पञ्चविंशब्राह्मणम्/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ पञ्चविंशब्राह्मणम् (ताण्ड्यब्राह्मणम्)
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
द्वादशरात्रादि द्वात्रिंशद्रात्र सत्रं

23.1
अतिरात्रः पृष्ठयः षडहः सर्वस्तोमोऽतिरात्रश्चत्वारश्छन्दोमा अतिरात्रः
एष वा आप्तो द्वादशाहो यत् त्रयोदशरात्रः
समानो ह्येष यत् प्रयणीयश्चोदयनीयश्चातिरात्रौ कामं कामयन्ते तमेताभिरभ्यश्नुवते
गृहपतेस्तु वागुपदासुका भवति तद्यन्मध्ये सर्वस्तोमोऽतिरात्रो भवति तेन गृहपतेर्वागनुपदासुका भवति
एता वा अर्यलगृहपतय आरूणिहोतारः सुभगासूपयन्ति ते सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एता उपयन्ति
23.2
अतिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
वाग्वा एषा प्रतायते यदेष द्वादशाहस्तां विच्छिन्द्युर्यन्मध्येऽतिरात्रं कुर्युः
यदुपरिष्टाद्व्रतमुपयन्ति न वाचं विच्छिन्दन्त्याप्नुवन्ति त्रयोदशं मासम्
एता वै प्रतिष्ठितास्त्रयोदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
23.3
अतिरात्रः पृष्ठयः षडहः पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रः
कामसनयो वा एता रात्रयः
विराढ्ढि दशात्मैकादशी प्रजा द्वादशी पशवस्त्रयोदशी कामाय चतुर्दशी
सर्वानेवैताभिः कामानवरून्धते
एता वाव ब्रध्नस्य विष्टपो यदेतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपं रोहन्ति
द्विः पृष्ठान्युपयन्त्यभिपूर्वमेवैताभिरन्नाद्यं दधते
23.4
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहः पृष्ठ्य षडह आयुर्गौर्ज्योतिरतिरात्रः
यांस्तल्पे वोदके वा विवाहे वा मीमांसेरंस्त एता उपेयुः
यत् ज्योतिर्गौरायुस्त्र्यहः प्रज्ञातां स्तोमानुपयन्ति
इमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठान्ति
अथ यत् पृष्ठयः षडहो मध्यतो भवत्येषु वाव देवतल्पो देवतल्पमेव तदारोहन्ति तल्प्या भवन्ति
प्रवसीयसस्तल्पमाप्नुवन्ति
अथ यदायुर्गौर्ज्योतिरतिरात्रो येनेतो यन्ति तेन पुनरायन्ति
23.5
अतिरात्रो गौश्चायुश्च द्वे अहनी द्वादशाहस्य दशाहान्यतिरात्रः
यद्गौश्चायुश्च द्वे अहनी भवतो मिथुनौ स्तोमावुपयन्ति प्रजात्यै
अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
एता वै प्रतिष्ठिताश्चतुर्दश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
23.6
अतिरात्रः पृष्ठयः षडहो महाव्रतं पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रः
एताभिर्वै देवा देवत्वमगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति
एतद्वै देवानां सत्त्रं तदद्यापि देवाः सत्त्रमासते
पौर्णमास्यतिरात्रोऽथ यानि षडहानि स पृष्ठयः षडह एकाष्टका महाव्रतमथ यानि षडहानि स पृष्ठयः षडहोऽमावास्यातिरात्रः
तस्मात् तर्हि मनुष्याणां न सुतो देवानां हि तर्हि सुतः प्रत्यक्षमेवैताभिर्देवता अभ्यारोहन्ति
प्रतिनोदात् तु भय्यमितरमनुपक्षो दीक्षेरन्नप्रतिनोदाय
23.7
अतिरात्रस्त्रिवृदग्निष्टुदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहः पृष्ठयः षडह आयुर्गौर्ज्योतिरतिरात्रः
क्षत्रं वा एता रात्रयोऽभिनिर्वदन्ति
ब्रह्मवर्चसकामा उपेयुः
यत् त्रिवृदग्निष्टुदग्निष्टोमो भवति ब्रह्म तद्यशसार्धयति
ब्रह्म वै त्रिवृत्
यत् ज्योतिर्गौरायुस्त्र्यहः प्रज्ञातान् स्तोमानुपयन्तीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठन्त्यथ यत् पृष्ठयः षडहो मध्यतो भवत्यन्नं वै पृष्टान्यन्नमेव तन्मध्यतो धीयते तस्मान्मध्ये सदन्नं धिनोत्यथ यदायुर्गौर्ज्योतिरतिरात्रो येनेतो यन्ति तेन पुनरायन्ति
23.8
त्रिवृदग्निष्टुदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः
अन्यस्मै वै कामाय सत्त्रमन्यस्मै यज्ञो न तत् सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रम्
यदन्यतोऽतिरात्रास्तेन यज्ञोऽथ यानि द्वादशाहस्य दशाहानि तेन सत्त्रम्
