द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्नि ष्टोमिकी । वाजपेयिकी ।
१७६० । तत्र च दीयते कार्यं भववत् । (५-१-९६)
प्रावृषि दीयते कार्यं वा प्रावृषेण्यम् । शारदम्। इति तद्धिते प्राग्वतीये ठञधिकारे कालात् इत्यधिकारस्सम्पूर्णः ।
अथ ठञ्विधिप्रकरणम् ।
१७६१ । व्युष्टादिभ्योऽण् । (५-१-९७)
व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट तीर्थ सङ्ग्राम प्रवास इत्यादि । [’अग्निपदादिभ्य उपसङ्ख्यानम्' (वा ३०७२) । अग्निपदे दीयते कार्यं वा आग्निपदम् । पैलुमूलम् ।]
ठञ् स्यादित्यर्थः । द्वादशाहस्येति ॥ द्वादशदिनसाध्यसुत्याकः क्रतुर्द्वादशाहः । तस्येत्यर्थः । कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः । “कालात्' इत्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमिति “तदस्य परिमाणम्’ इति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ् न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाभावादित्यत आह । आख्याग्रहणादवकालादपीति ॥ अन्यथा यज्ञेभ्य इत्येव सिद्धे आख्याग्रहणवैयर्थ्यादिति भावः । वस्तुतस्तु यज्ञेभ्यः इत्येवोक्तौ कालादि त्यधिकारात् द्वादशाहादिशब्देभ्य एव स्यात्, नतु अग्निष्टोमादिशब्देभ्यः । आख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम् । तत्र च दीयते ॥ तत्र दीयते तत्र कार्यमित्यर्थयोः सप्तम्यन्तात्कालवाचिनः भववत्प्रत्ययाः स्युरित्यर्थः । प्रावृषेण्यमिति ॥ 'प्रावृष एण्यः’ इति भवार्थे विहितः इहापि भवति । शारदमिति ॥ शरदि दीयते कार्यं वेत्यर्थः । सन्धिवेलाद्यण् । भवे विहित इहापि भवति । इदं वृत्त्यनुरोधेन । वस्तुतस्तु तत्र कार्यन्दीयत इत्यर्थे यज्ञाख्येभ्यः भववत्प्रत्ययाः स्युरित्यर्थः । अमिष्टोमे दीयते भक्तम् आग्निष्टोमिकम् । कार्यग्रहणादग्निष्टामे दीयते हिरण्यमित्यत्र न भवति । “नह्यग्निष्टोमे हिरण्यङ्क्रियते” इति भाष्ये स्पष्टम् ।
इति तद्धिते प्राग्वतीये ठञधिकारे कालात् इत्यधिकारस्सम्पूर्णः ।
अथ ठञ्विधिर्निरूप्यते--व्युष्टादिभ्योऽण् ॥ तत्र च दीयते कार्यमित्यनुवर्तते । दीयते कार्ये वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्यः अण् स्यात् । ठञोऽपवादः । व्युष्टं प्रभातम् ।