[ भाष्यम् ]
तत्र प्रथमः चतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थेः तद्विकलोऽस्मितामात्र इति । सवै एते सालम्बनाः समाधयः ॥ १७ ॥
अथासम्प्रज्ञातः समाधिः किमुपायः ? किंस्वभावो वा ? इति
[ सूत्रम् ]
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥
[ विवरणम् ]
यः पुनः क्लेशः स विपर्ययविशिष्ट एव । यथा---अहं गच्छामि कृशोऽहमिति । योगिचित्तस्य तन्न्यग्भूते रजस्तमसी इति न तथा ॥
तत्र पूर्व: पूर्व: स्वकीयोत्तरोत्तरधर्मानुगतः । परः परस्तु पूर्वपूर्वधर्मविकलः । यस्माच्चैतद्धर्मचतुष्टयानुगत एवायं सम्प्रज्ञातः समाधिस्तस्मादेतल्लक्षण इति लक्षणार्थं सूत्रम् । लोकेऽपि यो यदसाधारणधर्मानुयातः स तल्लक्षणः, यथा सास्नादिलक्षणो गौरिति ॥
अस्मितामात्रग्रहणान्निरालम्बनतामेषां समाधीनां मा कश्चिदाशङ्किष्टेत्याह-सर्वएते सालम्बना इति । यः पुनर्मन्यते निर्विकल्पत्वमस्मितेति--तदसत् । अस्मिताशब्दस्याहङ्कारे प्रसिद्धत्वात् । तथा चाह--अस्मिभावोऽस्मिता !! १७ ॥
अथ असम्प्रज्ञातः 'योगश्चित्तवृत्तिनिरोध इत्युपपादितलक्षणः किमुपायः किंसाधनः केनोपायेनोपेत्य इत्यर्थः । किंस्वभावः किंस्वरूपः किमवस्थ इति स्वभावविशिष्टसाधनसंबन्धप्रदर्शनार्थमाह-विरामप्रत्ययाभ्यास पूर्वः संस्कारशेषोऽन्यः ॥
विरामप्रत्ययाभ्यासपूर्व इत्येतावता साधनसम्बन्धमाचष्टे । संस्कारशेष इति तु स्वभावव्याख्यानम् । अन्य इति अनन्तरोक्तलक्षणात् सम्प्रज्ञातान्योऽयं निर्बीजः असम्प्रज्ञातः ।
अन्य इत्युभाभ्यां संबध्यते --विरामप्रत्ययाभ्यासपूर्वेश्व संस्कारशेषश्च । कोऽसावुभयविशिष्ट इत्याह-अन्य इति ॥