७२१ । संज्ञायाम् । (२-१-४४)
सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकशेरुकाः । 'हलदन्तात्सप्तम्याः –’ (सू ९६६) इत्यलुक् ।
७२२ । क्तेनाहोरात्रावयवाः । (२-१-४५)
अह्नो रात्रश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूवाह्नकृतम् अपररात्रकृतम् । ' अवयव' ग्रहणं किम् । अह्नि दृष्टम् ।
७२३ । तत्र । (२-१-४६)
तत्र' इत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्रभुक्तम् ।
७२४ । क्षेपे । (२-१-४७)
सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । “ अवतप्तेनकुलस्थितं ते एतत्' ।
७२५ । पात्रेसमितादयश्च । (२-१-४८)
मासे इति ॥ सामीप्याधिकरणत्व सप्तमी । मासाव्यवहितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः । ऋणपदस्यावश्यकोपलक्षणतायाः प्रयोजनमाह । पूर्वाह्नेगेयं सामेति ॥ ‘तत्पुरुषे कृति’ इत्य लुक्। यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम्। तेनेह न । पूर्वाह्ने दातव्या भिक्षेति । संज्ञा याम् ॥ सप्तमीत्यनुवर्तते । तदाह । सप्तम्यन्तं सुपा प्राग्वत् संज्ञायामिति ॥ अरण्ये तिलका इति वनेकशेरुका इति च संज्ञाशब्दौ । “हलदन्तात् सप्तम्याः' इत्यलुक् । क्तेनाहो रात्रावयवाः ॥ अहोरात्रयोः अवयवाः इति विग्रहः । सप्तमीत्यनुवर्तते। क्तेनेति तदन्तग्रहणम् । तदाह । अह्नो रात्रेश्चावयवा इति ॥ अहरवयवस्योदाहरति । पूर्वाह्नकृतमिति ॥ रात्रयवयवस्योदाहरति । अपररात्रकृतमिति ॥ तत्र ॥ तत्रेति शब्दस्वरूपप्रहणम् । सप्तमीति क्तेनेति चानुवर्तते । तदाह । तत्रेत्येतत् सप्तम्यन्तं क्तेन सह प्राग्वदिति ॥ तत्रभुक्तमिति ॥ समासस्वरः प्रयोजनम् । तत्रभुक्तस्येदं तात्रभुक्तम् इति च । क्षेपे । सप्तमीति क्तेनेति चानुवर्तते । तदाह । सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायामिति । अवततेनकुलस्थितन्त एतदिति ॥ स्थितमिति भावे त्क्तः । नकुलेन स्थितम् । 'कर्तृः करणे कृता बहुळम्' इति समासः । “कृद्रहणे गतिकारकपूर्वेस्यापि ग्रहणम्’ इति परिभाषया नकुलस्थितशब्दोऽपि क्तान्तः । तेन सहावतप्ते इति सप्तम्यन्तस्य अनेन समासे कृते “तत्पुरुषे कृति' इत्यलुक् । हे देवदत्त, ते, तव, एतत्, अवस्थानम्, अवतप्ते नकुलस्थितमित्यन्वयः । यथा अवतप्तप्रदेशे नकुलाः न चिरन्तिष्ठन्ति तथा कार्यण्युपक्रम्य तान्यनिर्वर्य इतस्ततो धावन मित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया । पात्रे समितादयश्च ॥ निपात्यन्त इति ॥