पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८६७
बालमनोरमा ।

१८४८ । सङ्ख्याया गुणस्य निमाने मयट् । (५-२-४७)

भागस्य मूल्ये वर्तमानात्प्रथमान्तात्सङ्ख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । 'गुणस्य' इति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । “निमाने' किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ।

१८४९ । तस्य पूरणे डट् । (५-२-४८)

एकादशानां पूरणः एकादशः ।

१८५० । नान्तादसङ्ख्यादेर्मट् । (५-२-४९)

डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । “नान्तात्' किम् । विंशः । ’असङ्ख्यादेः' किम् । एकादशः ।

{१८५१ । षट्कतिकतिपयचतुरां थुक् । (५-२-५१)

एषां थुगागमः स्याड्डुटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्द-


शतमित्यादि सिद्धम् । सङ्ख्याया गुणस्य ॥ तदस्येत्यनुवर्तते । गुणः भागः अंशः निमीयते विक्रीयतेऽनेनेति निमानं मूल्यद्रव्यम् । 'मेङ् प्राणिदाने' करणे ल्युट् । तदाह । भागस्य मूल्य इत्यादि । षष्ठ्यर्थे इति ।। अस्येत्यर्थे इत्यर्थः । यवानान्द्वौ भागौ निमानमस्योदश्विद्भागस्येति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदश्वित्प्रस्थे विक्रीयते यत्र तत्रेदं वाक्यम्प्रयुज्यते । द्विमयमुदश्विद्यवानामित्युदाहरणम् । यवानामिति सम्बन्धसामान्ये षष्ठी । यवप्रस्थद्वयेन विक्रेतव्यमुदश्विदित्यर्थः । द्विशब्दस्य भागवृत्तेर्नित्यसापेक्षत्वाद्यवानामित्येतत्सापेक्षत्वेऽपि प्रत्ययः । द्वौव्रीहियवौनिमानमस्योदश्वित इति ॥ द्वित्वसङ्ख्याविशिष्टौ व्रीहियवराशीयौ तौ अस्य उदश्वितो निमानामित्यर्थः । तत्र उदश्विद्यावत् तदपेक्षया व्रीहियवराश्योर्द्विगुणत्वन्न विवक्षितम् । किन्तु राशिद्वित्वमेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाभावान्न प्रत्ययः । तस्य पूरणेडट् । सङ्ख्याया इत्यनुवर्तते । सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठ्यन्तात्प्रत्ययनिर्मितसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः अवयवः सः प्रत्ययार्थः । एकादशःइति ॥ एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन् अनुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते सा पूर्यते सोऽवयवः एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चानाङ्घटानां पूरणं जलादि । नान्तादसङ्ख्यादेर्मट् ॥ डटो मडागमः स्यादिति।। शेषपूरणमिदम् । डटि टकार इत् । अकार उच्चारणार्थः । पञ्चम इति ॥ पञ्चन्शब्दात् डटि तस्य मडागमे सति नलोपः । “यद्यपि मटः प्रत्ययत्वेऽपि न रूपभेदः । तथापि स्वरविशेषार्थम्मडागमाश्रयणम्” इति भाष्ये स्पष्टम् । षट्कति ॥ थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्त्यादचः परः । षष्ठ इति ॥ अपदान्तत्वात् षस्य न जश्त्वम् ।