पञ्चविंशब्राह्मणम्/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ पञ्चविंशब्राह्मणम् (ताण्ड्यब्राह्मणम्)
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →
षड्रात्रादि एकादशरात्रपर्य्यन्त वर्णनं

22.1
पृष्ठ्यः षडहः
ऋतवो न प्रत्यतिष्ठंस्त एतेन प्रत्यतिष्ठन् प्रतिष्ठाकामो यजेत प्रत्येव तिष्ठति
षड्वा ऋतव ऋतुष्वेवैतेन प्रतितिष्ठति पृष्ठः षडहो भवति प्रत्यक्षमृध्यै
प्रत्यक्षं ह्येतेनर्तव आर्ध्नुवन्नृध्या एव
22.2
त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः
यः कामयेत सर्वमायुरियामिति स एतेन यजेत
यत् त्र्यहः पुरस्ताद्भवति त्रयः प्राणापानव्यानास्त एव तत् संधीयन्ते
अथ यत् ज्योतिर्गौरायुरतिरात्रो भवति प्रतिष्ठित्यै
22.3
अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः
अन्यस्मै वै कामाय सत्त्रमन्यस्मै यज्ञो न तत्सत्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रम्
सत्त्रमिव वा एतद्यदनुलोमं पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिंस्तदोजो वीर्यं दधाति
अन्नं पृष्ठान्यन्नाद्यमेवास्मिन् दधाति
पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठति
अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै
विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै
22.4
पृष्ठयः षडहो महाव्रतमतिरात्रः
सप्त ऋषय एतेनार्ध्नुवंस्तेनर्द्धिस्तस्मादेतेन यजन्त ऋद्ध्या एव
सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्येवैतेनाप्नोति
सप्त ग्राम्याः पशवस्तानेतेनाप्नोति
व्रतं सप्तमस्याह्नः पृष्ठं भवति तद्ध्यनाप्तमन्नं वै व्रतमन्नाद्यमेवैतेनाप्नोति
पृष्ठयः षडहो भवति प्रत्यक्षमृध्यै
प्रत्यक्षं ह्येतेन सप्त ऋषय आर्ध्नुवन्नृध्या एव
22.5
पृष्ठयः षडहः सप्तदशं महाव्रतमतिरात्रः
तस्य त्रिवृच्छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम्
एतेन वै प्रजापतिः प्रजा असृजत
प्र प्रजया प्र पशुभिर्जायते य एवं वेद
सप्तदशो वै प्रजापतिर्यत् सप्तदशं व्रतं भवति प्रजापतिमेवाप्नोति
यत् त्रिवृच्छिरो भवति नव प्राणाः प्राणेष्वेव प्रति तिष्ठति
यत् पञ्चदशौ पक्षौ सवीवधत्वाय
सप्तदश आत्मा भवति प्रजापतिर्वै सप्तदशः प्रजा पतिमेवाप्नोति
एकविंशं पुच्छ भवति प्रतिष्ठित्यै
22.6
पृष्ठयः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रः
पशुकामो यजेत
पशवो वै छन्दोमाः
यच्छन्दोमाः पवमाना महाव्रतस्य भवन्ति पशूनेवावरून्धे
उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
22.7
अभ्यासङ्ग्यः पञ्चाहोऽथ त्रयस्त्रिंशमहस्तस्य चतुस्त्रिंशोऽग्निष्टोमः सप्तदशं महाव्रतमतिरात्रस्तस्य चतुर्विंशं बहिष्पवमानं त्रिवृच्छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम्
एतेन वै जमदग्निः सर्वान् पोषानपुष्यत् सर्वानेवैतेन पोषान् पुष्यति
यदभ्यासङ्ग्यः पञ्चाहः पुरस्ताद्भवति सन्तत्या एव
अथैतत् त्रयस्त्रिंशमहस्त्रयस्त्रिंशद्देवता देवता एवाप्नोति
तस्य चतुस्त्रिंशोऽग्निष्टोमः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिमेवाप्नोति
चतुर्विंशं बहिष्पवमानं भवति महाव्रतस्य चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
यत् त्रिवृच्छिरो भवति नव प्राणाः प्राणेष्वेव प्रतितिष्ठति यत् पञ्चदशौ पक्षौ सवीवधत्वाय सप्तदश आत्मा भवति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोत्येकविंशं पुच्छं भवति प्रतिष्ठित्यै
22.8
ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोमः सर्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः
एतेन वा इन्द्रोऽत्यान्या देवता अभवदत्यन्या प्रजा भवति य एवं वेद
यत् ज्योतिर्गौरायुस्त्र्यहः पुरस्ताद्भवति प्रज्ञातान् स्तोमानुपैतीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठति
अथाभिजिदभिजिता वै देवा इमान् लोकानभ्यजयन् विश्वजिता विश्वमजयन् सर्वजिता सर्वमजयन्
सर्वस्तोमातिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति
22.9
चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतं ज्योतिष्टोमोऽतिरात्रः
एतेन वै प्रजापतिः पुरूषमसृजत स सर्वस्यान्नाद्यस्याधिपत्यमगच्छत्
सर्वस्यान्नाद्यस्याधिपत्यं गच्छति य एवं वेद
शिरो वा अग्रे सम्भवतः सम्भवति चतुर्धा विहितं वै शिरः प्राणश्चक्षुः श्रोत्रं वागात्मा वै पृष्ठानि यत् पृष्ठान्युपैति शिर एवात्मानमनुसन्दधाति
एतद्वै पुरूषमकस्तस्मा अन्नमेव व्रतमपिदधाति
अथ यत् ज्योतिष्टोमोऽतिरात्रो भवत्यकॢप्तस्य कॢप्त्यै
22.10
