'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ।।' [इति भाष्यम् ।]
हेतौ तृतीयात्र प्राप्ता । सीमा अण्डकोशः। पुष्कलको गन्धमृगः । “योगविशेषे किम् । वेतनेन धान्यं लुनाति ।
६३४ । यस्य च भावेन भावलक्षणम् । (२-३-३७)
यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु टुह्यमा नासु गतः । “ अर्हणां कर्तृत्वेऽनहणामकर्तृत्वे तद्वैपरीत्ये च' (वा १४८७ १४८८) । सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरान्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ।
संयोगस्तमवायात्मक इति ॥ अयुतसिद्धयोस्सम्बन्धस्समवायः । अन्ययोस्तु संयोगः । चर्मणीति ॥ चर्मार्थ व्याघ्र हन्तीत्यर्थः । अत्र द्वीपिना कर्मणा चर्मणः समवाय एव । अवयवावयविनोरयुतासिद्धत्वात् । दन्तयोरिति । दन्तार्थमित्यर्थः । अत्र कुञ्जरेण कर्मणा दन्तयोस्समवाय एव । केशेष्विति ॥ केशार्थमित्यर्थः । चमरी मृगविशेषः । सीम्नीति ॥ सीमार्थमित्यर्थः । हेतुतृतीया प्रातेति ॥ तादर्थ्यचतुर्थ्यपीति बोध्द्यम् । सीमा अण्डवकोशः इति ॥ “सामा घट्टस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम्” इति मेदिनी । पुष्कलको गन्धमृगः इति ॥ “अथ पुष्कलको गन्धमृगे क्षेपणकीलयोः” इति मेदिनी । अत्रापि पुष्कलकेन कर्मणा सीम्नस्समवाय एव । हरदत्तस्तु सीमा ग्रामादिमर्यादा । तस्या ज्ञानार्थ पुष्कलकश्शङ्कर्हतः निखात इति व्याचष्ट । अत्र पुष्कलकेन कर्मणा सीम्नस्संयोगो बोध्यः । वेतनेनेति । अत्र वेतनं भृतिद्रव्यम्, तदर्थमित्यर्थः । अत्र वेतनस्य लूयमानस्य धान्यस्य च तादर्थ्यमेव सम्बन्धः, नतु संयोगः, नापि समवायः, इति भावः । यस्य च ॥ भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे । यस्य क्रिययेति ॥ क्रिया च कर्त्राश्रया कर्माश्रया च । तत्र कर्माश्रयमुदाहरति । गोष्विति ॥ देवदत्तः कदा गत इति प्रश्रे उत्तरमिदम् । अत्र लक्षकत्वसम्बन्धे सप्तमी । शेषषष्ठयपवादः । वर्तमानदोहनविशिष्टाभिर्गोभिज्ञप्यगमनवानि त्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्षकता । गवान्तु तदाश्रयतया । ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । दुग्धासु गत इत्यत्र तु अतीतदोहनविशिष्टाभिः गोभिर्ज्ञाप्यमानगमनवा नित्यर्थः । गोदोहोत्तरकाले गत इति फलितम्। कर्तृगतक्रियायास्तु ब्राह्मणेष्वधीयानेषु गत इत्युदा हार्यम् । अत्र यदवश्यं .पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किन्तु सकृत् ज्ञापकमपि । यथा । यं कमण्डलुपाणिं भवानद्राक्षीत् स च्छात्र इति । यद्यपि सकृदसा कमण्डलुपाणिर्दष्टः । तथापि तस्य कमण्डलुर्लक्षणं भवल्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम् । 'उदिते आदित्ये जुहोति इत्यत्र तु सामीपिकमाधकरणत्वं सप्तम्यर्थः उदितादित्यसमीपकाल इत्यर्थः । आदित्योदयो त्तरसमीपकाल इति पर्यवसन्नोऽर्थः । “उपरागे स्रायात्' इत्यत्र तु उपरागपदेन उपरागाश्रय