उभावेवैताभिः कामाववरून्धते
23.9
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः प्रजाकामा उपेयुः
एताभिर्वै प्रजापतिः प्रजा असृजत प्र प्रजया प्र पशुभिर्जायन्ते य एता उपयन्ति
यत् ज्योतिर्गौरायुस्त्र्यहः प्रजातान् स्तोमानुपयन्तीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठन्ति
अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
एता वै प्रतिष्ठिताः पञ्चदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
23.10
एता एव समहाव्रताः
एताभिर्वा इन्द्रः परमां विजितिं व्यजयत परमामेवैताभिर्विजितिं विजयन्ते
पञ्चदशो वै वज्रो न वा अगृहीतेन वज्रेण वीर्यं करोति या षोडश्यारम्भणमेव तद्गृहीतेन वज्रेण वीर्यं करोति
23.11
अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः
एताभिर्वै प्रजापतिरनन्तां श्रियमजयदनन्ता वा एता यत् पञ्चाहविधाः
यत् पञ्चाहोऽनन्तादेव प्रजायन्ते
अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
एता वै प्रतिष्ठिताः सप्तदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
23.12
अतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः
देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावंस्तेभ्य एतेनाष्टादशरात्रेणामृतत्वं प्रायच्छत्
एतद्वाव मनुष्यस्यामृतत्वं यत् सर्वमायुरेति वसीयान् भवति
सर्वमायुर्यन्ति वसीयांसो भवन्ति य एता उपयन्ति
द्विर्वा एता नव नव प्राणा अभिपूर्वमेवैताभिरायुर्दधते
23.13
एता एव समहाव्रताः
एताभिर्वै वायुरारण्यानां पशुनामाधिपत्यं गच्छन्ति य एता उपयन्ति
मृगसत्रं वा एतत्
एताभिर्वा आरण्याः पशवो नाकृताः प्रजायन्ते
अनाकृतमेषां प्रजायते य एता उपयन्ति
23.14
अत्रिरात्रोऽभिप्लवः षडहोऽभिजिच्च विश्वजिच्च द्वे अहनी द्वादशाहस्य दशाहान्यतिरात्रः
पुरूषकामा उपेयुरेताभिर्वै प्रजापतिः पुरूषमसृजत
स सर्वस्यान्नाद्यस्याधिपत्यमगच्छत् सर्वस्यान्नाद्यस्याधिपत्यं गच्छन्ति य एता उपयन्ति
पुरूषसत्रं वा एतत्
विंशो वै पुरूषो दश हि हस्त्या अङ्गुल्यो दश पाद्याः
यदेता विंशती रात्रयो भवन्त्येष्वेवैताभिर्लोकेषु पुरूषं प्रतिष्ठापयन्ति
एता वै प्रतिष्ठिता विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
23.15
अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽभिप्लवः षडहोऽतिरात्रः पशुकामा उपेयुः
एताभिर्वा आदित्याः सप्त ग्राम्यान् पशूनुदसृजन्त पशूनेवैताभिरुत्सृजन्ति (उत्सृजन्ते)
त्रिर्वै सप्त सप्तादित्याः
पशव आदित्याः
आदित्या अस्मिंल्लोके ऋद्धा आदित्या अमुष्मिन्
पशवोऽस्मिनृतवोऽमुष्मिन्
उभयोरनयोर्लोकयोरृध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति
23.16
अतिरात्रः पृष्ठयः षडहस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रो ब्रह्मवर्चसकामा उपेयुः
स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् तस्मै देवाः प्रायश्चित्तिमैच्छंस्त एता अविन्दंस्ताभिरस्मात् तमोऽपाघ्नन्
अप तमो घ्नते य एता उपयन्ति
सौमापौषं पशुमुपालभ्यमालभेरन्
सोमो वै ब्राह्मणः पशवः पूषा स्वामेव तद्देवतां पशुभिर्बंहयन्ते त्वचमेवाक्रत
मनोरृचः सामिधेन्यो भवन्ति
मनुर्वै यत् किं चावदत् तद्भेषजं भेषजतायै
नैदाधीय उपेयुः
तद्ध्येष प्रति तेजिष्ठं तपति
किलासत्वात् तु भयमति ह्येभ्योऽपहन्ति
एता वा उग्रदेवो राजनिरुपैत् स किलासोऽभवत्
अकिलासो भवति य एवं विद्वानेता उपैति
23.17
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चान्नाद्यकामा उपेयुः
पञ्चर्तवो द्वादश मासास्त्रय इमे लोका असावादित्य एकविंशोऽन्नं द्वाविंशमेभ्यो लोकेभ्यः संवत्सरादमुष्मादादित्यादन्नाद्यमवरुन्धते य एता उपयन्ति
23.18
अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः प्रतिष्ठाकामा उपेयुः
एताभिर्वै प्रजापतिरेषु लोकेषु प्रत्यतिष्ठत्