पृष्ठयः स्तोमः षडहो विश्वजिदतिरात्रः
अन्यस्मै वै कामाय सत्त्रमन्यस्मै यज्ञो न तत् सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रं सत्त्रमिव वा एतद्यदनुलोमं पृष्ठानि यदैकधा पृष्ठानि भवत्येकधैवास्मिंस्तेजो वीर्यं दधात्यन्नं पृष्ठान्यन्नाद्यमेवास्मिन् दधाति पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठति
यद्वै मनुष्याणां प्रत्यक्षं तद्देवानां परोक्षमथ यन्म मनुष्याणां परोक्षं तद्देवानां प्रत्यक्षम्
एतद्वै परोक्षं व्रतं यद्विश्वजित् प्रत्यक्षमेवैतेनान्नाद्यमवरुन्धे
22.11
पृष्ठयः षडहो महाव्रतं ज्योतिष्टोमोऽतिरात्रः
एतेन वै देवा देवत्वमगच्छन्
देवत्वं गच्छति य एवं वेद
एतद्वै व्रतमाप्तं यदष्टरात्रेऽग्निष्टोमो हि व्रतं सम्पद्यते
अथ यत् ज्योतिष्ठोमोऽतिरात्रो भवत्यकॢप्तस्य कॢप्त्यै
अष्टरात्रेण वै देवाः सर्वमाश्नुवत
सर्वमश्नुते य एवं वेद
22.12
पृष्ठयः षडहो ज्योतिर्गौरायुरतिरात्रो देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावंस्तेभ्य एतेन नवरात्रेणामृतत्वं प्रायच्छत्
एतद्वाव मनुष्यस्यामृतत्वं यत् सर्वमायुरेति वसीयान् भवति
सर्वमायुरेति वसीयान् भवति य एवं वेद
नवरात्रो वा एष नव प्राणाः प्राणेष्वेव प्रतितिष्ठति
पृष्ठयः षडहो भवति प्रत्यक्षमृद्धया अथ यत् ज्योतिर्गौरायुरतिरात्रो भवति प्रतिष्ठित्यै
22.13
[१]ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः पशुकामो यजेत
यत् ज्योतिर्गौरायुस्त्र्यहः पुरस्ताद्भवति प्रज्ञातान् स्तोमानुपैतीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठति
अथ यदभ्यासङ्ग्यः पञ्चाहो मध्यतो भवति पाङ्क्तः पुरुषः पाङ्क्ताः पशवस्तेन पुरुषं च पशूंश्चाप्नोति
विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै
22.14
त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यस्त्रिवृदग्निष्टोमः सप्तदशोऽग्निष्टोम एकविंश उक्थ्यः सप्तदशोऽग्निष्टोमस्त्रिणवोऽग्निष्टोमस्त्रयस्त्रिंश उक्थ्यस्त्रिणवोऽग्निष्टोमो विश्वजिदतिरात्रः
इन्द्रोऽसुरान् हत्वाकार्यं चकृवां अमन्यत तं देवा एतेन स्तोमेनायाजयन् स पाप्मनो नैर्दश्यमगच्छत्
तस्मादिषुहतो वा दण्डहतो वा दशमीं नैर्दश्यं गच्छति
दश दशिनी वा एषा विराडन्नं विराडन्नाद्यमेवास्मिन् दधाति
अग्निष्टोमेन वै देवा असुरान्निगृह्य मध्यत उक्थैः प्रजया पशुभिः प्राजायन्ताग्निष्टोमेनैव भ्रातृव्यं निगृह्य मध्यत उक्थ्यैः प्रजया पशुभिः प्रजायते
त्रिककुब्वा एष यज्ञः
त्रिककुप्समानानां च प्रजानां च भवति य एवं वेद
त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदश उक्थ्यास्त्रयः सप्तदश उक्थ्या एकविंशोऽतिरात्रः कुसुरुविन्ददशरात्रः
यः कामयेत बहु स्यामिति स एतेन यजेत
यद्गणशः स्तोमो बहुरेव भवति
सह त्रिवृत सह पञ्चदशाः सह सप्तदशाः
एकविंशोऽतिरात्रो भवति प्रतिष्ठित्यै
ज्योतिर्वा एष विहृतः
ज्योतिष्प्रजानां भवति य एवं वेद
चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठति
एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशः प्रत्येव तिष्ठति
एतेन वै कुसुरूविन्द औद्दालकिरिष्ट्वा भूमानमाश्नुत
भूमानमश्नुते य एवं वेद
22.16
अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमः विश्वजिदतिरात्रः पशुकामो यजेत
यदभ्यासङ्ग्यः पञ्चाहः पुरस्ताद्भवति पाङ्क्तः पुरुषः पाङ्क्ताः पशवस्तेन पुरुषं च पशूंश्चाप्नोति
छन्दोमा मध्यतो भवन्ति पशवो वै छन्दोमाः पशूनामवरुध्यै
विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै
22.17
त्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो गौरुक्थ्योऽभिजिदग्निष्टोमो गौरुक्थ्यो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमस्य सर्वस्तोमोऽतिरात्रः
देवा वा असुरैर्हन्यमानास्ते प्रजापतिमुपाधावंस्तेभ्य एतां देवपुरं प्रायच्छत् तां प्राविशन्
अभिचार्यमाणं याजयेदेतामेव देवपुरं प्रविशत्यसृत्यै
22.18
अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमाश्चतुष्टोमोऽग्निष्टोमो विश्वजिदतिरात्रः
स्वाराज्यो वा एष यज्ञः
स्वाराज्यं गच्छति य एवं वेद
प्रजापतिर्हि स्वाराज्यं परमेष्ठी स्वाराज्यम्
परमेष्ठितां गच्छति य एवं वेद
उभे बृहद्रथन्तरे भवतस्तद्धि स्वाराज्यमयुतं दक्षिणास्तद्धि स्वाराज्यं षड्विंशस्तोमो भवति स हि स्वाराज्यं चतुष्टोमस्तोमः स ह्यन्तोऽन्ते श्रिया गच्छति य एवं वेद
एतेन वै क्षेम धृत्वा पौण्डरीकं इष्ट्वा सुदाम्नस्तीर उत्तरे
सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नोति य एवं वेद

