पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/99

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
समाधिपादः प्रथमः

[ भाष्यम् ]

 सर्ववृतिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशून्य:। तदभ्यासपूर्वकं हि चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसंप्रज्ञातः ॥ १८ ॥

[ विवरणम् ]

 विरमणं विरामः । विरामश्वासैी प्रत्ययश्व विरामप्रत्यय: । विरामरूपत्वात्स एव प्रत्ययो विराम इत्युच्यते । सर्वविषयेभ्यो विनेिवर्तमानस्य विनिवर्तनकाले प्रागप्रत्ययापत्तेः प्रल्ययरूपत्वम् । एतद्यथा-पावकस्य ज्वलतः प्रक्षीयमाणेन्धनस्य शनैश्शनैरुपशाम्यतः प्रागङ्गारतापत्तेर्ज्वलात्मकता ॥

 तस्माद्विरामरूपः प्रत्ययो विरामप्रत्ययः तस्य अभ्यासः पूर्वो मुखं यस्य सः विरामप्रत्ययाभ्यासपूर्वः ! संस्कार एव शेषो यस्य स संस्कारशेषः । । प्रत्ययोपरमे तु प्रत्ययसंस्कार एवावशिष्यते । विषयप्रत्ययेभ्य उपरतं चित्तं संस्कारशेषमेवेत्यर्थः । तस्य परं वैराग्यमुपायः तस्य समाधेः परमुत्तरम्।।

 ननु च परं वैराग्यं चेति वक्तव्यम्, अभ्यासवैराग्याभ्यां वृत्तिनिरोधस्याभिप्रेतत्वात् ।नैष दोषः । विरामप्रत्ययाभ्यासस्य सूत्रोपात्तत्वादनाशङ्कयस्तदभ्यासः ।वैराग्यं पुनरनुपात्तत्वादाशङ्कयेत । तस्मात्तदेव प्रापयता न चा [चः] पठितः ।

 यद्येवं कस्मान्न सूत्र एव वैराग्यग्रहणं कृतम् ? पूर्वत्र पठितत्वात् । तत्र किमर्थं पठितमिति चेत्--वैराग्यप्रसङ्गात् । पूर्ववैराग्यविशेष एवोत्तरं वैराग्यमिति प्रसङ्गादुत्तरम् [दुक्तम्] । पूर्वस्य च वैराग्यस्य सम्प्रज्ञातविषये(ऽपि)विनियोगादवशिष्टत्य परस्य साधनसत्वादन्यविषयत्वाच्च निर्बीजेनैव सम्बन्ध इति नृ सूत्रे वैराग्यग्रहणं कृतम् । सामर्थ्यप्राप्तं तु भाष्यकारो दर्शेयति॥

 “अभ्यासवैराग्याभ्यां तन्निरोध' दृति हि प्रतिपादितम् । सालम्बनो ह्याभ्यासो विरुद्धत्वान्निरालम्बनस्य समाधेः साधनत्वाय न कल्पत इति निर्वस्तुकोऽपि विरामप्रत्ययो निरालम्बनसमाध्यनुरूपत्वादालम्बनीक्रियते । तस्मात्तद्भ्यासवैराग्योपायपूर्वकं चित्तं निरालम्बनम्भावप्राप्तमिव भवति। स एष निर्बीजः संस्कारशेषस्वभावः समाधिरसम्प्रज्ञात इति ॥ १८ ॥