[ भाष्यम् ]
तस्या एकबुद्ध्युपक्रमो ह्यर्थात्मा अणुप्रचयविशेषात्मा गवादिर्घ- टादिर्वा लोकः । स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्मः
[ विवरणम् ]
गवादिर्घटादिर्वा विषयः न तु बोध एव गवाद्याकारो विषयः । अणुप्रचयविशेषात्मा अणूनां तन्मात्रावयवानां प्रचयविशेष आत्मा यस्य स गवादिर्धटादिर्वा आलम्बनं बुद्धेः स च विषयः संस्थानविशेषः तथा संस्थितानि हि तानि भूतसूक्ष्माणि ॥
{{gap}एतदुक्तं भवाति-भूतसूक्ष्माणां साधारणो धर्म इति आत्मभूतो न व्यतिरिक्तः । यथा सर्पस्य आभोगकुण्डलनादि ॥
येषां पुनरत्यन्तव्यतिरिक्तमन्यदेव कारणात् कार्यं, तेषां कारणतन्त्रत्वं कार्यस्य न प्राप्नोति । अंशुतन्त्रो हि तन्तुः तन्तुतन्त्रश्व पट: । न चात्यन्ता- न्यत्वेऽन्यतन्त्रत्वं दृष्टमन्यस्य । यथा मृत्पिण्डतन्त्रता न पटस्य, तन्तूनां वा ॥
किञ्च---तद्विनाशानुविनाशित्वं च न शक्यं, न हि कपालविनाशमनु विनश्यति पट:||
अथोच्येत, सम्बन्धः कारणमिति । पटस्य हि तन्तवस्तन्तूनाञ्चांशव इति सम्बन्धस्तत्र हेतुः कारणं तत्तन्त्रत्वतदनुविनाशयोरिति ॥
अत्रोच्यते-चैत्रक्षेत्रादिसम्बन्धेऽपि प्रसङ्गः स्यात् । चैत्रस्यापि क्षेत्रादि- तन्त्रता तदनुविनाशित्वं च सम्बन्धविशेषात् प्रसज्येत ॥
अथापि स्यात्-समवायलक्षणः सम्बन्धः. कारणमिति---न - तस्यापि संबन्धत्वाविशेषादहेतुत्वं, यथान्यसंबन्धः- संबन्धिनोरन्यतरतन्त्रत्वाद्यहेतुः । एवं समवायलक्षणस्यापि संबन्धवादन्यतरतन्त्रत्वादावहेतुत्वम् ॥
अपि च-न द्रव्यव्यतिरेकेण कर्मसामान्यविशेषसमवायाः सन्ति । द्रव्यतन्त्रत्वाद्युपपत्तेरेव । तत्रापि सम्बन्धस्याप्यहेतुत्वमेव |
किञ्चान्यत्-संबन्धस्य च संबन्धिनोरेवान्यतरतन्त्रत्वादिहेतुत्वे समवा- यस्यापि समवायान्तरं तस्याप्यन्य इत्यनवस्था प्रसज्येत । यथा गुणादीनां समवायलक्षणात् संबन्धात् द्रव्यतन्त्रत्वं, तथा समवायस्यापि द्रव्यव्यतिरिक्तत्वे द्रव्यतन्त्रत्वार्थं समवायान्तरं कल्प्येत, तस्याप्यन्यत्तस्याप्यन्यदित्यनवस्था स्यात् ॥ 14.