२२.१.१ ऋतूनां षड्रात्रः

पृष्ठ्यः षडहः

२२.१.२ अधिकारि निरूपणं

ऋतवो न प्रत्यतिष्ठंस्त एतेन प्रत्यतिष्ठन्प्रतिष्ठाकामो यजेत प्रत्येव तिष्ठति

२२.१.३ तत्प्रशंसनं

षड्वा ऋतव ऋतुष्वेवैतेन प्रतितिष्ठति पृष्ठः षडहो भवति प्रत्यक्षं ऋध्यै

२२.१.४ प्रत्यक्षर्द्धिहेतुता

प्रत्यक्षं ह्येतेनर्तव आर्ध्नुवन्नृध्या एव

२२.२.१ त्रिकद्रुक षड्रात्रः

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः

२२.२.२ अधिकारिनिर्णयः

यः कामयेत सर्वं आयुरियां इति स एतेन यजेत

२२.२.३ फलवैलक्षण्ये विशेषः

यत्त्र्यहः पुरस्ताद्भवति त्रयः प्राणापानव्यानास्त एव तत्संधीयन्ते

२२.२.४ फलवैलक्षण्ये विशेषः

अथ यत्ज्योतिर्गौरायुरतिरात्रो भवति प्रतिष्ठित्यै

२२.३.१ अभ्यासङ्ग्यः षड्रात्रः

अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः

२२.३.२ फलवैलक्षण्य प्रदर्शनं

अन्यस्मै वै कामाय सत्त्रं अन्यस्मै यज्ञो न तत्सत्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रम्