यदेतास्त्रयोविंशती रात्रयो भवन्ति त्रय इमे लोका एष्वेवैताभिर्लोकेषु प्रतितिष्ठन्ति
एता वै प्रतिष्ठितास्त्रयोविंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
23.19
अतिरात्रः पृष्ठयः स्तोमः षडहस्त्रयस्त्रिंशमहरनिरुक्तमुपहव्यस्य तन्त्रे कॢप्त तस्य कण्वरथन्तरं मध्यन्दिनेऽथ त्रयस्त्रिंश निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशमहर्निरुक्तं त्रयस्त्रिंशमहरनिरुक्तं पृष्ठयः स्तोमः षडहः प्रत्यङ्त्रिवृदहरनिरुक्तं ज्योतिष्टोमोऽग्निष्टोमोऽतिरात्रः
एताभिर्वै देवाः स्वर्गे लोके समसीदन् स्वर्गे लोके सीदामेत्येताः
एता वाव ब्रध्नस्य विष्टपो यदेते त्रयस्तिंशा मध्यतः संधीयन्ते तेन ब्रध्नस्य विष्टपं रोहन्ति
मध्यतः पृष्ठान्युपयन्त्यन्नं वै पृष्ठान्यन्नमेव तन्मध्यतो धीयते तस्मान्मध्ये सदन्नं धिनोति
सप्ताहा वा एते
अतो वै प्रजाः प्रजायन्ते
प्र प्रजया प्र पशुभिर्जायन्ते य एता उपयन्ति
अपशव्यं वा एतत् सत्त्रं यदच्छन्दोमं यत् सप्ताहास्तेन छन्दोमवत्यस्तेन पशव्याः
त्रयस्त्रिंशस्त्रयस्त्रिंशमन्वेति त्रिवृत् त्रिवृतमग्रादग्रं रोहन्ति यत् त्रयस्त्रिंशस्त्रयस्त्रिंशमन्वेति प्राणात् प्राणेषु प्रतितिष्ठन्ति
यत् त्रिवृत् त्रिवृतम्
विलोमानो वा एता रात्रयो यत् ज्योतिरग्निष्टोम उत्थानीयमहर्भवत्यकॢप्तस्य कॢप्त्यै
23.20
अतिरात्रो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः प्रजाकामा वा पशुकामा वोपेयुः
कॢप्ताद्वै योनेः प्रजाः पशवः प्रजायन्ते यत् कॢप्तौ षडहावुपयन्ति कॢप्तादेव योनेः प्रजया पशुभिः प्रजायन्ते
अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
एता वै प्रतिष्ठिताश्चतुर्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
23.21
एता एव समहाव्रताः
एताभिर्वै प्रजापतिः सर्वमन्नाद्यमवारून्ध
चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशोऽन्नं व्रतं संवत्सरादेताभिरन्नाद्यमवरून्धते य एता उपयन्ति
23.22
अतिरात्रो गौश्चायुश्च द्वे अहनी द्वावभिप्लवौ षडाहौ द्वादशाहस्य दशाहान्यतिरात्रः
ऋतवो न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति
षड्वा ऋतव ऋतुष्वेवैताभिः प्रतितिष्ठन्ति
यद्गौश्चायुश्च द्वे अहनी भवतो मिथुनौ स्तोमावुपयन्ति प्रजात्यै
यत् कॢप्तौ षडहावुपयन्ति कॢप्त्या एव
अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
एता वै प्रतिष्ठिता षड्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्र ऋद्धिकामा उपेयुः
एताभिर्वै नक्षत्राणि सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एता उपयन्ति
यदेता सप्तविंशती रात्रयो भवन्ति सप्तविंशतिर्नक्षत्राणि नक्षत्रसम्मिता वा एता रात्रयो नक्षत्राणामेवर्धिमृध्नुवन्ति
23.24
एता एव समहाव्रताः पशुकामा उपेयुर्यदेता अष्टाविंशती रात्रयो भवन्त्यष्टाशफाः पशवः शफश एवैताभिः पशूनवरून्धते
23.25
अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः
एताभिर्वै प्रजापतिरनन्तां श्रियमजयत्
अनन्ता वा एता या एकयानत्रिंशन्नेति वै वाचोऽनन्तम्
यदेता एकयानत्रिंशद्रात्रयो भवन्त्यनन्तामेवैताभिः श्रियं जयन्ति
23.26
अतिरात्रस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रोऽन्नाद्यकामा उपेयुः
परोक्षमन्यानि सत्त्राणि विराजं सम्पद्यन्ते प्रत्यक्षमेता विराजं सम्पन्नाः
प्रत्यक्षमेताभिरन्नाद्यमवरून्धते य एता उपयन्ति
23.27
एता एव समहाव्रता एताभिर्वै प्रजापतिरभिपूर्वमन्नाद्यमवारून्ध
अन्नं विराडन्नं व्रतम्
अभिपूर्वमेवैताभिरन्नाद्यमवरून्धते
23.28
अतिरात्रो गौश्चायुश्च द्वे अहनी त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः
अनुष्टुब्वा एता रात्रयः
द्वात्रिंशदक्षरानुष्टुप्
वागनुष्टुप्
चतुष्पादाः पशवः
वाचा पशून् दाधार
एताभी रात्रीभिः
तस्मात् ते वाचा सिद्धा वाचाहूता आ यन्ति

