एवं पञ्चत्रिंशता श्लोकैः पुरुषायंप्रदायिकत्वदर्शनेन रहस्यतमत्वविवेचने
समाप्ते क्रमप्राप्तं 'इदं विशेषाच्छीदेव्याः स्तोत्रं प्रीतिविघायक' भित्क्तमर्थ
विवेचयति-निष्काम इति । निष्कामः विषयकामनारहितः । ब्रह्माज्ञानं जीवब्रह्म
णोरभेदमनिवर्तकं महादाक्यजन्यमात्ममात्रविषयकं निर्विकल्पाख्यं चरमवृत्तिरूपमनु
भवात्मक ज्ञानं, येन प्राप्तेन ज्ञानेन बन्धनादनादिसिद्धाहन्ताममतादिरूपवासनाजा
लान्मच्यते । अयं भाव -नामकीर्तनस्य नित्यप्रयोगारम्भे उपात्तदुरितक्षयार्थमित्यु
ल्लेखस्य स्थाने यदि श्रीत्रिपुरसुन्दरीप्रीत्यर्थमित्युल्लिख्येत तावतैव ब्रह्मज्ञानलाभ
इति । न च कामनोल्लेखे कथं निष्कामप्रयोगतेति वाच्यम् । विषयकामनोल्लेख
एव सकामत्वव्यवहारात् । अत एव शिष्टानां परमेश्वरप्रीत्यर्थमित्यूल्लिखिते कर्मणि
निष्कामत्वव्यवहारः । दुरितहरप्रयोगस्य त्वनेन प्रसङ्गात्सिद्धि । “श्रीमातुः प्रीतये
नामसहस्र यस्तु कीर्तये'दित्यनुक्त्वा 'निष्काम' इत्युक्तेरीदृशप्रयोगशील: कदापि
विषयकामप्रयोगं न वुर्यादिति इवननाय । तदुक्तं 'नित्यनैमित्तिकैरेव कुर्वाणो
दुरितक्षय 'मिति ।। २९७ ।।
धनार्थी धनयाप्नोति यशोथ प्राप्नृयाद्यशः । |
आह-धनाथोति । विद्यार्थी वेदशास्त्राद्यपरिमितविद्याकामः न तु श्राविद्याकामो ।
त:प्राप्तेः पूर्वमत्राधिकाराभावेनानधिकरिणा कृतस्यापि प्रयोगस्याकृतत्वेन निष्फल
त्वात् प्रत्युतानर्थस्मरणत्ध्च । विषयकामनासामान्याभावो हि निष्कामत्वम् । मध्ये
पयामनायाः सकृदप्युदये तु निष्कामत्वमेव व्याहन्यत । बुद्धिचाञ्चल्येनोभय.
थापि प्रयोगकरणे तु निष्कामप्रयोगोऽपि कामनायामेवोपक्षीण इति तत्तत्फलान्येवा.
प्नोति न ब्रह्मज्ञानमिति भावः । अथवा विद्याशब्दो ब्रह्मज्ञानपर एव । अम्बा
प्रोत्यर्थमितिद्ब्रह्मज्ञानप्राप्त्यर्थमित्युल्लेखेऽपि तल्लभ्यत इत्यर्थः । धनयशसोग्रहणं तु
दृष्टान्तार्थम् । यथा घनाधीं धनमाप्नोतीत्यादिरर्थ । एतेनोत्तरोत्कृष्टफलप्रयोग
प्रस्तावे सर्वोत्तरप्रयोगानन्तरं धनकामादिप्रयोगकथनमसमञ्जसमिति निरस्तम
।। २९०४ ।।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने । |
यद्यदिच्छति तत्तदाप्नोत्येव । अतः कथमेतेन सदृशमत्यत्स्तोत्रं स्यादित्यत आह--
नानेनेति । भोगप्रयोगच्च्युतस्य मोक्षं मोक्षप्रयोगाच्च्युतस्य भोगमुभयापेक्षस्योभयं
तत्राप्यादौ भोगं पश्चान्मोक्ष प्रददातीत्यर्थः । ब्रह्माण्डपुराणेऽप्यूक्तम्