द्वयम्-द्वितयम् । त्रयम्-त्रितयम् ।
१८४५ । उभादुदात्तो नित्यम् । (५-२-४४)
उभशब्दात्तयप आदेशोऽयच् स्यात्, स चोदात्तः । उभयम् । इति पाञ्चमिकाः । अथ तद्धिते मत्वर्थीयप्रकरणम् ।
१८४६ । तदस्मिन्नधिकमिति दशान्ताड्डः । (५-२-४५)
एकादश अधिकाः अस्मिन्नेकादशम्। ‘शतसहस्रयोरेवेष्यते'(वा ३१४१) । नेह । एकादश अधिकाः अस्यां विंशतौ । ‘प्रकृतिप्रत्ययार्थयोः समानजातीयत्व मेवेष्यते' (चा ३१४०) । नेह । एकादश माषाः अधिकाः अस्मिन्सुवर्णशते ।
१८४७ । शदन्तविंशतेश्च । (५-२-४६)
डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ।
पञ्चावयवकः समुदाय इत्यर्थः । द्वित्रिभ्याम् ॥ द्वित्रिभ्याम्परस्य तयपः अयज्वा स्यादित्यर्थः द्वयमिति ॥ द्विशब्दात्तयपः अयचि 'यस्येति च' इति इकारलोपः । द्व्यवयवकसमुदाय इत्यर्थः । एवं त्रयम् । उभादुदात्तो नित्यम् ॥ स चोदात्त इति ॥ आद्युदात्त इत्यर्थः । “अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेः” इति भाष्ये स्पष्टम् । “अत्र अयच् प्रत्यय एव विधीयते, नतु तयप आदेशः” इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । तयप आदेश इति मूलन्तु वार्तिकानुरोधेन ॥
इति पाञ्चमिकाः ।
अथ मत्वर्थीयाः--तदस्मिन्नधिकम् ॥ तदधिकमस्मिन् इति विग्रहे प्रथमान्तात् दशन्शब्दान्तात् समासात् अस्मिन्नित्यर्थे डप्रत्ययः स्यादित्यर्थः । प्रत्ययविधौ तदन्तविधि प्रतिषेधादन्तग्रहणम् । अत एव निर्देशात् पञ्चम्यर्थे सप्तमीत्याहुः । “ औपश्लेषिकेऽधिकरणे सप्तमी” इति भाष्यम् । “सामीपिकमधिकरणम्” इति कैयटः । एकादशमाषाःअधिकाःअस्मिन्निति ॥ अस्मादित्यर्थः । अस्मिन् उपश्लिष्टा इति वा । नच व्यपदशिवत्त्वेन केवलदशन् शब्दादपि स्यादिति शङ्क्यम् । ‘व्यपदेशिवद्भावोऽप्रातिपदिकेन' इत्युक्तः । शदन्तविंशतेश्च ॥ शेषपूरणेन सूत्रं व्याचष्टे । डः स्यादुक्तेऽर्थे इति ॥ दशान्तत्वाभावात्पूर्वेण प्राप्तिः । त्रिंशंशतमिति ॥ डे सति “टेः' इति टिलोपः । विंशमिति ॥ विंशतिः अस्मिन्नधिकमिति विग्रहः । “ति विंशतः' इति तिशब्दस्य लोपः । अन्तग्रहणादेकत्रिंशं शतमिति सिद्धम् । अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् । ‘विंशतावप्यन्तप्रहणम्’ इति वार्तिकात् एकविंशं