२३.१.१ आप्तद्वादशरात्रः

अतिरात्रः पृष्ठयः षडहः सर्वस्तोमोऽतिरात्रश्चत्वारश्छन्दोमा अतिरात्रः

२३.१.२ तत् प्रशंसा

एष वा आप्तो द्वादशाहो यत्त्रयोदशरात्रः

२३.१.३ आद्यन्तेऽतिरात्रः

समानो ह्येष यत्प्रयणीयश्चोदयनीयश्चातिरात्रौ कामं कामयन्ते तं एताभिरभ्यश्नुवते

२३.१.४ मध्यमस्य सर्व्व स्तोमत्वं

गृहपतेस्तु वागुपदासुका भवति तद्यन्मध्ये सर्वस्तोमोऽतिरात्रो भवति तेन गृहपतेर्वागनुपदासुका भवति

२३.१.५ सर्व्वर्द्धि फल साधनत्वं

एता वा अर्यलगृहपतय आरूणिहोतारः सुभगासूपयन्ति ते सर्वां ऋद्धिं आर्ध्नुवन्सर्वां ऋद्धिं ऋध्नुवन्ति य एता उपयन्ति

२३.२.१ प्रतिष्ठासाधनत्रयोदशरात्रः

अतिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च

२३.२.२ पूर्व्ववैलक्षण्यं

वाग्वा एषा प्रतायते यदेष द्वादशाहस्तां विच्छिन्द्युर्यन्मध्येऽतिरात्रं कुर्युः

२३.२.३ आशङ्कापरिहारः

यदुपरिष्टाद्व्रतं उपयन्ति न वाचं विच्छिन्दन्त्याप्नुवन्ति त्रयोदशं मासम्

२३.२.४ फल कथनं

एता वै प्रतिष्ठितास्त्रयोदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.३.१ सर्व्वफलसाधन चतुर्दशरात्रः

अतिरात्रः पृष्ठयः षडहः पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रः

२३.३.२ तत् प्रशंसा

कामसनयो वा एता रात्रयः

२३.३.३ विभागेन प्रदर्शनं

विराढ्ढि दशात्मैकादशी प्रजा द्वादशी पशवस्त्रयोदशी कामाय चतुर्दशी

२३.३.४ सर्व्वकामसिद्धिः

सर्वानेवैताभिः कामानवरून्धते

२३.३.५ आरोह प्रशंसा

एता वाव ब्रध्नस्य विष्टपो यदेतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपं रोहन्ति

२३.३.६ द्विरावर्त्तन प्रशंसा

द्विः पृष्ठान्युपयन्त्यभिपूर्वं एवैताभिरन्नाद्यं दधते
२३.३.७ द्विरावर्त्तन प्रशंसा
पक्षिण्यो वा एता रात्रयो यङ्कामङ्कामयन्ते तमेताभिरभयश्नवते
२३.३.८ आद्यन्तावतिरात्रौ
यत्र यत्र हि पक्षी कामयते तत्तदभ्यश्नते
२३.३.९
त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैरेव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति

२३.४.१ द्वितीय चतुर्दशरात्रः

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहः पृष्ठ्य षडह आयुर्गौर्ज्योतिरतिरात्रः

२३.४.२ अधिकारि निर्णयः

यांस्तल्पे वोदके वा विवाहे वा मीमांसेरंस्त एता उपेयुः

२३.४.३ आद्यत्र्यहः प्रशंसा

यत्ज्योतिर्गौरायुस्त्र्यहः प्रज्ञातां स्तोमानुपयन्ति

२३.४.४ प्रज्ञातत्वोपपत्तिः

इमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठान्ति

२३.४.५ अनन्तरभावि षडहः

अथ यत्पृष्ठ्यः षडहो मध्यतो भवत्येषु वाव देवतल्पो देवतल्पं एव तदारोहन्ति तल्प्या भवन्ति

२३.४.६ अनन्तर भाविषडहः

प्रवसीयसस्तल्पं आप्नुवन्ति

२३.४.७ त्रिकद्रुक प्रशंसा

अथ यदायुर्गौर्ज्योतिरतिरात्रो येनेतो यन्ति तेन पुनरायन्ति

२३.५.१ तृतीय चतुर्दशरात्रः

अतिरात्रो गौश्चायुश्च द्वे अहनी द्वादशाहस्य दशाहान्यतिरात्रः

२३.५.२ अहर्द्वय प्रशंसा

यद्गौश्चायुश्च द्वे अहनी भवतो मिथुनौ स्तोमावुपयन्ति प्रजात्यै

२३.५.३ दशाहः प्रशंसा

अथ यानि द्वादशाहस्य दशाहानि वाचं अविच्छिन्नां उपयन्ति प्रजननाय

२३.५.४ चतुर्दश रात्रीणां प्रशंसा

एता वै प्रतिष्ठिताश्चतुर्दश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.६.१ प्रथम पञ्चदशरात्रः

