सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०८
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमय एव सङ्गता न तु कायें । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमा: पात्रेसमिताः।

७२६ । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । (२-१-४९)

' विशेषणं विशेष्येण–’ (सू ७३६) इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम्। एकशब्दस्य *दिक्सङ्खये संज्ञायाम्' (सू ७२७) इति नियंमंबाधनार्थश्च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरत्रैयायिका: । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ।


कृतसमासादिकार्या एत शब्दा निर्दिश्यन्त इत्यर्थः । पात्रेसमिता इति ॥ 'इण्, गतौ' सम्पूर्वात् “गत्यर्थाकर्मक’ इति कर्तरि क्तः । निपातनात् सप्तम्या अलुक् । भोजनपात्रे निहिते सति सङ्गता इत्यर्थः । फलितमाह । भोजनेति । गेहेशूर इति । गेहे एव प्रकटितयशा नतु युद्ध इत्यर्थः । गेहेनर्दीति ॥ 'नर्द शब्दे ’ “सुप्यजातौ' इति णिनिः । समासे सति निपातनादलुक् । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । चकारोऽवधारणार्थ इति ॥ ततश्च एते गणे पठितास्तथैव भवन्तीत्यर्थ । ततः किमित्यत आह । तेनेति । ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति । पूर्वकालैक ॥ सुबिल्यनुवृत्तं बहुवचनेन विपरिणम्यते । सुपेति चानुवर्तते । पूर्वः काला यस्य सः पूर्वकालः । पूर्व कालवृत्तिरित्यर्थः । ततश्च पूर्वकालेत्यनेन पूर्वकालार्थकशब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथाच पूर्वकालादयस्सप्त सुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते स तत्पुरुष इत्यर्थः । समानम् एकम् अधिकरणं वाच्यं यस्येति विग्रहः । एकार्थवृत्तित्वंसामानाधि करण्यमिति फलितम् । पूर्वनिपातेति ॥ पश्चादनुलिप्तः पूर्व स्नातत्वेन, पूर्वे स्नातो वा पश्चाद् नुलिप्तत्वेन विशेष्टुं शक्यते । अतो विशेषणं विशेष्येण समासे सति अन्यतरस्य पूर्वनिपाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेकादीनामपीत्यर्थः । एकशब्दविषये प्रयोजनान्तरमप्याह । एकशब्दस्येति ॥ * दिक्सङ्खये संज्ञायां समस्येते' इति नियमस्य वक्ष्यमाणतया एकनाथ इत्यत्र विशेषणसमासस्य बाधे प्राप्ते तत्प्रतिप्रसवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चाच्छब्दाभावेऽपि स्नानानुलेपनयोः पौर्वापर्य समासगम्यमेव । पूर्वकालः समस्यते इत्युक्तेन परकाले नेत्यर्थात्प्रतीतेः । एकनाथ इति ॥ एकश्चासौ नाथश्चति विग्रहः । यज्ञमधीयते विदन्ति वा याज्ञिकाः । 'क्रतूक्थादिसूत्रान्ताट्ठक् सर्वे च ते याज्ञिकाश्चेति विग्रहः । जरन्नैयायिका इति ॥ जरन्तश्च ते नैयायिकाश्चेति विग्रहः । न्यायमधीयते विदन्ति वा नैयायिकाः । पूर्ववत् ठक् । ‘न य्वाभ्याम्' इत्यैजागमो वृद्धिनिषेधश्च । ‘जीर्यतेरतृन्' इति भूते अतृन् । जीर्णनैयायिका इत्यर्थः । पुराणमीमांसकाः