स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि * आतः स्थाने' इत्यनुवृत्तं स्वशब्द स्यातो विशेषणम्। नतु द्वैषयोरसम्भवात् नाप्यन्येषामव्यभिचारात् । स्व । तु । शब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्ज
त्पुनरौङि, त्यदाद्यत्वे, पररूपे, टापि औडश्शीभावे, आद्गुणे, अद्वके इति भवति । अत्रापि समासात्पूर्वोत्पन्नादौडस्सुपः पर एव टाबिति भावः । एवं परमद्वके इत्यत्रापि । स्यादेतत् । आत्मात्मीयज्ञातिधनवाची स्वशब्दः । तत्र ज्ञातावात्मनि च पुलिङ्ग एव । आत्मीये तु विशेष्यनिन्घस्त्रिलिङ्गः । धने तु पुन्नपुंसकलिङ्गः । “स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने” इति कोशात् । यदा तु स्त्रीव्यक्तिविशेषस्य स्वशब्दस्संज्ञा तदापि स्त्रीलिङ्गः । तत्र “स्वमज्ञातिधनाख्यायाम्' इत्युक्तेः ज्ञातिधनवाचित्वे सर्वनामत्वन्नास्ति । आत्मात्मी यवाचिन एव सर्वनामता, साप्यनुपसर्जनस्यैव भवति । “संज्ञोपसर्जनीभूतास्तु न सर्वादय इत्युक्तेरिति स्थितिः । तत्रात्मीयायां वाच्यायां सर्वनामत्वात् अकचि, टापि, 'प्रत्ययस्थात् इति नित्यमित्वे, स्विकेत्येवेष्यते । तत्तु न युज्यते । “भस्त्रैषा' इत्यादिना इत्त्वविकल्पस्य दुर्वारत्वात् । नचात्र अकजकारस्य आतःस्थानिकत्वाभावान्नायमित्वविकल्प इति वाच्यम् । एषामत इद्वा स्यादिति विवरणवाक्ये आत :स्थानिकस्येत्यनुवृत्तेरित्यत आह । स्वशब्दग्रहणं संज्ञोपसर्जनार्थमिति ॥ स्वशब्दस्य संज्ञाभूतस्य सर्वनामत्वाभावादकजभावे, स्त्रियां टापि, सौ कृते, स्वार्थिककप्रत्यये, उक्तरीत्या “अन्तरङ्गानपि विधीन् बाहिरङ्गो लुक् बाधते इति परिभाषया हल्डयादिलोपं बाधित्वा प्रातिपदिकावयवत्वात् सोर्लुकि, “केऽणः' इति ह्रस्वे, कप्रत्ययान्तात् पुनष्टापि, स्वकाशब्दः । निर्गता स्वस्या इति विग्रहे 'निरादयः क्रान्ता द्यर्थे पञ्चम्या' इति समासे सुब्लुकि, “गोस्त्रियोः' इति हृस्वे, टापि, सुपि, स्वार्थिके कप्रत्यये केऽणः’ इति ह्रस्वे, पुनष्ठापि, निस्स्वकाशब्दः । एतद्वयमेव “भस्त्रैषा' इति स्वशब्दस्य उदा हरणम् । आत्मीयायान्तु स्वशब्दो न संज्ञाभूतः, नाप्युपसर्जनीभूत इति नोदाहरणमित्यर्थः । कुत इत्यत आह । इह हीति ॥ इह 'भस्त्रैषा' इति सूत्रे 'उदीचाम्' इति पूर्वसूत्रात् आत:स्थाने इत्यनुवृत्तम्, तच्च स्वशब्दस्यैव अतो विशेषणम् । एवञ्च स्वशब्दस्य आत स्थानिकस्य अत इद्वा स्यादिति लभ्यते । एतद्विशेषविवक्षयैव एषामत इद्वा स्यादिति विव रणवाक्ये आतःस्थाने इत्यस्यानुवृत्तिर्न प्रदर्शितेति भावः । नतु द्वैषयोरिति ॥ द्वा एषा इत्येतयोस्तु विषये आतःस्थान इति न सम्बध्द्यत इत्यर्थः । कुत इत्यत आह । असम्भवा दिति ॥ एषा द्वेति सर्वाद्यन्तर्गणत्यदादित्वप्रयुक्तसत्वात्वनिर्देशेन सर्वनामत्वावश्यकत्वादकच्च् । तदकारस्य आत:स्थानिकत्वस्याप्रसक्त्तेरित्यर्थः । नाप्यन्येषामिति ॥ भस्राजाज्ञाशब्दानामपि आतःस्थान इति विशेषणे नेत्यर्थः । कुत इत्यत आह । अव्यभिचारादिति ॥ भस्राजा ज्ञाशब्दानां सर्वनामत्वाभावनाकजनर्हतया कप्रत्ययान्ततया तेषु “केऽणः’ इति हूस्वसम्पन्नस्य अतः आत:स्थानिकत्वनियमेन तद्विशेषणवैयर्थ्यादित्यर्थः । ननु आत:स्थाने इत्यनुवृत्तम्, स्वशब्दस्य अतो विशेषणमस्तु, तावता आत्मीयायां स्विका इत्यत्र इत्तत्त्वविकल्पशङ्कायाः किमायातमित्यत आह । स्वशब्दस्त्विति ॥ अनुपसर्जनात्मीयवाची स्वशब्दस्तु सर्वनामत्वादकजर्हः ।