पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदानीमुत्तरमाह । येन गुणः शेषयुतश्छेदः शुध्यति हृतः स्वगुणकेन । तद्भुक्तशेषं फलमेवं शेषात् ग्रहद्यगणौ ॥ २४ ॥ सु. भा.-छेदो दृढकुदिनमानं येन गुणः शेषयुतः स्वगुणकेन हृतः शुध्यति स गुणश्च तद्भुक्तं तस्य ग्रहस्य भुक्तं भवति स्वगुणकेन हृतं यत् फलं प्राप्तं तच्छेषमुपरिशेषं भवति । एवं शेषात् ग्रहार्हगणौ द्वावेव भवतः । अत्रैतदुक्तं भवति । यथा कलाशेषस्य गुणकः षष्टिश्छेदो दृढकुदिनानि । तत्र येन गुणेन गुणितश्छेदो विकलाशेषयुतः स्वगुणकेन षष्टिमितेन हृतः शुध्यति स गुणो ग्रहविकला भवन्ति फलं च कलाशेषं ज्ञेयेमेवं कलाशेषात् कला अंशशेषं च सिध्यति । एवमन्ते भगण शेषज्ञानं तस्मादहर्गणज्ञानं च भवति । अत्रोपपत्तिः । यथा कलाशेषं षष्टिगुणं दृढकुदिनहृतं लब्धं ग्रहविकलाः शेषं च विकलाशेषम् । अतो हरो लब्धिगुणः शेषयुतो भाज्यराशिसमः । ६०xकशे=ग्रविx दृकु+विशे ग्रविx दृकु+विशे .. कशे – – अतो दृढकुदिनमानं येन गुणं विकलाशोषयुतं षष्टिभक्तं शुध्यति स गुणो ग्रहविकलाः फलं च कलाशषम् । एवं स्व स्वशषगुणकच्छेदाभ्यां तत्तच्छेषमाने भवत इत्युपपद्यते ॥ २४॥ वि. भा-छेदो (दृढ़कुदिनमानं) येन गुणः शेषयुतः स्वगुणकेन भक्तः शुध्यति स गुणस्तस्य गृहस्य भुक्त भवात स्वगुणकन भत्तं सद्यत्फल लब्ध तदुपरि शोषं भवति । एवं शषात् गृहाहर्गणौ भविष्यतः । यथा कलाशोषस्य गुणकः षष्टिदृढ़ कुदिनानि हरः । तत्र येन गुणकेन गुणितो हरो विकलाशेषयुतः स्वगुणकेनं षष्टि तुल्येन भक्तः शशुध्यति स गुणो गृहविकलाः स्युः फलं कलाशषमेवं कलाशोषात् कला अंशशेषं सिध्यति । एवमन्ते भगण-शेषज्ञानं भवेत्तस्मादहर्गणो भबेदिति । अत्रोपपत्ति । कलाशेषं षष्टिगुण दृढ़कुदिनभक्त लब्धं गृहविकलाः शेषं विकलाशेषम् तत्स्वरूपम्==विकलाशे ६०xकलाशे गृहविकला-+ छेदगमेन ६०xकलाशे = दृढुकxगृहविकला+विकलाशे, पक्षौ षष्टिभक्तौ तदादृढ़कुxगृहविकला+विकलाशे ६०