२२.३.३ फलवैलक्षण्य प्रदर्शनं

सत्त्रं इव वा एतद्यदनुलोमं पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिंस्तदोजो वीर्यं दधाति

२२.३.४ फलवैलक्षण्य प्रदर्शनं

अन्नं पृष्ठान्यन्नाद्यं एवास्मिन्दधाति

२२.३.५ पशुसाधनता

पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठति

२२.३.६ अभ्यासङ्गित्वं

अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै

२२.३.७ विश्वजिदतिरात्रत्वं

विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै

२२.४.१ सप्तर्षि सप्तरात्रः

पृष्ठयः षडहो महाव्रतं अतिरात्रः

२२.४.२ सप्तर्षिसम्बन्धः

सप्त ऋषय एतेनार्ध्नुवंस्तेनर्द्धिस्तस्मादेतेन यजन्त ऋद्ध्या एव

२२.४.३ अहर्गत सप्तसंख्या

सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्येवैतेनाप्नोति

२२.४.४ सप्तसंख्याद्वारा प्रशंसा

सप्त ग्राम्याः पशवस्तानेतेनाप्नोति

२२.४.५ महाव्रत पृष्ठत्वं

व्रतं सप्तमस्याह्नः पृष्ठं भवति तद्ध्यनाप्तं अन्नं वै व्रतं अन्नाद्यं एवैतेनाप्नोति

२२.४.६ महाव्रतातिरिक्ताहः

पृष्ठयः षडहो भवति प्रत्यक्षं ऋध्यै

२२.४.७ ऋद्धेः प्रत्यक्षत्वं

प्रत्यक्षं ह्येतेन सप्त ऋषय आर्ध्नुवन्नृध्या एव

२२.५.१ प्रजापति सप्तरात्रः

पृष्ठयः षडहः सप्तदशं महाव्रतं अतिरात्रः

२२.५.२ अङ्ग स्तोम व्यवस्था

तस्य त्रिवृच्छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम्

२२.५.३ प्रजासृष्टि साधनता

एतेन वै प्रजापतिः प्रजा असृजत

२२.५.४ उक्तार्थं प्रशंसा

प्र प्रजया प्र पशुभिर्जायते य एवं वेद

२२.५.५ सप्तदश स्तोमः

सप्तदशो वै प्रजापतिर्यत्सप्तदशं व्रतं भवति प्रजापतिं एवाप्नोति

२२.५.६ प्रजापतेः सप्तदशत्वं

यत्त्रिवृच्छिरो भवति नव प्राणाः प्राणेष्वेव प्रति तिष्ठति

२२.५.७ पक्ष पञ्चदशत्वं

यत्पञ्चदशौ पक्षौ सवीवधत्वाय

२२.५.८ आत्मभाग सप्तदशत्वं

सप्तदश आत्मा भवति प्रजापतिर्वै सप्तदशः प्रजा पतिं एवाप्नोति

२२.५.९ पुच्छस्यैकविंशत्वं

एकविंशं पुच्छ भवति प्रतिष्ठित्यै

२२.६.१ छन्दोम पवमान सप्तरात्रः

पृष्ठयः षडहश्छन्दोमपवमानं महाव्रतं अतिरात्रः

२२.६.२ अधिकारि निर्णयः

पशुकामो यजेत

२२.६.३ पशुसाधनता

पशवो वै छन्दोमाः

२२.६.४ पशुसाधनता

यच्छन्दोमाः पवमाना महाव्रतस्य भवन्ति पशूनेवावरून्धे

२२.६.५ स्तोमद्वैविध्यं

उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात्प्रजायते

२२.७.१ यामदग्न्य सप्तरात्रः

अभ्यासङ्ग्यः पञ्चाहोऽथ त्रयस्त्रिंशां अहस्तस्य चतुस्त्रिंशोऽग्निष्टोमः सप्तदशं महाव्रतं अतिरात्रस्तस्य चतुर्विंशं बहिष्पवमानं त्रिवृच्छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम्

