६८२ । झयः । (५-४-१११)
झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम्-उपसमित् ।
६८३ । गिरेश्च सेनकस्य । (५-४-११२)
गिर्यन्ताद्व्ययीभावाट्टज्वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् उपगिरि ।।
इत्यव्ययीऊर्ध्वंभावसमासप्रकरणम् ।
एवम् उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम् । अग्रे हायनमस्याः आग्रहायणी मार्गशीर्षपौर्णमासी, अत मकररायनप्रवृत्त्या उदगयन्नप्रवृत्तेः । उदगयनादिरेव हि संवत्सरस्यादिः । “ अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः” इति सिद्धेः । झयः ॥ झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । अन्यतरस्यामिति टजिति चानुवर्तते । तदाह । झयन्तादिति ॥ गिरेश्च सेनकस्य । सेनको नाम आचार्यः । पूजार्थमिति ॥ अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धरिति भावः । उपगिरमिति ॥ गिरेस्समीपमित्यर्थः । टचि “यस्यति च' इति इकारलोपः अम्भावः । इह सेनकग्रहणात् 'नदी पौर्णमासी' इत्यत्र
- झयः' इत्यत्र चान्यतरस्याङ्ग्रहणन्नानुवर्तते इति केचित् ॥
श्रीमद्वासुदेवदीक्षिताविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायाम् अव्ययीभावसमासप्रकरणम् ।