पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४८
ब्राह्मण्युवाच-
माथुरे विषये रम्ये मथुरायां नृपोत्तमः ।
उग्रसेनेति विख्यातो यादवः परवीरहा १।
सर्वधर्मार्थतत्त्वज्ञो वेदज्ञः श्रुतवान्बली ।
दाता भोक्ता गुणग्राही सद्गुणान्वेत्ति भूपतिः २।
राज्यं चकार मेधावी प्रजा धर्मेण पालयेत् ।
एवं स च महातेजा उग्रसेनः प्रतापवान् ३।
वैदर्भे विषये पुण्ये सत्यकेतुः प्रतापवान् ।
तस्य कन्या महाभागा पद्माक्षी कमलानना ४।
नाम्ना पद्मावती नाम सत्यधर्मपरायणा ।
सा तु स्त्रीणां गुणैर्युक्ता द्वितीयेव समुद्रजा ५।
वैदर्भी शुशुभे राजन्स्वगुणैः सत्यकारणैः ।
माथुर उग्रसेनस्तु उपयेमे सुलोचनाम् ६।
तया सह महाभाग सुखं रेमे प्रतापवान् ।
अतिप्रीतो गुणैस्तस्यास्तया सह सुखीभवेत् ७।
तस्याः स्नेहेन प्रीत्या च संमुग्धो माथुरेश्वरः ।
पद्मावती महाभागा तस्य प्राणप्रियाभवत् ८।
तया विना न बुभुजे तया सह प्रक्रीडयेत् ।
तया विना न सेवेत परमं सुखमेव सः ९।
एवं प्रीतिकरौ जातौ परस्परमनुत्तमौ ।
स्नेहवंतौ द्विजश्रेष्ठ सुखसंप्रीतिदायकौ १०।
सत्यकेतुश्च राजेंद्रः सस्मार स पद्मावतीम् ।
स्वसुतां तां महाभागो माता तस्याः सुदुःखिता ११।
स दूतान्प्रेषयामास वैदर्भो मथुरां प्रति ।
उग्रसेनं नृवीरेंद्रं सादरेण द्विजोत्तम १२।
उग्रसेनं महाराजं स दूतो वाक्यमब्रवीत् ।
विदर्भाधिपतिर्वीरो भक्त्या स्नेहेन नंदयन् १३।
आत्मनः कुशलं ब्रूते भवतां परिपृच्छति ।
सत्यकेतुर्महाराज त्वामेवं परिपृष्टवान् १४।
दर्शनाय प्रेषयस्व सुतां पद्मावतीं मम ।
यदि त्वं मन्यसे नाथ प्रीतिस्नेहं हितस्य च १५।
प्रेषयस्व महाभागां प्रियां प्रीतिकरां तव ।
औत्कण्ठ्येन महाराज स सोत्कंठेन वर्तते १६।
समाकर्ण्य ततो वाक्यमुग्रसेनो नृपोत्तमः ।
प्रीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः १७।
दाक्षिण्येन च विप्रेंद्र प्रेषयामास भूपतिः ।
पद्मावतीं प्रियां भार्यामुग्रसेनः प्रतापवान् १८।
प्रेषितानेन राजेंद्र गता पद्मावती स्वकम् ।
पूर्वं गृहं सती सा तु महाहर्षेण संकुला १९।
पितृपूर्वं कुटुंबं तु ददृशे चारुमंगला ।
पितुः पादौ ननामाथ शिरसा सत्यतत्परा २०।
आगतायां महाराजा पद्मावत्यां द्विजोत्तम ।
हर्षेण महताविष्टो विदर्भाधिपतिर्नृपः २१।
वर्द्धिता दानमानैश्च वस्त्रालंकारभूषणैः ।
पद्मावती सुखेनापि पितुर्गेहे प्रवर्तते २२।
सखीभिः सहिता सा तु निःशंका परिवर्तते ।
रमते सा तदा तत्र यथापूर्वं तथैव च २३।
गृहे वने तडागेषु प्रासादे च तथैव सा ।
पुनर्बालेव भूता सा निर्लज्जा संप्रवर्तते २४।
निःशंका वर्तते विप्र सखीभिः सह सर्वदा ।
पतिव्रता महाभागा हर्षेण महतान्विता २५।
सुखं तु पितृगेहस्य दुर्लभं श्वशुरे गृहे ।
एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति २६।
अनेन मोहभावेन क्रीडालुब्धा वरानना ।
सखीभिः सहिता नित्यं वनेषूपवने तदा २७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेऽष्टचत्वारिंशोऽध्यायः ४८।