सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४४५
बालमनोरमा ।

अथ षष्ठी विभक्तिः

६०६ । षष्ठी शेषे । (२-३-५०)

कारकप्रातिपदिकार्थव्यतिरिक्त: स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्टयेव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शम्भोश्चरणयोः । फलानां तृप्तः ।


अथ षष्ठी विभक्तिः । षष्ठी शेषे ॥ उक्तादन्यश्शेषः । 'कर्मणि द्वितीया' इत्यादि सूत्रेषु द्वितीयादिविधिषु हेि कर्मकर्तृकरणसम्प्रदानापादानाधिकरणकारकाण्यनुक्रान्तानि । प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः । एतेभ्यः अन्यः स्वस्वामिभावादिसम्बन्धः शेषपदार्थ इत्यर्थः । तत्रासति बाधके सम्बन्धो विशेषरूपेण सामान्यरूपेण च भासते । न हि 'निर्विशेषं सामान्यम्' इति न्यायात् । सति तु बाधके मातुः स्मरतीत्यादौ सम्बन्धत्वेनैव भानम् । कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थितिः । राज्ञः पुरुष इत्यत्र स्वस्वामिभाव रूपविशेषात्मना सम्बन्धत्वरूपसामान्यात्मना च सम्बन्धष्षष्ठ्यर्थः । राजाश्रितस्वामित्वनिरूपित स्वत्वात्मकसम्बन्धाश्रयः पुरुष इति बोधः । आश्रयत्वादि तु संसर्गमर्यादया भासते । तत्र पुरुषो मुख्यं विशेष्यम् । सम्बन्धस्त्वाधेयतया पुरुषविशेषणम् । राजा तु आश्रयतया सम्बन्धविशे षणम् । सम्बन्धस्त्वाधेयतया राजानं प्रति विशेष्यम् । 'प्रधानप्रत्ययार्थवचनम्’ इति वचनेन प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यावगमात् । अत एव पुरुषशब्दादपि न षष्ठी । राजनिरूपित सम्बन्धाश्रयःपुरुष इति बोधे सम्बन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन भानानुपपत्तेः। यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्वरूपसम्बन्धाश्रयो राजेति बोधः, तदा पुरुषस्य राजेति पुरुष शब्दात् षष्ठी भवत्येवेत्यन्यत्र विस्तरः। सतां गतमित्यादौकर्तृतृतीयादिकमाशङ्कय आह्। कर्मादी नामपीति । कर्मत्वकर्तृत्वादीनामपि सम्बन्धत्वसामान्यात्मना विवक्षायां षष्ठयेव, नतु कारक विभक्तय इत्यर्थः । तथाच ‘क्तस्य च वर्तमाने' इति सूत्रे भाष्यम्। ‘कर्मत्वादीनामविवक्षा शेषः’ इति । सतां गतमिति । भावे त्क्तः । सत्सम्बन्धिगमनमित्यर्थः । कर्तृत्वविवक्षायान्तु सद्भिर्गत मिति तृतीया भवत्येव । कृद्योगंलक्षणा षष्ठी तु न भवति । “न लोक' इति निषेधात् सर्पिषो जानीते इति ॥ करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः । करणत्वस्य सम्बन्धत्वविवक्षायान्तु षष्ठी । कर्त्राश्रिता सर्पिस्सम्बन्धिनी प्रवृत्तिरिति बोधः । मातुः स्मर तीति ॥ कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायान्तु देवदत्तकर्तृक मातृसम्बन्धि स्मरणमित्यर्थः । एधोदकस्योपस्कुरुते इति ॥ एधशब्दः अकारान्त पुल्लिंङ्गः 'कारके' इति सूत्रे “एधाः पक्ष्यन्ते” इति भाष्यप्रयोगात् । एधाश्च उदकानि चेति द्वन्द्वातू षष्ठी । 'जातिरप्राणिनाम्' इत्येकवद्भावः । कर्मत्वविवक्षायां एधोदकं शोषणगन्धद्रव्या धानादिना परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायान्तु एधोदकसम्बन्धि परिष्करणामिति