मत्वर्थस्य छस्य । अत एव ज्ञापकात्तत्र छ: । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः—गर्दभाण्डीयः ।
१८६१ । विमुक्तादिभ्योऽण् । (५-२-६१)
मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तशब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ।
१८६२ । गोषादिभ्यो वुन् । (५-२-६२)
मत्वर्थेऽध्यायानुवाकयोः ! गोषदकः । इषेत्वकः ।
१८६३ । तत्र कुशलः पथः । (५-२-६३)
वुन् स्यात् । पथि कुशलः पथिकः ।
१८६४ । आकर्षादिभ्यः कन् । (५-२-६४)
आकर्षे कुशलः आकर्षकः । 'आकषादिभ्यः' इति रेफरहितो मुख्यः पाठः । आकषो निकषः ।
१८६५ । धनहिरण्यात्कामे । (५-२-६५)
कामः इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ।
१८६६ । स्वाङ्गेभ्यः प्रसिते । (५-२-६६)
केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ।
एवास्मिन्पूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधानसामर्थ्यात्' इति कैयटः । ज्ञापकसिद्धः, विधानसामर्थ्यादित्यन्ये । भाष्ये तु “ अध्यायानुवाकयोर्वा लुग्वक्तव्यः” इति वचनमेवारब्धम् । गर्दभाण्डः-गर्दभाण्डीय इति ॥ गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । भाष्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वा अन्वेष्यः । विमुक्तादिभ्योऽण्॥ वैमुक्त इति ।। विमुक्तशब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । गोषदादिभ्यो वुन् ॥ गोषदक इति ॥ गोषदशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । इषेत्वक इति ॥ इषेत्वा इति शब्दयुक्त इत्यर्थः । अस्य वामीयमित्यत्रोक्तरीत्या सुपो न लुक् । तत्र कुशलः पथः ॥ वुन्स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थः । पथिक इति ॥ अकादेशे नस्तद्धिते' इति टिलोपः । आकर्षादिभ्यः कन् ॥ आकर्षक इति ।। यद्यपि वुनैवानुवृत्ते नेदं सिद्ध्यति । तथापि शकुनिक इत्याद्यर्थङ्कन्ग्रहणम् । धनहिरण्यात्कामे ॥ तत्रेत्यनुवर्तते । धनशब्दात् हिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये कन् स्यादित्यर्थः । काम इच्छेति ॥ नतु कामयिता । व्याख्यानादिति भावः । स्वाङ्गेभ्यः प्रसिते ।। तत्रेत्यनुवर्तते । स्वाङ्गेभ्यः