६०४ । करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य । (२-३-३३)
एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हृतः ।
६०५ । दूरान्तिकार्थेभ्यो द्वितीया च । (२-३-३५)
एभ्यो द्वितीया स्याचात्पञ्चमीतृतीये च । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरम्-दूरात्-दूरेण वा, अन्तिकम्-अन्तिकात्-अन्तिकेन वा ।
- असत्त्ववचनस्य' इत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥
इति पञ्चमी विभक्तिः ।
विना रामेण, रामात्, रामम् । नाना रामेण, रामात्, रामम्, वा । पृथग्विनानानास्रयोऽपि भेदार्थका इति केचित् । “पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने” इत्यमरः । रामस्य वर्जने सुखं नास्तीत्यर्थः । करणे च । एभ्य इति ॥ स्तोक अल्प कृच्छ्र कतिपय एभ्यश्चतुर्भ्यः इत्यर्थः । असत्त्वपदं व्याचष्टे । अद्रव्येति ॥ अन्यतरस्यामित्यनुवर्तते, पञ्चमीति च । ततश्च करणे पञ्चमी वेति लभ्यते । तदभावे तु तृतीया सिद्वैव । तदाह । तृतीयापञ्चम्याविति ॥ स्तोकेन स्तोकाद्वा मुक्तः इति । लघुना अनायासेन मुक्त इत्यर्थः । आयासो न द्रव्यमिति भावः । द्रव्ये त्विति ॥ द्रव्ये वृत्तौ स्तोकेन विषेण हत इति तृतीयैवेत्यर्थः । अल्पेनाल्पाद्वा मुक्तः, कृच्छ्रण कृच्छ्राद्वा मुक्तः । कष्टनेत्यर्थः । कतिपयेन कतिपयाद्वा मुक्तः । अकृत्स्त्रेन साधनेनेत्यर्थः । दूरान्तिक ॥ एभ्य इति ॥ दूरार्थकेभ्यः अन्तिकार्थकेभ्यश्चेत्यर्थः । चकारः व्यवहितयोरपि पञ्चमीतृतीययोस्समुच्चयार्थः, नतु दूरान्तिकार्थैष्षष्ठयन्यतरस्याम्' इति सन्नि हितषष्ठया अपि । व्याख्यानात् । तदाह । चात्पञ्चमीतृतीये चेति ॥ प्रातिपदिकार्थ मात्रे विधिरयमिति ॥ व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् । दूरादावसथान्मूत्रन्दूरात्पादावनेजनम्’ इति भाष्यप्रयोगात् सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः । ननु दूरः पञ्थाः इत्यत्र कथं न पञ्चमीत्यत आह । असत्त्ववचनस्येति ॥ दूरः पन्था इत्यत्र पन्थाः द्रव्यम् । तद्विशेषणं दूरशब्दस्सत्ववचन इति भावः ।
इति पञ्चमी विभक्तिः ।