शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४ शिवपुराणम् - शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)
अध्यायः ५
[[लेखकः :|]]
अध्यायः ०६ →

सूत उवाच।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः ।।
स मुदोवाच संस्मृत्य शंकरं प्रीतमानसः ।। १ ।।
नारद उवाच ।। ।।
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।।
अद्भुता कथिता लीला त्वया च शशिमौलिनः ।। २ ।।
गृहीतदारे मदने हृष्टे हि स्वगृहे गते ।।
दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि ।। ३ ।।
मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु ।।
संध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ।। ४ ।।
किं चकार च केनैव पुरुषेण विवाहिता ।।
एतत्सर्वं विशेषेण संध्यायाश्चरितं वद ।। ५ ।।
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मपुत्रश्च धीमतः ।।
संस्मृत्य शंकरं सक्त्या ब्रह्मा प्रोवाच तत्त्ववित् ।। ६ ।।
ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं संध्यायाश्चरितं शुभम् ।।
यच्छ्रुत्वा सर्वकामिन्यस्साध्व्यस्स्युस्सर्वदा मुने ।। ७ ।।
सा च संध्या सुता मे हि मनोजाता पुराऽ भवत् ।।
तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुंधती ।।८।।
मेधातिथेस्सुता भूत्वा मुनिश्रेष्ठस्य धीमती ।।
ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता।।९।।
वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् ।।
पतिव्रता च मुख्याऽभूद्वंद्या पूज्या त्वभीषणा।।2.2.5.१०।।
नारद उवाच।।
कथं तया तपस्तप्तं किमर्थं कुत्र संध्यया।।
कथं शरीरं सा त्यक्त्वाऽभवन्मेधातिथेः सुता।।।।।
कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम्।
वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम्।।१२।।
एतन्मे श्रोष्यमाणाय विस्तरेण पितामह।।
कौतूहलमरुंधत्याश्चरितं ब्रूहि तत्त्वतः ।।१३।। ।
ब्रह्मोवाच ।।
अहं स्वतनयां संध्यां दृष्ट्वा पूर्वमथात्मनः।।
कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा ।।१४।।
संध्यायाश्चलितं चित्तं कामबाणविलोडितम् ।।
ऋषीणामपि संरुद्धमानसानां महात्मनाम्।।१५।।
भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति ।।
आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति ।।१६।।
कामस्य तादृशं भावं मुनिमोहकरं मुहुः।।
दृष्ट्वा संध्या स्वयं तत्रोपयमायातिदुःखिता।। १७ ।। ।
ततस्तु ब्रह्मणा शप्ते मदने च मया मुने।।
अंतर्भूते मयि शिवे गते चापि निजास्पदे ।।१८।।
आमर्षवशमापन्ना सा संध्या मुनिसत्तम।।
मम पुत्री विचार्यैवं तदा ध्यानपराऽभवत् ।। १९ ।।
ध्यायंती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी ।।
इदं विममृशे संध्या तस्मिन्काले यथोचितम् ।। 2.2.5.२० ।।
संध्योवाच ।।
