पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/152

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
पातञ्जलयोगसूत्रभाष्यविवरणे

[सूत्रम्]

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

[ भाष्यम् ]

 या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्मस्वरूपो- परक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति । सा तदा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् ।

[ विवरणम् ]

 न च (ननु) श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्, श्रुतानुमानज्ञाना- भ्यामसमानविषयमित्येतत् । विशेषविषयं हि तद्दर्शनं, सामान्यविषये श्रुतानुमान- ज्ञाने । तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कजं दर्शनमिति (तन्निर्वितर्कायाः तदिति तस्मादिति) समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते-- स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासान्निर्वितर्का ॥

 शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ शब्दसङ्केतविकल्पः श्रुतज्ञानविकल्पः अनुमानज्ञानविकल्पश्च, स एव स्मृतिः । स्मरणेन ह्यन्यस्यान्यधर्मोऽध्यारोप्यते । न हि वस्तु स्वरूपेण वस्त्वन्तरेऽध्यारोपयितुं शकयम् ।  ननु च कथं श्रुतानुमिते प्रत्यक्षेऽध्यारोप्येते । ननु च प्रसिद्धोऽध्यारोपः, तथा चेदं मया श्रुतमिदं मयाऽनुमितमिदमिति च पश्यति ।

 ननु तदेव तत् दृश्यमानमपि यदनुमितं श्रुतं च-न-सामान्य- विशेषभेदात् । सामान्यं श्रुतमनुमितं च । विशषस्तु प्रत्यक्षस्य विषयः । तस्मिंश्च तत्सामान्याध्यासः प्रसिद्ध एव ॥

{{gap}ग्राह्योपरक्ता योगिनः प्रज्ञा स्वं प्रज्ञारूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वभावा ग्राह्मस्वरूपापन्नेव भवति । इवशब्देन ग्रहणात्मकतां न जहातीति । न हि स्फटिक उपाध्याश्रयतायां स्वां स्वच्छरूपतां हास्यति । किञ्च-ग्रहणव्यतिरिक्तं च ग्राह्यं वस्त्वन्तरमस्तीति चोक्तं भवति ॥

 सा निर्वितर्का समापत्तिः। तथा च व्याख्यातम्। तस्या ह्येकबुद्ध्युप क्रमोऽर्थात्मा । उपक्रम्यते एकया बुद्ध्या यः स एकबुद्ध्युपक्रमः एकबुद्धि- परिच्छेद्य इति । अर्थात्मा बोध्यात्मेत्येतत् ॥