सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८६९
बालमनोरमा ।

शतस्य पूरण: शततमः । एकशततमः । मासादेरत एव डट् । मासतमः । अर्धमासतमः | संवत्सरतमः ।

१८५८ । षष्ट्यादेश्चासङ्ख्यादेः । (५-२-५८)

षष्टितमः । संख्यादेस्तु विंशत्यादिभ्यः (सू १८५६) इति विकल्प एव । एकषष्टः - एकषष्टितमः ।

१८५९ । मतौ छः सूक्तसाम्नोः । (५-२-५९)

मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सूक्तम् । वारवन्तीयं साम ।

१८६० । अध्यायानुवाकयोर्लुक् । (५-२-६०)


मासात् अर्धमासात् संवत्सराशच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ननु षष्ट्यादेश्चेत्युत्तरसूत्रेण शततमः सिध्द्यतीत्यत आह । एकशततमः इति ॥ “असङ्ख्यादेः' इति पर्युदासादुत्तरसूत्रस्य नात्र प्रवृत्तिरिति भावः । ननु मासार्धमाससंवत्सरशब्दानां सङ्ख्या वाचित्वाभावात् तेभ्यो डट एवाप्रसक्तेः तस्य कथन्तमड्विधिरित्यत आह । मासादेरिति ॥ मासतम इति ॥ मासस्य पूरणः अर्धमासादिरवयवः । अर्धमासतम इति ॥ अर्धमासस्य पूरणः तिथ्यादिरवयवः । संवत्सरतम इति ॥ संवत्सरस्य पूरणः मासादिरवयवः । षष्ट्यादेश्चासङ्ख्यादेः ॥ असङ्खयापूर्वपदात् षष्ट्यादेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ‘विंशत्यादिभ्यः' इति विकल्पस्यापवादः । एकषष्टः-एकषष्टितमः इति॥ सङ्ख्यादित्वान्नित्यस्य तमटोऽभावे विंशत्यादिभ्य इति डटस्तमड्विकल्पः । तमडभावे डटि 'यस्येति च' इति इकारलोपे एकषष्ट इति रूपम् । ननु केवलात् षष्ट्यादेर्विहितस्य नित्यतमटः सङ्ख्यादेः कथं प्रसक्तिः । तमडागमविधेरप्रत्ययविधित्वेऽपि “ग्रहणवता प्रातिपदिकेन तदन्त विधिर्नास्ति’ इति निषेधादिति चेन्मैवम् । सङ्ख्यादेरिति हि इह प्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधि ज्ञापयति । तेन “विंशत्यादिभ्यः’ इति पूर्वसूत्रम् एकविंशतितमः इ यादावपि प्रवर्तते इति भाष्ये स्पष्टम् । एवञ्च एकान्नविंशतितमः इत्यपि सिद्धम् । मतौ छःसूक्तसाम्नोः ॥ मतुशब्दो मत्वर्थे लाक्षणिक इत्याह । मत्वर्थे इति ॥ अच्छावाकीयंसूक्तमिति ॥ अच्छावाकशब्दः अस्यास्ति अस्मिन्नस्तीति वा विग्रहः । अच्छावाकशब्दयुक्तमित्यर्थः । अच्छावाकशब्दात् शब्दस्वरूपपरात् प्रथमान्ताच्छः । वारवन्तीयं सामेति ॥ अश्वं नत्वा वारवन्तमित्यस्यामृच्यद्व्यूढमित्यर्थः । एवमस्य वामीयमित्यपि । अस्य वामस्येत्यस्य एकदेशानुकरणमस्य वामेति । तस्माच्छः । अस्यवामशब्दसंयुक्तमित्यर्थः । प्रकृतिवदनुकरणमित्यस्यानित्यत्वात्सुपो लुक् । अध्यायानुवाकयोर्लुक् ।। नन्वध्यायानुवाकयोरभिधेये छस्य कथं प्राप्तिः । सूक्तसाम्नोरिति नियमादित्यत आह । अत एवेति ॥ विधानेति ॥ “मतुप्प्रकरण