२२.७.२ पुष्टिसाधनत्वं

एतेन वै जमदग्निः सर्वान्पोषानपुष्यत्सर्वानेवैतेन पोषान्पुष्यति

२२.७.३ त्रयस्त्रिंश स्तोमः

यदभ्यासङ्ग्यः पञ्चाहः पुरस्ताद्भवति सन्तत्या एव

२२.७.४ पञ्चाहः प्रशंसा

अथैतत्त्रयस्त्रिंशं अहस्त्रयस्त्रिंशद्देवता देवता एवाप्नोति

२२.७.५ चतुस्त्रिंशता

तस्य चतुस्त्रिंशोऽग्निष्टोमः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिं एवाप्नोति

२२.७.६ स्तोमसंस्था

चतुर्विंशं बहिष्पवमानं भवति महाव्रतस्य चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै

२२.७.७ स्तोमसंस्था

उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात्प्रजायते

२२.७.८ युग्मायुग्मस्तोमता

यत्त्रिवृच्छिरो भवति नव प्राणाः प्राणेष्वेव प्रतितिष्ठति यत्पञ्चदशौ पक्षौ सवीवधत्वाय सप्तदश आत्मा भवति प्रजापतिर्वै सप्तदशः प्रजापतिं एवाप्नोत्येकविंशं पुच्छं भवति प्रतिष्ठित्यै

२२.८.१ ऐन्द्र सप्तरात्रः

ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोमः सर्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः

२२.८.२ तत्फल कथनं

एतेन वा इन्द्रोऽत्यान्या देवता अभवदत्यन्या प्रजा भवति य एवं वेद

२२.८.३ आद्याहः प्रशंसा

यत्ज्योतिर्गौरायुस्त्र्यहः पुरस्ताद्भवति प्रज्ञातान्स्तोमानुपैतीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठति

२२.८.४ त्र्यहः प्रशंसा

अथाभिजिदभिजिता वै देवा इमान्लोकानभ्यजयन्विश्वजिता विश्वं अजयन्सर्वजिता सर्वं अजयन्

२२.८.५ अन्तिमाहः प्रशंसा

सर्वस्तोमातिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं एवैतेनाप्नोति सर्वं जयति

२२.९.१ जनक सप्तरात्रः

चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतं ज्योतिष्टोमोऽतिरात्रः

२२.९.२ फल प्रयोजने

एतेन वै प्रजापतिः पुरुषं असृजत स सर्वस्यान्नाद्यस्याधिपत्यं अगच्छत्

२२.९.३ वेदन प्रशंसा

सर्वस्यान्नाद्यस्याधिपत्यं गच्छति य एवं वेद

२२.९.४ स्थानीयत्य निर्णयः

शिरो वा अग्रे सम्भवतः सम्भवति चतुर्धा विहितं वै शिरः प्राणश्चक्षुः श्रोत्रं वागात्मा वै पृष्ठानि यत्पृष्ठान्युपैति शिर एवात्मानं अनुसन्दधाति

२२.९.५ महाव्रतान्नत्वं

एतद्वै पुरुषं अकस्तस्मा अन्नं एव व्रतं अपिदधाति

२२.९.६ सर्वभोगस्थानीयत्वं

अथ यत्ज्योतिष्टोमोऽतिरात्रो भवत्यक्ळ्प्तस्य क्ळ्प्त्यै

२२.१०.१ पृष्ठस्तोम सप्तरात्रः

पृष्ठयः स्तोमः षडहो विश्वजिदतिरात्रः

२२.१०.२ सत्रवतः प्रशंसा

अन्यस्मै वै कामाय सत्त्रं अन्यस्मै यज्ञो न तत्सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रं सत्त्रं इव वा एतद्यदनुलोमं पृष्ठानि यदैकधा पृष्ठानि भवत्येकधैवास्मिंस्तेजो वीर्यं दधात्यन्नं पृष्ठान्यन्नाद्यं एवास्मिन्दधाति पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठति

२२.१०.३ महाव्रत परोक्षत्वं

यद्वै मनुष्याणां प्रत्यक्षं तद्देवानां परोक्षमथ यन्म मनुष्याणां परोक्षं तद्देवानां प्रत्यक्षम्

