एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः । चतुर्णामुपाङ्गानामधुनोच्यते--
तत्र सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुराणानि । तानि च ब्राह्मं पाद्मं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयमाग्नेयं भविष्यं ब्रह्मवैवर्तं लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश । 'आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः । द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च ॥ चतुर्थं शिवधर्माख्यं दौर्वासं पञ्चमं विदुः ।
षष्ठं तु नारदीयाख्यं कापिलं सप्तमं विदुः ॥ अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम् । ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् ॥ तत: कालीपुराणाख्यं वासिष्ठं मुनिपुंगवाः । ततो वासिष्ठलैङगाख्यं प्रोक्तं माहेश्वरं परम् ॥ ततः साम्बपुराणाख्यं
ततः सौरं महाद्भुतम् । पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् ॥ भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम्’ एवमुपपुराणान्यनेकप्रकाराणि द्रष्टव्यानि ॥
न्याय आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता ।