बबाद-बबद । अबादीत्-अबदीत् । 'गद ५२ व्यक्तायां वाचि' । गदति ।
२२८५ । नेर्गदनपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । (८-४-१७)
उपसर्गस्थान्निमित्तात्परस्य नेर्णः स्याद्गदादिषु । प्रणिगदति । जगाद । 'रद ५३ विलेखने' । विलेखनं भेदनम् । रराद । रेदतुः। 'णद ५४ अव्यक्ते शब्दे ।
२२८६ । णो नः । (६-१.६५)
धातोरादेर्णस्य नः स्यात् । नदति ।
णोपदेशास्त्वनर्द्गाटिनाथ्नाध्नन्द्नक्कनॄनृतः ।
नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनन्द्योश्च केचिण्णोपदेशतामाहुः ।
पित्वेन कित्वाभावादेत्वाभ्यासलोपौ न । बेदिथेति ॥ अकित्वेऽपि थलिचसेटीत्येत्वाभ्यासलोपौ । बेदथुः । बेद । अथ उत्तमपुरुषणलि णलुत्तमोवेति णित्वविकल्पादुपधावृद्धिविकल्प इत्याह । बबाद बबदेति ॥ बेदिव बेदिम । अबादीत् अबदीत् इति ॥ अतो हलादेरिति वृद्धिविकल्प. । गदेति ॥ व्यक्तवाक् मनुष्यकृतशब्दप्रयोग । जगादेति ॥ चुत्वजश्त्वे । उपधावृद्धिः । वैरूरप्यापादकादेशादित्वादेत्वाभ्यासलोपौ न । जगदतु जगदुरित्यादि । नेर्गदेति ॥ रषाभ्यां नोण इत्यनुवर्तते । उपसर्गादसमासेऽपीत्यत उपसर्गादिति च । तच्च उपसर्गस्थे लाक्षणिकम् । तदाह । उपसर्गस्थादिति ॥ श्तिपा शपाच निर्देशाः यङ् लुग्निवृत्यर्थाः । प्रणिगदतीति ॥ भिन्नपदस्थत्वादप्राप्तौ वचनम् । रदेति ॥ णलि उपधावृद्धिमभिप्रेत्याह । ररादेति ॥ रेदतुरित्यादि । अरादीत् । अरदीत् । णदेति ॥ अव्यक्तशब्दः अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः । णोन इति ॥ णइति षष्ठ्यन्तम् । धात्वादेः षस्स इत्यतोऽनुवर्तनादाह । धातोरादेरिति ॥ तेन अणतीत्यादौ ननत्वम् । नस्स्यादिति ॥ नकार. स्यादित्यर्थः । नदतीति ॥ मेघादिरिति शेषः । णोन इति नत्वस्यानैमित्तकतया लिण्णिमित्तादेशादित्वाभावादेत्वाभ्यासलोपौ स्तएव । ननाद नेदतुरित्यादि । अथ नृत्नर्द्नन्द्नक्क्नाट्नाथृनाधृनृवर्जम् णोपदेशा इति भाष्य श्लोकार्धेन सङ्गृण्हाति । णोपदेशास्त्विति ॥ नर्दशब्दे । नट अवस्पन्दने चुरादि. । नाथृ नाधृ याच्ञादौ । द्वितीयचतुर्थान्तौ । टुनदि समृद्धौ । नक्क नाशने नृ नये । नृती गात्रविक्षेपे । एभ्योऽष्टभ्योऽन्ये णकारादिधातवः इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसम्पन्ननकारादितया णोपदेशाः प्रत्येतव्या इत्यर्थः । नाटीतिण्यन्तस्य प्रयोजनमाह । नाटेरिति ॥ घटादिरिति ॥ नट नृत्ताविति घटादिपठित इत्यर्थः । तत्फल घटादौ वक्ष्यते । मतान्तरमाह । तवर्गेति ॥ तवर्गचतुर्थान्तनाधधातोः नॄनन्द्योश्च णोपदेशेषु पर्युदासाभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् । ननु