२२.१०.४ महाव्रत परोक्षत्वं

एतद्वै परोक्षं व्रतं यद्विश्वजित्प्रत्यक्षं एवैतेनान्नाद्यं अवरुन्धे

२२.११.१ देवत्व साधनाष्टरात्रः

पृष्ठयः षडहो महाव्रतं ज्योतिष्टोमोऽतिरात्रः

२२.११.२ सप्रयोजन फलं

एतेन वै देवा देवत्वं अगच्छन्

२२.११.३ अर्थज्ञान प्रशंसा

देवत्वं गच्छति य एवं वेद

२२.११.४ अग्निष्टोम संस्थात्मकत्वं

एतद्वै व्रतं आप्तं यदष्टरात्रेऽग्निष्टोमो हि व्रतं सम्पद्यते

२२.११.५ अतिरात्र संस्थात्वं

अथ यज्ज्योतिष्टोमोऽतिरात्रो भवत्यक्ळृप्तस्य क्ळृप्त्यै

२२.११.६ सर्वाप्ति फलं

अष्टरात्रेण वै देवाः सर्वं आश्नुवत

२२.११.७ उक्तार्थज्ञ प्रशंसा

सर्वं अश्नुते य एवं वेद

२२.१२.१ देव नवरात्रः

पृष्ठयः षडहो ज्योतिर्गौरायुरतिरात्रो देवा वै मृत्योरबिभयुस्ते प्रजापतिं उपाधावंस्तेभ्य एतेन नवरात्रेणामृतत्वं प्रायच्छत्

२२.१२.२ मनुष्योचिताभृतत्वं

एतद्वाव मनुष्यस्यामृतत्वं यत्सर्वं आयुरेति वसीयान्भवति

२२.१२.३ उक्तार्थं ज्ञान प्रशंसा

सर्वं आयुरेति वसीयान्भवति य एवं वेद

२२.१२.४ प्रतिष्ठाफलं

नवरात्रो वा एष नव प्राणाः प्राणेष्वेव प्रतितिष्ठति

२२.१२.५

पृष्ठयः षडहो भवति प्रत्यक्षं ऋद्धया अथ यत्ज्योतिर्गौरायुरतिरात्रो भवति प्रतिष्ठित्यै

२२.१३.१ पशुसाधन नवरात्रः

ज्योतिष्टोमोऽग्निष्ठोमो गौरुक्थ्य आयुरुक्थ्योऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः पशुकामो यजेत

२२.१३.२ त्रिरात्र प्रशंसा

यज्ज्योतिर्गौरायुस्त्र्यहः पुरस्ताद्भवति प्रज्ञातान्स्तोमानुपैतीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठति

२२.१३.३ पञ्चाहः प्रशंसा

अथ यदभ्यासङ्ग्यः पञ्चाहो मध्यतो भवति पाङ्क्तः पुरुषः पाङ्क्ताः पशवस्तेन पुरुषं च पशूंश्चाप्नोति

२२.१३.४ अन्त्याहः प्रशंसा

विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै

२२.१४.१ त्रिकद्रुक दशरात्रः

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यस्त्रिवृदग्निष्टोमः सप्तदशोऽग्निष्टोम एकविंश उक्थ्यः सप्तदशोऽग्निष्टोमस्त्रिणवोऽग्निष्टोमस्त्रयस्त्रिंश उक्थ्यस्त्रिणवोऽग्निष्टोमो विश्वजिदतिरात्रः

२२.१४.२ अस्य प्रशंसा

इन्द्रोऽसुरान्हत्वाकार्यं चकृवां अमन्यत तं देवा एतेन स्तोमेनायाजयन्स पाप्मनो नैर्दश्यं अगच्छत्

२२.१४.३ व्यथापगमे निबन्धः

तस्मादिषुहतो वा दण्डहतो वा दशमीं नैर्दश्यं गच्छति

२२.१४.४ संख्यायोगः

दश दशिनी वा एषा विराडन्नं विराडन्नाद्यं एवास्मिन्दधाति

२२.१४.५ अग्निष्टोम त्रय कथनं

अग्निष्टोमेन वै देवा असुरान्निगृह्य मध्यत उक्थैः प्रजया पशुभिः प्राजायन्ताग्निष्टोमेनैव भ्रातृव्यं निगृह्य मध्यत उक्थ्यैः प्रजया पशुभिः प्रजायते

२२.१४.६ उक्थ्यानुष्ठानं

त्रिककुब्वा एष यज्ञः

२२.१४.७ फल कथनं

त्रिककुप्समानानां च प्रजानां च भवति य एवं वेद

२२.१५.१ कुसुरुविन्द दशरात्रः

त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदश उक्थ्यास्त्रयः सप्तदश उक्थ्या एकविंशोऽतिरात्रः कुसुरुविन्ददशरात्रः

