सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४०५
बालमनोरमा ।

वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गाञ्छतं दण्डयतेि । ब्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमपचिनोति


अकथितम्' इत्यनेनैव सिद्धत्वात् पूर्वसूत्रद्वयस्य वैयर्थ्यमाशङ्कय ईप्सितमात्रस्याप्यनेन कर्म संज्ञायां * वारणार्थानाम्' इत्यस्यानवकाशतया अग्नेर्र्माणवकं वारयतीत्यत्र माणवकस्यापादान संज्ञायां प्राप्तायां “कर्तुरीप्सिततमं कर्म' इत्यारब्धव्यम् । ततश्च द्वेष्यापेक्ष्यसङ्गह्वाय ' तथा युक्तञ्चानीप्सितम्' इत्यारब्धव्यमिति समाहितम् । एतेन कर्मसंज्ञा सर्वा सिद्धा भवति । अक थितेन तत्रेप्सितस्य किं स्यात् प्रयोजनं कर्मसंज्ञायाः । यत्त्वकथितं पुरस्तादीप्सितयुक्तञ्च तस्य सिध्द्यर्थम् । ईप्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेनेति श्लोकद्वयेनेति शब्देन्दु शेखरे स्थितम् । एतेन कर्मेत्यादिभाष्यार्थस्तु कैयटे भाष्यप्रदीपोद्दयोते च स्पष्ट इत्यास्ता न्तावत् । बलिं याचते वसुधामिति ॥ हरिरिति शेषः । बलिर्नामासुरविशेषः । मह्य न्देहीति प्रार्थना याचेरर्थः । दानानुकूलो मह्यन्देहीति शब्दप्रयोगरूपव्यापार इति यावत् । बलिकर्तृकं वसुधाकर्मकं दानं प्रार्थयते इत्यर्थः । कर्तुः कर्मत्वविवक्षायां द्वितीयेति नव्याः । प्रार्थनारूपव्यापारजन्यदाने जनकतया आश्रयत्वात् । बलेिसम्बन्धि यद्वसुधाकर्मकं दानं तत् प्रार्थयत इत्यर्थ इति तु प्राचीनाः । अविनीतं विनयं याचते इति ॥ अभ्युपगमप्रार्थना याचेरर्थः । यदा कश्चिद्वलवान् अविनीतः दुर्बलं कञ्चिद्वाधते तदा दुर्बलमधिकृत्येदं वाक्यं प्रवृत्तम् । अविनीतकर्तृकं विनयकर्मकमभ्युपगमं प्रार्थयत इत्यर्थः । कर्तुः कर्मत्वविवक्षायां द्वितीयेति नवीनाः। अविनीतसम्बन्धिकमिति तु प्राचीनाः । तण्डुलानोदनं पचतीति ॥ विक्लित्यनुकूलव्यापार पचेरर्थः । तप्तोदकप्रस्वेदनजनितप्रशिथिलावयवकत्वात्मकं मृदुविशदत्वं विक्लितिः । तया ओदना ख्यद्रव्यान्तरं प्रकृतिभूतेषु तण्डुलेषु समवेतं निष्पद्यते इति स्थितिः। तत्र शिथिलावयवसंयोगविशेषा त्मिका विक्लित्त्तिस्समवायसम्बन्धेन तण्डुलेषु वर्तते । ओदने तु जन्यजनकभावेन वर्तते । तण्डुलै प्रकृतिभूतैः ओदनं करोतीत्यर्थः । तण्डुलसमवायिकारणिकान्तत्समवेतौदनजनिकां विक्लित्तिं निर्वर्तयतीत्यर्थः । तत्र व्यापारफलं विक्लित्ति प्रति जन्यतया आश्रयत्वात् ओदनः प्रधानं कर्म । तादृशौदनजनिकां विक्लित्तिं प्रति समवायित्वेनाधारत्वात् तण्डुलानां गुणकर्मत्वमिति तद्विवक्षायां द्वितीया । तण्डुलसम्बन्धिनीमोदनजनिकां विक्लित्तं निर्वर्तयतीति तु प्राचीनाः । गर्गान् शतं दण्डयतीति ॥ दण्डधातुः ग्रहणानुकूलव्यापारार्थकः । ताडनादिना गर्गेभ्यस्सुवर्णशतं गृह्णाती त्यर्थः । ताडनादिव्यापारप्रयोज्यग्रहणविषयत्वात् शतं प्रधानकर्म । गर्गाणान्तु तद्ग्रहणावधि कत्वात् गुणकर्मत्वम् । ग्रहणं हि परकीयद्रव्यस्य परस्वत्वनिवृत्तिपूर्वकं स्वीकरणम् । तत्र स्वत्वविश्लेषे गर्गाणामवधित्वात् अपादानत्वम् । ग्रहणघटकतादृशविश्लेषप्रतियोगिभूतस्वत्वा श्रयत्वात् कर्मत्वश्च । तत्रापादानत्यमनादृत्य कर्मत्वविवक्षायां द्वितीया गर्गसम्बन्धिकमिति तु प्राञ्चः । व्रजमवरुणद्धि गामिति ॥ निर्गमप्रतिबन्धपूर्वकयत्किञ्चिदधिकरणकचिरस्थि त्यनुकूलबन्धनद्वारपिधानादिव्यापारो रुधेरर्थः । गान्निर्गमप्रतिबन्धपूर्वकं व्रजे विरस्थितिकां करोतीत्यर्थः । अत्र चिरास्थितिं प्रति व्रजस्याधिकरणत्वमुपेक्ष्य गोद्वारा तत्स्थित्याश्रयतया कर्म त्वविवक्षायां द्वितीया । व्रजसम्बन्धिनं गोकर्मकं विरस्थित्यनुकूलव्यापारं करोतीत्यर्थ इति ।