अतिरात्रः पृष्ठयः षडहो महाव्रतं पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रः

२३.६.२ तत्फल कथनं

एताभिर्वै देवा देवत्वं अगच्छन्देवत्वं गच्छन्ति य एता उपयन्ति

२३.६.३ देवता सम्बन्धः

एतद्वै देवानां सत्त्रं तदद्यापि देवाः सत्त्रं आसते

२३.६.४ अहर्निर्णयः

पौर्णमास्यतिरात्रोऽथ यानि षडहानि स पृष्ठयः षडह एकाष्टका महाव्रतं अथ यानि षडहानि स पृष्ठयः षडहोऽमावास्यातिरात्रः

२३.६.५ देवताभ्य रोहणं

तस्मात्तर्हि मनुष्याणां न सुतो देवानां हि तर्हि सुतः प्रत्यक्षं एवैताभिर्देवता अभ्यारोहन्ति

२३.६.६ दीक्षोपक्रमः

प्रतिनोदात्तु भय्यं इतरं अनुपक्षो दीक्षेरन्नप्रतिनोदाय

२३.७.१ द्वितीय पञ्चदशरात्रः

अतिरात्रस्त्रिवृदग्निष्टुदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहः पृष्ठयः षडह आयुर्गौर्ज्योतिरतिरात्रः

२३.७.२ रात्रीणां प्रशंसा

क्षत्रं वा एता रात्रयोऽभिनिर्वदन्ति

२३.७.३ सोमाधिकारि निर्णयः

ब्रह्मवर्चसकामा उपेयुः

२३.७.४ प्रथमाहः प्रशंसा

यत्त्रिवृदग्निष्टुदग्निष्टोमो भवति ब्रह्म तद्यशसार्धयति

२३.७.५ स्तोम ब्राह्मण सम्बन्धः

ब्रह्म वै त्रिवृत्

२३.७.६ षडहः त्रिकद्रुक प्रशंसा

यत् ज्योतिर्गौरायुस्त्र्यहः प्रज्ञातान्स्तोमानुपयन्तीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठन्त्यथ यत्पृष्ठयः षडहो मध्यतो भवत्यन्नं वै पृष्टान्यन्नं एव तन्मध्यतो धीयते तस्मान्मध्ये सदन्नं धिनोत्यथ यदायुर्गौर्ज्योतिरतिरात्रो येनेतो यन्ति तेन पुनरायन्ति

२३.८.१ तृतीय पञ्चदशातिरात्रः

त्रिवृदग्निष्टुदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः

२३.८.२ अहीन वैलक्षण्यं

अन्यस्मै वै कामाय सत्त्रं अन्यस्मै यज्ञो न तत्सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रम्

२३.८.३ उभय लिङ्ग प्रदर्शनं

यदन्यतोऽतिरात्रास्तेन यज्ञोऽथ यानि द्वादशाहस्य दशाहानि तेन सत्त्रम्

२३.८.४ उभय लिङ्गत्व कारणं

उभावेवैताभिः कामाववरुन्धते

२३.९.१ चतुर्थ पञ्चदशरात्रः

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः प्रजाकामा उपेयुः

२३.९.२ प्रजाफल साधनता

एताभिर्वै प्रजापतिः प्रजा असृजत प्र प्रजया प्र पशुभिर्जायन्ते य एता उपयन्ति

२३.९.३ त्र्यहः प्रशंसा

यत् ज्योतिर्गौरायुस्त्र्यहः प्रजातान्स्तोमानुपयन्तीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठन्ति

२३.९.४ दशाहः प्रशंसा

अथ यानि द्वादशाहस्य दशाहानि वाचं अविच्छिन्नां उपयन्ति प्रजननाय

२३.९.५ समुच्चय प्रशंसा

एता वै प्रतिष्ठिताः पञ्चदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.१०.१ ऐन्द्रषोडश रात्रः

एता एव समहाव्रताः

२३.१०.२ फल कथनं

एताभिर्वा इन्द्रः परमां विजितिं व्यजयत परमां एवैताभिर्विजितिं विजयन्ते

२३.१०.३ वज्रधारण स्थानीयता

पञ्चदशो वै वज्रो न वा अगृहीतेन वज्रेण वीर्यं करोति या षोडश्यारम्भणं एव तद्गृहीतेन वज्रेण वीर्यं करोति

२३.११.१ प्रजापति सप्तदशरात्रः

अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः

२३.११.२ फल कथनं

एताभिर्वै प्रजापतिरनन्तां श्रियं अजयदनन्ता वा एता यत्पञ्चाहविधाः

२३.११.३ आद्यपञ्चाहः प्रशंसा

यत्पञ्चाहोऽनन्तादेव प्रजायन्ते

२३.११.४ द्वादशाहः प्रशंसा

अथ यानि द्वादशाहस्य दशाहानि वाचं अविच्छिन्नां उपयन्ति प्रजननाय

२३.११.५ कृत्स्नरात्रि प्रशंसा

एता वै प्रतिष्ठिताः सप्तदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.१२.१ देवाष्टादश रात्रः

अतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः

२३.१२.२ अमृतत्व साधनता

देवा वै मृत्योरबिभयुस्ते प्रजापतिं उपाधावंस्तेभ्य एतेनाष्टादशरात्रेणामृतत्वं प्रायच्छत्

२३.१२.३ मनुष्योचितामृतत्वं

एतद्वाव मनुष्यस्यामृतत्वं यत्सर्वं आयुरेति वसीयान्भवति

२३.१२.४ अमृतत्वकामैरनुष्ठेयता

सर्वं आयुर्यन्ति वसीयांसो भवन्ति य एता उपयन्ति

२३.१२.५ सर्व्वायुः साधनत्वं

द्विर्वा एता नव नव प्राणा अभिपूर्वं एवैताभिरायुर्दधते

२३.१३.१ वायोरेकोनविंशति रात्रः

एता एव समहाव्रताः

२३.१३.२ पशुसाधनता

एताभिर्वै वायुरारण्यानां पशुनां आधिपत्यं गच्छन्ति य एता उपयन्ति

२३.१३.३ तत्प्रशंसा

मृगसत्रं वा एतत्

२३.१३.४ तत्प्रशंसा

एताभिर्वा आरण्याः पशवो नाकृताः प्रजायन्ते

२३.१३.५ मृगसाधनत्वं

अनाकृतं एषां प्रजायते य एता उपयन्ति

२३.१४.१ विंशति रात्रः

अत्रिरात्रोऽभिप्लवः षडहोऽभिजिच्च विश्वजिच्च द्वे अहनी द्वादशाहस्य दशाहान्यतिरात्रः

२३.१४.२ पुरुषफल साधनत्वं

पुरूषकामा उपेयुरेताभिर्वै प्रजापतिः पुरूषं असृजत

२३.१४.३ अर्थवादकरणं

स सर्वस्यान्नाद्यस्याधिपत्यं अगच्छत्सर्वस्यान्नाद्यस्याधिपत्यं गच्छन्ति य एता उपयन्ति

२३.१४.४ रात्रिसंख्या कथनं

पुरुषसत्रं वा एतत्

२३.१४.५ रात्रिसंख्या कथनं

विंशो वै पुरुषो दश हि हस्त्या अङ्गुल्यो दश पाद्याः

२३.१४.६ रात्रिसंख्या कथनं

यदेता विंशती रात्रयो भवन्त्येष्वेवैताभिर्लोकेषु पुरूषं प्रतिष्ठापयन्ति

२३.१४.७ रात्रि प्रशंसा

एता वै प्रतिष्ठिता विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.१५.१ प्रथमैकविंशति रात्रः

अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽभिप्लवः षडहोऽतिरात्रः पशुकामा उपेयुः

२३.१५.२ प्पशुसाधनता

एताभिर्वा आदित्याः सप्त ग्राम्यान्पशूनुदसृजन्त पशूनेवैताभिरुत्सृजन्ति (उत्सृजन्ते)

२३.१५.३ सप्तसंख्यासमर्थनं

त्रिर्वै सप्त सप्तादित्याः

२३.१५.४ पशुफलत्व करणं

पशव आदित्याः

२३.१५.५ लोकद्वय समृद्धिः

आदित्या अस्मिंल्लोके ऋद्धा आदित्या अमुष्मिन्

२३.१५.६ लोकद्वय समृद्धिः

पशवोऽस्मिनृतवोऽमुष्मिन्

२३.१५.७ लोकद्वय समृद्धिः

उभयोरनयोर्लोकयोरृध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति

२३.१६.१ द्वितीयैकविंशतिरात्रः

अतिरात्रः पृष्ठयः षडहस्त्रयः स्वरसामानो दिवाकीर्त्यं अहस्त्रयः स्वरसामानः पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रो ब्रह्मवर्चसकामा उपेयुः

२३.१६.२ फल प्रदर्शनं

स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत्तस्मै देवाः प्रायश्चित्तिं ऐच्छंस्त एता अविन्दंस्ताभिरस्मात्तमोऽपाघ्नन्

२३.१६.३ अनुष्ठातॄणां तत्फलं

अप तमो घ्नते य एता उपयन्ति

२३.१६.४ पक्षविशेषालम्भनं

सौमपौषं पशुं उपालभ्यं आलभेरन्

२३.१६.५ पशुदेवता कथनं

सोमो वै ब्राह्मणः पशवः पूषा स्वां एव तद्देवतां पशुभिर्बंहयन्ते त्वचं एवाक्रत

२३.१६.६ सामिधेन्यां विशेषः

मनोरृचः सामिधेन्यो भवन्ति

२३.१६.७ मनुसम्बन्ध प्रशंसा

मनुर्वै यत्किं चावदत्तद्भेषजं भेषजतायै

२३.१६.८ सत्रकाल विशेषः

नैदाघीय उपेयुः

२३.१६.९ काल प्रशंसा

तद्ध्येष प्रति तेजिष्ठं तपति

२३.१६.१० सत्रिणामभयत्वं

किलासत्वात्तु भयं अति ह्येभ्योऽपहन्ति

२३.१६.११ विलास साधनता

एता वा उग्रदेवो राजनिरुपैत्स किलासोऽभवत्

२३.१६.१२ सत्रानुष्ठान प्रशंसा

अकिलासो भवति य एवं विद्वानेता उपैति

२३.१७.१ द्वाविंशतिरात्रः

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चान्नाद्यकामा उपेयुः

२३.१७.२ उक्तफल साधनता

पञ्चर्तवो द्वादश मासास्त्रय इमे लोका असावादित्य एकविंशोऽन्नं द्वाविंशं एभ्यो लोकेभ्यः संवत्सरादमुष्मादादित्यादन्नाद्यं अवरुन्धते य एता उपयन्ति

२३.१८.१ त्रयोविंशतिरात्रः

अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः प्रतिष्ठाकामा उपेयुः

२३.१८.२ प्रतिष्ठा साधनता

एताभिर्वै प्रजापतिरेषु लोकेषु प्रत्यतिष्ठत्

२३.१८.३ प्रतिष्ठा साधनता

यदेतास्त्रयोविंशती रात्रयो भवन्ति त्रय इमे लोका एष्वेवैताभिर्लोकेषु प्रतितिष्ठन्ति

२३.१८.४ सत्रिणां प्रतिष्ठितत्वं

एता वै प्रतिष्ठितास्त्रयोविंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.१९.१ प्रथम चतुर्विंशतिरात्रः

अतिरात्रः पृष्ठयः स्तोमः षडहस्त्रयस्त्रिंशं अहरनिरुक्तं उपहव्यस्य तन्त्रे क्ळ्प्त तस्य कण्वरथन्तरं मध्यन्दिनेऽथ त्रयस्त्रिंश निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशं अहर्निरुक्तं त्रयस्त्रिंशं अहरनिरुक्तं पृष्ठयः स्तोमः षडहः प्रत्यङ्त्रिवृदहरनिरुक्तं ज्योतिष्टोमोऽग्निष्टोमोऽतिरात्रः

२३.१९.२ स्वर्गोपपत्ति साधनता

एताभिर्वै देवाः स्वर्गे लोके समसीदन्स्वर्गे लोके सीदामेत्येताः

२३.१९.३ स्वर्गोपपत्ति साधनता

एता वाव ब्रध्नस्य विष्टपो यदेते त्रयस्तिंशा मध्यतः संधीयन्ते तेन ब्रध्नस्य विष्टपं रोहन्ति

२३.१९.४ षडहद्वय प्रशंसा

मध्यतः पृष्ठान्युपयन्त्यन्नं वै पृष्ठान्यन्नं एव तन्मध्यतो धीयते तस्मान्मध्ये सदन्नं धिनोति

२३.१९.५ सप्तधा विभागः

सप्ताहा वा एते

२३.१९.६ सप्तधा विभागः

अतो वै प्रजाः प्रजायन्ते

२३.१९.७ सप्तधा विभागः

प्र प्रजया प्र पशुभिर्जायन्ते य एता उपयन्ति

२३.१९.८ सप्ताहः प्रशंसा

अपशव्यं वा एतत्सत्त्रं यदच्छन्दोमं यत्सप्ताहास्तेन छन्दोमवत्यस्तेन पशव्याः

२३.१९.९ दशरात्र व्यवधानं

त्रयस्त्रिंशस्त्रयस्त्रिंशं अन्वेति त्रिवृत्त्रिवृतं अग्रादग्रं रोहन्ति यत्त्रयस्त्रिंशस्त्रयस्त्रिंशं अन्वेति प्राणात्प्राणेषु प्रतितिष्ठन्ति

२३.१९.१० दशरात्र व्यवधानं

यत्त्रिवृत्त्रिवृतम्

२३.१९.११ सन्तत्त्यर्थत्वं

विलोमानो वा एता रात्रयो यत्ज्योतिरग्निष्टोम उत्थानीयं अहर्भवत्यक्ळ्प्तस्य क्ळ्प्त्यै

२३.२०.१ द्वितीय चतुर्व्विंशतिरात्रः

अतिरात्रो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः प्रजाकामा वा पशुकामा वोपेयुः

२३.२०.२ आद्य षडहद्वयं

क्ळृप्ताद्वै योनेः प्रजाः पशवः प्रजायन्ते यत्क्ळ्प्तौ षडहावुपयन्ति क्ळ्प्तादेव योनेः प्रजया पशुभिः प्रजायन्ते