२२.१५.२ अधिकारि विषयः

यः कामयेत बहु स्यां इति स एतेन यजेत

२२.१५.३ वहुल साधनत्वं

यद्गणशः स्तोमो बहुरेव भवति

२२.१५.४ गण स्तोमत्वं

सह त्रिवृत सह पञ्चदशाः सह सप्तदशाः

२२.१५.५ अह्न एकविंशत्वं

एकविंशोऽतिरात्रो भवति प्रतिष्ठित्यै

२२.१५.६ ज्योतिष्टोमत्वं

ज्योतिर्वा एष विहृतः

२२.१५.७ उक्तार्थज्ञ प्रशंसा

ज्योतिष्प्रजानां भवति य एवं वेद

२२.१५.८ चतुष्टोमत्वं

चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठति

२२.१५.९ चतुष्टोमत्वं

एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशः प्रत्येव तिष्ठति

२२.१५.१० सप्रयोजन फलं

एतेन वै कुसुरुविन्द औद्दालकिरिष्ट्वा भूमानं आश्नुत

२२.१५.११ उक्तार्थ प्रशंसा

भूमानं अश्नुते य एवं वेद

२२.१६.१ पशुसाधन दशरात्रः

अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमः विश्वजिदतिरात्रः पशुकामो यजेत

२२.१६.२ प्रथमाहृः स्तुतिः

यदभ्यासङ्ग्यः पञ्चाहः पुरस्ताद्भवति पाङ्क्तः पुरुषः पाङ्क्ताः पशवस्तेन पुरुषं च पशूंश्चाप्नोति

२२.१६.३ चतुरहः प्रशंसा

छन्दोमा मध्यतो भवन्ति पशवो वै छन्दोमाः पशूनां अवरुध्यै

२२.१६.४ अन्याहः प्रशंसा

विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै

२२.१७.१ देवपुर दशरात्रः

त्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो गौरुक्थ्योऽभिजिदग्निष्टोमो गौरुक्थ्यो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमस्य सर्वस्तोमोऽतिरात्रः

२२.१७.२ तस्य प्रशंसनं

देवा वा असुरैर्हन्यमानास्ते प्रजापतिं उपाधावंस्तेभ्य एतां देवपुरं प्रायच्छत्तां प्राविशन्

२२.१७.३ तस्य प्रशंसनं

अभिचार्यमाणं याजयेदेतां एव देवपुरं प्रविशत्यसृत्यै

२२.१८.१ विश्वजिदेकादश रात्रः

अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमाश्चतुष्टोमोऽग्निष्टोमो विश्वजिदतिरात्रः

२२.१८.२ स्वाराज्य फलं

स्वाराज्यो वा एष यज्ञः

२२.१८.३ वेदितुः फलं

स्वाराज्यं गच्छति य एवं वेद

२२.१८.४ स्वाराज्य पद व्याख्या

प्रजापतिर्हि स्वाराज्यं परमेष्ठी स्वाराज्यम्

२२.१८.५ तद्वेदितुः फलं

परमेष्ठितां गच्छति य एवं वेद

२२.१८.६ तद्वेदितुः फलं

उभे बृहद्रथन्तरे भवतस्तद्धि स्वाराज्यं अयुतं दक्षिणास्तद्धि स्वाराज्यं षड्विंशस्तोमो भवति स हि स्वाराज्यं चतुष्टोमस्तोमः स ह्यन्तोऽन्ते श्रिया गच्छति य एवं वेद

२२.१८.७ स्थान निर्णयः

एतेन वै क्षेम धृत्वा पौण्डरीकं इष्ट्वा सुदाम्नस्तीर उत्तरे

२२.१८.८ फल कथनं

सर्वां ऋद्धिं आर्ध्नोत्सर्वामृद्धिं ऋध्नोति य एवं वेद


  1. तु. अयं वै लोको ऽभिजिद् असौ विश्वजित्। पशवः स्वरसामानः। तद् यद् अभिजिता स्तुत्वा स्वरसामभि स्तुवते ऽस्मिन्न् एवैतल् लोके पशून् प्रतिष्ठापयन्ति। अथ यत् स्वरसामभि स्तुत्वा विश्वजिता स्तुवते तस्माद् अमुतः प्रदानात् पशवो जीवन्ति। - जै.ब्रा. २.८