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ।।
अकार्षित्सानुरागोयमभिलाषं पिता मम ।।२१।। ।
पश्यतां मानसानां च मुनीनां भावितात्मनाम्।।
दृष्ट्वैव माममर्यादं सकाममभवन्मनः।।२२।।
ममापि मथितं चित्तं मदनेन दुरात्मना ।।
येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम् ।।२६।।
फलमेतस्य पापस्य मदनस्स्वयमाप्तवान्।।
यस्तं शशाप कुपितः शंभोरग्रे पितामहः।।२४।।
प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी ।।
तच्छोधनफलमहमाशु नेच्छामि साधनम् ।।२९।।
यन्मां पिता भ्रातरश्च सकाममपरोक्षतः ।।
दृष्ट्वा चक्रुस्स्पृहां तस्मान्न मत्तः पापकृत्परा ।।२६।।
ममापि कामभावोभूदमर्यादं समीक्ष्य तान् ।।
पत्या इव स्वकेताते सर्वेषु सहजेष्वषि।।२७।।
करिष्यारम्यस्य पापस्य प्रायश्चित्तमहं स्वयम्।।
आत्मानमग्नौ होष्यामि वेदमार्गानुसारत।।२८।।
किं त्वेकां स्थापयिष्यामि मर्यादामिह भूतले ।।
उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ।। २९ ।।
एतदर्थमहं कृत्वा तपः परम दारुणम् ।।
मर्यादां स्थापयिष्यामि पश्चात्त्यक्षामि जीवितम्।।2.2.5.३०।।
यस्मिञ्च्छरीरे पित्रा मे ह्यभिलाषस्स्वयं कृतः।।
भातृभिस्तेन कायेन किंचिन्नास्ति प्रयोजनम् ।।३१।।
मया येन शरीरेण तातेषु सहजेषु च ।।
उद्भावितः कामभावो न तत्सुकृतसाधनम्।।३२।।
इति संचित्य मनसा संध्या शैलवरं ततः ।।
जगाम चन्द्रभागाख्यं चन्द्रभागापगा यतः ।। ३३ ।।
अथ तत्र गतां ज्ञात्वा संध्यां गिरिवरं प्रति ।।
तपसे नियतात्मानं ब्रह्मावोचमहं सुतम् ।। ३४ ।।
वशिष्ठं संयतात्मानं सर्वज्ञं ज्ञानयोगिनम् ।।
समीपे स्वे समासीनं वेदवेदाङ्गपारगम् ।।३५।।
ब्रह्मोवाच ।।
वसिष्ठ पुत्र गच्छ त्वं संध्यां जातां मनस्विनीम्।।
तपसे धृतकामां च दीक्षस्वैनां यथा विधि ।।३६।।
मंदाक्षमभवत्तस्याः पुरा दृष्ट्वैव कामुकान्।।
युष्मान्मां च तथात्मानं सकामां मुनिसत्तम।।३७।।
अभूतपूर्वं तत्कर्म पूर्व मृत्युं विमृश्य सा ।।
युष्माकमात्मनश्चापि प्राणान्संत्यक्तुमिच्छति ।।३८।।
समर्यादेषु मर्यादां तपसा स्थापयिष्यति ।।
तपः कर्तुं गता साध्वी चन्द्रभागाख्यभूधरे।।३९।।
न भावं तपसस्तात सानुजानाति कंचन।।
तस्माद्यथोपदेशात्सा प्राप्नोत्विष्टं तथा कुरु।।2.2.5.४०।।
इदं रूपं परित्यज्य निजं रूपांतरं मुने ।।
परिगृह्यांतिके तस्यास्तपश्चर्यां निदर्शयन् ।। ४१ ।।
इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथात्र वाम् ।।
नाप्नुयात्साऽथ किंचिद्वै ततो रूपांतरं कुरु ।।४२।।
ब्रह्मोवाच ।।नारदेत्थं वसिष्ठो मे समाज्ञप्तो दयावता ।।
यथाऽस्विति च मां प्रोच्य ययौ संध्यांतिकं मुनिः ।। ४३ ।।
तत्र देवसरः पूर्णं गुणैर्मानससंमितम् ।।
ददर्श स वसिष्टोथ संध्यां तत्तीरगामपि।।। ४४ ।।
तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् ।।
उद्यदिंदुसुनक्षत्र प्रदोषे गगनं यथा ।। ४५ ।।
