सामग्री पर जाएँ

पृष्ठम्:वादनक्षत्रमाला.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ० ४ पूर्वोत्तरमीमांसा यत दुरन्द्र प्रियमेधा ऋषयो नाथमाना:' इति मन्त्रे मुमुक्षया इन्द्रमुपसन्नाः प्रतिपादिताः, ते ऋषयः, द्विपाचतुष्पात् द्वि पाश्चतुष्पादात्मकम्, सर्व प्रपञ्चम्, प्रारन् प्रकर्षेण प्रावि शन्; नियन्तृत्वरूपोऽत्र प्रकर्षे विवक्षित:; कदा, ऋतून्। ऋतुशब्देन संसारदशायां वृत्ता: मासर्तुसंवत्सरादय : सर्वे ऽप्यवच्छिन्नकाला विवक्षिता: ; * मधुश्च माधवश्च वासन्ति कावृतू' इत्यादिश्रुतिषु मासविषयोऽपि हि ऋतुशब्दप्रयो गो दृष्ट: ; तथा च सांसारिकजरापरिणत्यादिहेत्ववच्छिन्न कालभोगानन्तरं प्राविशन्नित्यर्थ: ; किम् अविशेषेण सर्व द्विपाचतुष्पादात्मक प्रपश्च नियन्तृत्वन प्रावेिशन् ? नत्यु दिवो अन्तेभ्यस्परीति, दिवः परमशिवस्थानस्य महाकैलासाख्यस्वर्गस्य, अन्तेभ्य: पर्यन्तदेशेभ्य: मध्ये वि लसन्तीं शिवराजधानीं परितः स्थितेभ्यः दिव्यगणानां मुक्तानां धामभ्यः, परि तानि वर्जयित्वा, दिव्यगणा चव मुक्ता: शिवैकनियम्या इति तद्वर्जनमात्रं विवक्षितम्; परि शिवराजधानीं परितः स्थितेषु तद्वत्यगृहेष्वपि नियन्तृत्वेन प्रवेशाभावे शिवराजधान्यां तदभाव: कैमुतिकन्यायसिद्ध तथाप