फलत्वेन च जीवानामपि सर्वशरीरकत्वरूपं सार्वात्म्यं श्र यते । एवं तर्हि जीवानामपि सर्वशरीरकत्वेन सर्वशब्दवाच्य तया शिवसाम्यं स्यात्; न च वाच्यम्--शिवयोगे सिद्धे चि च्छत्क्तौ च विकासितायां तत्कालवर्तिप्रपञ्चमात्रं जीवानां नि यम्यम्, न त्वतीतप्रपञ्चोऽपि, अत: सर्वप्रपश्चशरीरकत्वं शिवस्यैव न कस्यापि जीवस्येति, नियमनं हि योग्यतया ल क्षणेऽनुप्रविष्टम् ; तत् अतीतप्रपञ्चे शिवयोगसिद्धचिच्छक्तिवि कासरूपसहकारिविरहात् नियमनफलानुदयेऽपि अक्षतामिति अत एव संसारदशायामपि विश्वाकारपराहंभावयोग्यताम तत्र तत्र वर्णितम् ; एवमपि शिवस्येव न कस्यापि जीवस्य स्वव्यतिरिक्त सर्वप्रपञ्चशरीरकत्वं प्रसज्यते ; शिवयोगिस्क न्दनान्दिकेश्वरादिनित्यसिद्धदिव्यगणानां च केनापि जीवेन नियम्यताभावात् । तदभावश्च * वयश्चित्ते पतत्रिणो द्विपाञ्च तुष्पादर्जुनि उष: प्रारनृतू५ रनु दिवो अन्तेभ्यस्परि' इति मन्त्रेण दर्शित: । अख्य च अयमर्थ:-पतत्रिण: शोभनपत्रा वयः पतत्रिणः, चित् इत्युपमार्थे, पक्षबलयुक्ताः पक्षिण इव ऊध्र्वगमनोत्साहयुक्ताः ते ऋषयः, ये “वयः सुपर्णा उपसे
पृष्ठम्:वादनक्षत्रमाला.djvu/२१३
दिखावट