२३.२०.३ दशाहः प्रशंसा

अथ यानि द्वादशाहस्य दशाहानि वाचं अविच्छिन्नां उपयन्ति प्रजननाय

२३.२०.४ सर्व्वरात्रि प्रशंसा

एता वै प्रतिष्ठिताश्चतुर्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.२१.१ पञ्चविंशतिरात्रः

एता एव समहाव्रताः

२३.२१.२ अन्नाद्य फलं

एताभिर्वै प्रजापतिः सर्वं अन्नाद्यं अवारून्ध

२३.२१.३ अन्नाद्य फलं

चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशोऽन्नं व्रतं संवत्सरादेताभिरन्नाद्यं अवरून्धते य एता उपयन्ति

२३.२२.१ षड्विंशतिरात्रः

अतिरात्रो गौश्चायुश्च द्वे अहनी द्वावभिप्लवौ षडाहौ द्वादशाहस्य दशाहान्यतिरात्रः

२३.२२.२ प्रतिष्ठा साधनता

ऋतवो न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन्प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति

२३.२२.३ प्रतिष्ठा साधनता

षड्वा ऋतव ऋतुष्वेवैताभिः प्रतितिष्ठन्ति

२३.२२.४ अहर्द्व्य प्रशंसा

यद्गौश्चायुश्च द्वे अहनी भवतो मिथुनौ स्तोमावुपयन्ति प्रजात्यै

२३.२२.५ षडहः प्रशसा

यत्क्ळृप्तौ षडहावुपयन्ति क्ळ्प्त्या एव

२३.२२.६ दशाहः प्रशंसा

अथ यानि द्वादशाहस्य दशाहानि वाचं अविच्छिन्नां उपयन्ति प्रजननाय

२३.२२.७ सर्व्वेषां प्रशंसा

एता वै प्रतिष्ठिता षड्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.२३.१ सप्तविंशतिरात्रः

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्र ऋद्धिकामा उपेयुः

२३.२३.२

एताभिर्वै नक्षत्राणि सर्वामृद्धिं आर्ध्नुवन्सर्वां ऋद्धिं ऋध्नुवन्ति य एता उपयन्ति

२३.२३.३

यदेता सप्तविंशती रात्रयो भवन्ति सप्तविंशतिर्नक्षत्राणि नक्षत्रसम्मिता वा एता रात्रयो नक्षत्राणां एवर्धिं ऋध्नुवन्ति

२३.२४.१ अष्टाविंशतिरात्रः

एता एव समहाव्रताः पशुकामा उपेयुर्यदेता अष्टाविंशती रात्रयो भवन्त्यष्टाशफाः पशवः शफश एवैताभिः पशूनवरून्धते

२३.२५.१ एकोनत्रिंश रात्रः

अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः

२३.२५.२

एताभिर्वै प्रजापतिरनन्तां श्रियं अजयत्

२३.२५.३

अनन्ता वा एता या एकयानत्रिंशन्नेति वै वाचोऽनन्तम्

२३.२५.४

यदेता एकयानत्रिंशद्रात्रयो भवन्त्यनन्तां एवैताभिः श्रियं जयन्ति

२३.२६.१ त्रिंशद्रात्रः क्रतुः

अतिरात्रस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रोऽन्नाद्यकामा उपेयुः

२३.२६.२ अन्नाद्य साधनता

परोक्षं अन्यानि सत्त्राणि विराजं सम्पद्यन्ते प्रत्यक्षं एता विराजं सम्पन्नाः

२३.२६.३ सत्रिणां फलं

प्रत्यक्षं एताभिरन्नाद्यं अवरून्धते य एता उपयन्ति

२३.२७.१ एकत्रिंशद्रात्रः

एता एव समहाव्रता एताभिर्वै प्रजापतिरभिपूर्वं अन्नाद्यं अवारून्ध

२३.२७.२ अन्नाद्यस्याभिपूर्य्यता

अन्नं विराडन्नं व्रतम्

२३.२७.३ अनुष्ठायिनां फलं

अभिपूर्वं एवैताभिरन्नाद्यं अवरुन्धते

२३.२८.१ द्वात्रिंशद्रात्रः

अतिरात्रो गौश्चायुश्च द्वे अहनी त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः

२३.२८.२ अनुष्टुप सम्पादनं

अनुष्टुब्वा एता रात्रयः

२३.२८.३ अनुष्टुप सम्पादनं

द्वात्रिंशदक्षरानुष्टुप्

२३.२८.४ अनुष्टुप सम्पादनं

वागनुष्टुप्

२३.२८.५

चतुष्पादाः पशवः

२३.२८.६ पश्वात्मकत्वं

वाचा पशून्दाधार

२३.२८.७ पश्वात्मकत्वं

एताभी रात्रीभिः

२३.२८.८ वाचाआगमनादि व्यवहारः

तस्मात्ते वाचा सिद्धा वाचा हूता आ यन्ति