मुनिर्दृष्ट्वाथ तां तत्र सुसंभावां स कौतुकी ।।
वीक्षांचक्रे सरस्तत्र बृहल्लोहितसंज्ञकम् ।। ४६ ।।
चन्द्रभागा नदी तस्मात्प्राकाराद्दक्षिणांबुधिम् ।।
यांती सा चैव ददृशे तेन सानुगिरेर्महत् ।। ४७ ।।
निर्भिद्य पश्चिमं सा तु चन्द्रभागस्य सा नदी ।।
यथा हिमवतो गंगा तथा गच्छति सागरम् ।।४८।।
तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् ।।
संध्यां दृष्ट्वाथ पप्रच्छ वसिष्ठस्सादरं तदा ।।४९।।
वशिष्ठ .उवाच ।।
किमर्थमागता भद्रे निर्जनं त्वं महीधरम् ।।
कस्य वा तनया किं वा भवत्यापि चिकीर्षितम् ।। 2.2.5.५० ।।
एतदिच्छाम्यहं श्रोतुं वद गुह्यं न चेद्भवेत् ।।
वदनं पूर्णचन्द्राभं निश्चेष्टं वा कथं तव ।। ५१ ।।
ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः ।।
दृष्ट्वा च तं महात्मानं ज्वलंतमिव पावकम् ।। ५२ ।।
शरीरधृग्ब्रह्मचर्यं विलसंतं जटाधरम् ।।
सादरं प्रणिपत्याथ संध्योवाच तपोधनम् ।। ५३ ।।
संध्योवाच ।।
यदर्थमागता शैलं सिद्धं तन्मे निबोध ह ।।
तव दर्शनमात्रेण यन्मे सेत्स्यति वा विभो ।। ५४ ।।
तपश्चर्तुमहं ब्रह्मन्निर्जनं शैलमागता ।।
ब्रह्मणोहं सुता जाता नाम्ना संध्येति विश्रुता ।।५५।।
यदि ते युज्यते सह्यं मां त्वं समुपदेशय ।।
एतच्चिकीर्षितं गुह्यं नान्यैः किंचन विद्यते ।।५६।।
अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ।।
चिंतया परिशुष्येहं वेपते हि मनो मम ।।५७।।
ब्रह्मोवाच ।।
आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मवित्तमः ।।
स्वयं च सर्वकृत्यज्ञो नान्यत्किंचन पृष्टवान् ।। ५८ ।।
अथ तां नियतात्मानं तपसेति धृतोद्यमाम् ।।
प्रोवाच मनसा स्मृत्वा शंकरं भक्तवत्सलम् ।। ५९ ।।
वसिष्ठ उवाच ।।
परमं यो महत्तेजः परमं यो महत्तपः ।।
परमः परमाराध्यः शम्भुर्मनसि धार्यताम् ।। 2.2.5.६० ।।
धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् ।।
तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ।। ६१ ।।
मंत्रेणानेन देवेशं शम्भुं भज शुभानने ।।
तेन ते सकला वाप्तिर्भविष्यति न संशयः ।।६२।।
ॐ नमश्शंकरायेति ॐमित्यंतेन सन्ततम् ।।
मौनतपस्याप्रारंम्भं तन्मे निगदतः शृणु।।६३।।
स्नानं मौनेन कर्तव्यं मौनेन हरपूजनम् ।।
द्वयोः पूर्णजलाहारं प्रथमं षष्ठकालयोः ।। ६४ ।।
तृतीये षष्ठकाले तु ह्युपवासपरो भवेत् ।।
एवं तपस्समाप्तौ वा षष्ठे काले क्रिया भवेत् ।। ६५ ।।
एवं मौनतपस्याख्या ब्रह्मचर्यफलप्रदा ।।
सर्वाभीष्टप्रदा देवि सत्यंसत्यं न संशयः ।। ६६ ।।
एवं चित्ते समुद्दिश्य कामं चिंतय शंकरम् ।।
स ते प्रसन्न इष्टार्थमचिरादेव दास्यति ।। ६७ ।।
ब्रह्मोवाच ।।
उपविश्य वसिष्ठोथ संध्यायै तपसः क्रियाम् ।।
तामाभाष्य यथान्यायं तत्रैवांतर्दधे मुनिः ।। ६८ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे संध्याचरित्रवर्णनो नाम पंचमोऽध्यायः ।। ५ ।। ।।


सन्ध्ययोपरि टिप्पणी