
त्रिषु लोकेषु नान्यस्या यादृशं संभविष्यति ।। ४५ ।।
यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ।।
स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ।। ४६ ।।
पतिस्तव महाभागस्तपोरूपसमन्वितः ।।
सप्तकल्पांतजीवी च भविष्यति सह त्वया ।। ४७ ।।
इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया ।।
अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ।। ४८ ।।
अग्नौ शरीत्यागस्ते पूर्वमेव प्रतिश्रुतः ।।
तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ।।४९।।
स च मेधातिथिर्यज्ञे मुने द्वादशवार्षिके ।।
कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ।।2.2.6.५०।।
एतच्छैलोपत्यकायां चंद्रभागानदीतटे ।।
मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ।।५१।।
तत्र गत्वा स्वयं छंदं मुनिभिर्न्नोपलक्षिता ।।
मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ।। ५२ ।।
यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन ।।
तं निधाय निजस्वांते त्यज वह्नौ वपुः स्वकम् ।। ५३ ।।
यदा त्वं दारुणं संध्ये तपश्चरसि पर्वते ।।
यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ।।५४।।
त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यका ।।
वाक्पाश्शीलसमापन्ना यथा योग्यं विवाहिताः।।५५।।
तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः ।।
चन्द्रोऽन्यास्संपरित्यज्य रोहिण्यां प्रीतिमानभूत्।
तद्धेतोर्हि यदा चन्द्रश्शप्तो दक्षेण कोपिना ।।
तदा भवत्या निकटे सर्वे देवास्समागताः ।।५७।।
न दृष्टाश्च त्वया संध्ये ते देवा ब्रह्मणा सह ।।
मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ।।५८।।
चंद्रस्य शापमोक्षार्थं जाता चंद्रनदी तदा।।
सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः।।५९।।
तपसा सत्समो नास्ति न भूतो न भविष्यति।।
येन यज्ञस्समारब्धो ज्योतिष्टोमो महाविधिः।।2.2.6.६०।।
तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् ।।
सुपवित्रा त्वमिदानीं संपूर्णोस्तु पणस्तव ।।६१।।
एतन्मया स्थापितन्ते कार्यार्थं भो तपस्विनि।।
तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः ।
तस्याहितं च देवेशस्तत्रैवांतरधीयत।।६२।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे संध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।