सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४६
[नञ्स्नञधिकार
सिद्धान्तकौमुदीसहिता

अथ तद्वितनञ्स्नञधिकारप्रकरणम् ।

१७७८ । तेन तुल्यं क्रिया चेद्वतिः । (५-१-११५)

ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । “क्रिया चेत्' इति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ।

१७७९ । तत्र तस्येव । (५-१-११६)

मधुरायामिव मधुरावत्स्रुघ्ने प्राकारः । चैत्रस्येव चैत्रवन्मैत्रस्य भावः ।

१७८० । । तदर्हम् । (५-१-११७)

विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्या अनुवर्तते । तेनेह न । राजानमर्हति छत्रम् ।

१७८१ । तस्य भावस्त्वतलौ । (५-१-११९)


अथ नञ्स्नञधिकारो निरूप्यते--तेन तुल्यं क्रिया चेद्वतिः ॥ तुल्यमिति क्रियेत्यस्य विशेषणम् । सामान्याभिप्रायन्नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात् । यत्तुल्यं सा चेत् क्रियेत्यर्थः । तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत् । ब्राह्मणेन तुल्यं ब्राह्मणवदधीते इति ।। अत्र ब्राह्मणवदित्युदाहरणम् । ब्राह्मणेन तुल्यमधीते इति विग्रहवाक्यम् । अत्र ब्राह्मणशब्देन ब्राह्मणकर्तृकाध्ययनं लक्ष्यते । ब्राह्मणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः । गुणतुल्ये इति ।। द्रव्यतुल्येऽपीति बोध्यम् । तेन चैत्रेण तुल्यो धनी देवदत्तः इत्यादौ न भवति । “ अयमेवं न तद्वत्' इत्यादौ वतेस्साधुत्वार्थम् आहेति क्रियापदं प्रयुञ्जते वृद्धाः । तत्र तस्येव ।। तत्रेवेति तस्येवेति चार्थे सप्तम्यन्तात् षष्ठ्यन्ताच्च वतिः स्यादित्यर्थः । अत्र तृतीयान्तार्थ आरम्भः । अस्मादेव निर्देशादिवशब्दयोगे षष्ठ्यर्थे सप्तम्यपीति भाष्यम् । अत्र क्रिया चेति नानुवर्तते इत्यभिप्रेत्योदाहरति । मधुरायामिव मधुरावत्स्रुघ्ने प्राकार इति ॥ अत्र मधुरायामिवेति नाधिकरणसप्तमी । तथासति विद्यमानेति क्रियापदसापेक्षतया असामर्थ्यात् । अत एव अस्मादेव सूत्रनिर्देशादिवशब्दयोगे षष्ठ्यर्थे सप्तमीभाष्यं सङ्गच्छते । मधुरासम्बन्धिप्राकारनिर्देशः स्रुघ्नस्य प्राकार इति बोधः । मैत्रस्य भाव इति ॥ वृत्तमित्यर्थः । तदर्हम् ॥ अर्हतीत्यर्हम् । पचाद्यच् । तदिति कर्मणि द्वितीयान्तम् । लब्धुं योग्यं भवतीत्यर्थात् कृद्योगलक्षणषष्ठ्यभावस्त्वार्षः । वतिरित्यनुवर्तते । द्वितीयान्तादर्हतीत्यर्थे वतिः स्यादित्यर्थः । विधिमर्हतीति ॥ विधिं लब्धुं योग्यं भवतीत्यर्थः । विधिवत्पूज्यते इति ॥ हरिरिति शेषः । विधिं लब्धुं योग्यं हरिपूजन मित्यर्थः । विहितं प्रकारमनतिक्रान्तमिति यावत् । मण्डूकप्लुत्येति ।। पूर्वसूत्रे अननुवृत्ते रिति भावः । तस्य भावः ॥ षष्ठ्यन्ताद्भाव इत्यर्थे त्वतलौ स्त इत्यर्थः । भावशब्दस्य