१३१६ । कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । (४-२-९६)
कौलेयकः श्वा---कौलोऽन्यः । कौक्षेयकोऽसि:-कौक्षोऽन्यः । ग्रैवेय कोऽलङ्कारः-ग्रैवोऽन्यः ।
१३१७ । नद्यादिभ्यो ढक् । (४-२-९७)
नादेयम् । माहेयम् । वाराणसेयम् ।
१३१८ । दक्षिणापश्चात्पुरसस्त्यक् । (४-२-९८)
'दक्षिणा' इत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ।
१३१९ । कापिश्या ष्फक् । (४-२-९९)
कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ।
१३२० । रङ्कोरमनुष्येऽण्च । (४-२-१००)
चात्ष्फक् । राङ्कवो गौः राङ्कवायणः । ‘अमनुष्ये' इति किम् । राङ्कवको मनुष्यः ।
१३२१ । द्युप्रागपागुदक्प्रतीचो यत् । (४-२-१०१)
दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ।
लभ्यते इत्यर्थः । कुलकुक्षि ॥ कुलाच्छुनि, कुक्षेः असौ, ग्रीवायाः अलङ्कारे, ढकञित्यर्थः । कौलेयकः श्वेति ॥ कुले जातादिरिति विग्रहः । कौक्षेयकोऽसिरिति ॥ कुक्षौ कोशे भवः खङ्ग इत्यर्थः । ग्रैवेयक इति ॥ ग्रीवासु भव इति विग्रहः । नद्यादिभ्यो ढक् ॥ माहेयमिति ॥ मही भूमिः, तस्याञ्जातादीत्यर्थः । वाराणसेयमिति ॥ वाराणस्याञ्जातादीत्यर्थः । दक्षिणापश्चात् ॥ आजन्तमव्ययमिति ॥ अव्ययसाहचर्यादाजन्तमति भावः । दक्षिणा, पश्चात्, पुरस्, एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः । कापिश्या ष्फक् ॥ कापिश्याः ष्फक् इति छेदः । कापिशीशब्दात् ष्फक् स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । षित्वात् डीषु । रङ्कोरमनुष्येऽण् च । रङ्कोरण् स्यात् चात् ष्फक् । राङ्कवो गौरिति । रङ्कर्नाम देशविशेषः । तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वान्न ष्फगणौ । किन्तु 'मनुष्यतत्स्थयोः' इति वक्ष्यमाणो वुञ् । अकादेशः । राङ्कवो मनुष्यः इति त्वपपाठः । द्युप्रागपाक् ॥ दिव्, प्राञ्च्, अपाञ्च्, उदञ्च्, प्रत्यञ्च्, एभ्यो यत्स्यादित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः । दिव्यमिति ॥ दिवि जातादीत्यर्थः । प्राच्यमिति ॥ प्राचि प्रदेशे जातादीत्यर्थः । तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थिते 'अनिदिताम्