सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
[कारके पञ्चमी
सिद्धान्तकौमुदीसहिता

५९९ । प्रतिः प्रतिनिधिप्रतिदानयोः । (१-४-९२)

एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ।

६०० । प्रतिनिधिप्रतिदाने च यस्मात् । (२-३-११)

अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ।

६०१ । अकर्तर्येृणे पञ्चमी । (२-३-२४)

कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् । शताद्वद्धः । अकर्तरि किम् । शतेन बन्धितः ।


इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति ॥ कर्मप्रवचनीया इत्यतस्तदनुवृत्तेरिति भावः । अप हरेः, परिहरेः, संसारः इति । अपहरेस्संसारः परिहरेस्संसार इत्यन्वयः । हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननु ‘वृक्षं प्रति विद्योतते, भक्तो हरिं प्रति’ इत्यादौ ‘लक्षणे त्थम्भूत' इति कर्मप्रवचनीयत्वात् 'कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीयां परत्वात् अपवा दत्वाच्च बाधित्वा 'पञ्चम्यपाङ्परिभिः' इति पञ्चमी स्यादित्यत आह । परिरत्रेति । “पञ्चम्यपाङ्यरपरिभिः' इत्यत्र वर्जनार्थकेनापेन साहचर्यात् परिरपि वर्जनार्थक एव गृह्यते इत्यर्थः । आ मुक्तेरिति ॥ मुक्तेः प्रागिति यावत् । आ सकलादिति ॥ ब्रह्म सकलमभिव्याप्य वर्तत इत्यर्थः । प्रतिः प्रतिनिधि ॥ सदृशः प्रतिनिधिः, दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । उक्तसंज्ञः इति ॥ कर्मप्रवचनीयसंज्ञक इत्यर्थः । प्रतिनिधि ॥ अत्रेति ॥ सूत्रेोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ठ्यर्थे पञ्चमी अस्मादेव निर्देशात् । 'कृष्णस्य प्रतिनिधिः' इति तु 'ज्ञापकसिद्धन्न सर्वत्र' इति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने. तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमीत्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति ॥ युद्धादौ प्रद्युम्नः कृष्ण निरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थस्सादृश्यम् । प्रतिस्तु तद्दयोतकः । तिलेभ्यः इति ॥ ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः । कर्मणि पञ्चमी । अकर्तयृणे ॥ “हेतौ' इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह । कर्तृवर्जितमिति ॥ कर्तृसंज्ञारहितमित्यर्थः । शताद्वद्धः इति ॥ नियमित काले प्रत्यर्पणाभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधमर्णो बद्ध इत्यर्थः । हेतुतृतीयाप वादः । शतेन बन्धितः इति ॥ अधमर्णः उत्तमर्णेनेति शेषः । बन्धहँतुमण्यन्तात्कर्मणि त्क्तः । अधमर्णः उत्तमर्णेन बद्ध इत्यण्यन्तस्यार्थः । शतेन ऋणेन प्रयोजककर्त्रा उत्तमर्णेन प्रयोज्यकर्त्रा बन्धनं कारितः अधमर्ण इति ण्यन्तस्यार्थः । अत्र शतमृणं प्रयोजकत्वात् कर्तृ संज्ञं हेतुसंज्ञञ्च । “तत्प्रयोजको हेतुश्च' इत्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वा अपवादत्वात् “पञ्चमी स्यात्' अतः अकर्तरीत्युक्तामिति