स्यासङ्ख्यात्वेऽप्यत एव ज्ञापकाड्ड्ट् । कतिपयथः । चतुर्थः । ‘चतुरश्छयता वाद्यक्षरस्य लोपश्च' (वा ३१५८) । तुरीयः-तुर्यः ।
१८५२ । बहुपूगगणसङ्घस्य तिथुक् । (५-२-५२)
“डटि' इत्येव । पूगसङ्घयोरसङ्ख्यात्वेऽप्यत एव डट् । बहुतिथः इत्यादि।
१८५३ । वतोरिथुक् । (५-२-५३)
डटि' इत्येव । यावतिथः ।
१८५४ । द्वेस्तीयः । (५-२-५४)
डटोऽपवादः । द्वयोः पूरण: द्वितीयः ।
१८५५ । त्रेः सम्प्रसारणं च । (५-२-५५)
तृतीयः।
१८५६ । विंशत्यादिभ्यस्तमडन्यतरस्याम् । (५-२-५६)
एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः-विंशः । एकविंशति तमः--एकविंशः ।
१८५७ । नित्यं शतादिमासार्धमाससंवत्सराच्च । (५-२-५७)
चतुर्थः इति ॥ अपदान्तत्वान्न रेफस्य विसर्गः । चतुरः इति ।। वार्तिकमिदम् । चतुर्-शब्दात् षष्ठ्यन्तात्पूरणे छयतौ स्त । आद्यक्षरस्य लोपश्चेति ॥ सङ्घातस्य लोपश्चेतेत्यर्थः । बहुपूगगण ॥ बहु, पूग, गण, सङ्घ, एषाण्डटि तिथुगागमः स्यादित्यर्थः । ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्त्यादचः परः । इत्यादीति ।। पूगतिथः, गणतिथः, सङ्घतिथः । वतोरिथुक् ॥ डटीत्येवेति ॥ वतुबन्तस्य इथुगागमः स्यात् डटीत्यर्थः । यावतिथ इति ॥ यावतां पूरण इति विग्रहः । बहुगणेति सङ्ख्यात्वात् 'तस्य पूरणे' इति डटि प्रकृतेरिथुक् । द्वेस्तीयः ॥ द्विशब्दात् षष्ठ्यन्तात् पूरणे तीयप्रत्ययः स्यादित्यर्थः । त्रेः सम्प्रसारणञ्च ॥ त्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणञ्चेत्यर्थः । तृतीयः इति ॥ त्रयाणां पूरण इति विग्रहः । तीयप्रत्यये सति रेफस्य सम्प्रसारणम् ऋकारः । 'सम्प्रसारणाच्च' इति पूर्वरूपम् । “हलः’ इति दीर्घस्तु न भवति । “ढ्रलोपे' इत्यतः अण इत्यनुवृत्तेः । विशत्यादिभ्यः ॥ तमटि टकार इत्, मकारादकार उच्चारणार्थः । अत्र ‘पङ्क्तिविंशति’ इति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ते । नतु लोकप्रसिद्धा एकविंशत्यादयोऽपि । विप्रकर्षात्” इति कैयटः । एकविंशतितमः इत्यत्र तु तदन्त विधिना तमडित्यग्रे वक्ष्यते । नित्यं शतादिमासार्धमाससंवत्सराच्च ॥ शतादिभ्यः