सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'विभक्तिप्रकरणम्]
४०१'
बालमनोरमा ।

५३६ । अनभिहिते । (२-६-१)

इत्यधिकृत्य ।

५३७ । कर्मणि द्वितीया । (२-३-२)

अनुक्त्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्रे' इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ् , हरिः सेव्यते । कृत्, लक्ष्म्या सेवितः । तद्धित, शतेन क्रीतः शत्यः ।


नापि केवलौदनेन । तथापि यदा भुक्तवानेव पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम् । तत्र यद्यपि पय एव उद्देश्यं भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रणसाधनतया गुणत्वेनैव तदुद्देश्यं, नतु भोज्यत्वेन । अतस्तत्र पयसो गुणत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम्, नतु पयसोऽपि । तस्याप्योदन एव ईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः । ननु तमब्ग्रहणं किमर्थम् । “कर्तुरीप्सितं कर्म' इत्येवास्त्विति वाच्यम् । “ अन्नेर्माणवकं वारयति ? इत्यत्र माणवकस्य “वारणार्थानामी प्सितः' इत्यपादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद्वारणार्थानामिति सूत्र व्याख्यावसरे स्फुटीभविष्यति । प्राचीनैस्तु कैश्चित् तमब्ग्रहणं किम्, “पयसा ओदनं भुङ्क्ते इति ग्रन्थः केवलतमब्ग्रहणप्रयोजनपरतया व्याख्यातः । ते भाष्यविरुद्धत्वादुपेक्ष्याः । ननु अधिशीङ्स्थासां कर्म' इत्यतोऽनुवृत्तेरिह कर्मग्रहणं व्यर्थमित्यत आह । कर्मग्रहणमाधा रेति ॥ अधिशीडित्यत्र हि आधारः इत्यनुवर्तते । इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमि त्यर्थः । ननु हरिं भजतीत्यादावसम्भवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह । अन्यथा गेहं प्रविशतीत्यत्रैव स्यादिति ॥ हरिं भजतीत्यादौ न स्यादित्येवकारार्थः । अनभिहिते ॥ इत्यधिकृत्येति । द्वितीयादि वक्ष्यते इत्यर्थः । कर्मणि द्वितीया ॥ 'अनभिहिते' इत्यनु वृत्तं व्याचष्टे । अनुत्ते इति । हरिं भजतीति ॥ तुष्टयनुकूलपरिचरणात्मकव्यापारः भजे रर्थः, पूजादिव्यापारेण हरिं तोषयतीत्यर्थः । कर्तृनिष्ठपूजनादिव्यापारप्रयोज्यतुष्टिरूपफलाश्रयत्वा द्धरिः कर्म । हरिनिष्ठतुष्टयनुकूलः एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः । “भावप्रधान माख्यातम्' इति निरुक्तकारयास्कवचनात् क्रियाप्रधानन्तिङन्तमिति तदर्थः । एवञ्च हरिनिष्ठ तुष्टयनुकूलव्यापाराश्रयो देवदत्त . इति प्रथमान्तविशेष्यकबोधस्तार्किकसम्मतो नात्र्तव्य इति मञ्जूषादौ प्रपश्चितम् । अभिहिते त्विति ॥ हरिस्सेव्यते इत्यादाविति शेषः । प्रथमै वेति ॥ तद्विधावनभिहिताधिकाराभावात् “ अभिहिते प्रथमा' इति वार्तिकाच्चेति भावः । अत्र भाष्ये कटं करोति भीष्ममुदारं दर्शनीयं शोभनमित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वात् भीष्मादिभ्यो द्वितीया न प्राप्तोतीत्याशङ्कय “तिङ्कृत्तद्धितसमासैरभि धानम्’ इति परिगणितम् । तत्र प्रायेणेत्यध्द्याहृत्य आह । अभिधानञ्चेति ॥ समासैरित्यनन्तरं विवक्षितमिति शेषः । तिङिति ॥ आविभक्तिकनिर्देशोऽयं तिङभिधानप्रदर्शनाय । हरेिः सेव्यते इति ॥ 'लः कर्मणि' इति कर्मणि लकारः । ‘भावकर्मणोः' इत्यात्मनेपदम् ।