सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७३७
बालमनोरमा ।

हरीतक्यः । 'खलतिकादिषु वचनम्' (वा ७१६) । खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि । 'मनुष्यलुपि प्रतिषेधः' (वा ७१७) । मनुष्यलक्षणे लुबर्थे विशेषणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ।

१३०१ । वरणादिभ्यश्च । (४-२-८२)

अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणा ।

१३०२ । शर्कराया वा । (४-२-८३)

अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ।

१३०३ । ठक्छौ च । (४-२-८४)

शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् । तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा-शार्करम्-शार्करिकम्-शर्करीयम्-शर्करिकम्-शार्करकम् ।


लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः । खलातिकादिषु वचनम् ॥ वार्तिकमिदम् । एषु लुपि प्रकृतिवद्ववचनमेव भवति, नतु लिङ्गमित्यर्थः । खलतिकं वनानीति ॥ 'वरणादिभ्यश्च' इति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुल्लिङ्गत्वान्न भवति । किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति ॥ वार्तिकमिदम् । मनुष्यलक्षणे इति ॥ मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः । चञ्चा अभिरूप इति । चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यः चञ्चा । “इवे प्रतिकृतौ' इत्यधिकारे 'संज्ञायाम्' इति कनः 'लुम्मनुष्ये' इति लुप् । अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वम् । नतु तद्विशेषणस्य अभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् ॥ अथ प्रकृतमारभते-वरणादिभ्यश्च ॥ 'जनपदे लुप्' इत्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप् स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह । अजनपदार्थ आरम्भ इति ॥ वरणानामिति ॥ वरणा नाम नदी काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायम्पूजार्थं वा बहुवचनम् । वरणानामदूरभवन्नगरं वरणाः । अत्र लुप्तप्रत्ययान्तस्य वरणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्गं बहुवचनञ्च । शर्कराया वा ॥ लुबित्यनुवर्तते । प्रत्यासत्या चातुरर्थिकस्येति लभ्यते । तदाह । अस्मादिति ॥ ठक्छौ च ॥ शर्कराया इत्यनुवर्तते । तदाह । शर्कराया एतौ स्त इति ॥ ठच्ककाविति ॥ कुमुदादिभ्यः ठच्, वराहादित्वात् कक्, इति विवेकः । वाग्रहणेति ॥ अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयर्थ्यादिति भावः । शर्करेति । अणो लुपि युक्तवद्भावे रूपम् । शार्करमिति ॥ अणि रूपम् । शार्करिकमिति ॥