पृष्ठम्:महासिद्धान्तः.djvu/272

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጻ፻፪ सतिलके महासिद्धान्ते अवमाप्रात् क्षयशेषात् । याँतैरवमैर्गतावमैः । चक्राणि कल्षभगणार । भगणपूर्वकाणि भगणादीनि । कुदिनावमहतिः कल्पकुादनगतावमबधः । शेषं स्पष्टम् । अत्रेोपपत्तिः । अहर्गणार्थे चान्द्रदिनेभ्यो यान्यवमानि तच्छेषं तथा चान्द्रदिनाथैमहर्गणात् कल्पकुदिनेभ्यो यान्यवमानेि तच्छेर्ष चोभर्य भिथस्तुल्यम् । तद्यथा कक्ष. इचादि = इक्ष. कचादि+ क्षशे कक्ष. इक्ष = कक्ष. इक्ष द्वयोर्योगेन कक्ष.(इचादि+इक्ष )= कक्ष. अह = इक्ष (कचादि+कक्ष) +क्षशे =इक्षता. ककुदि +क्षशे । अतः گل = Rچt + ' | अतोऽहर्गणसम्वधि सावयवावममानस्=अहर्गणानयंने गतावमानि कल्पकुदिनभक्तक्षयशेधैर्मुतानि । तेभ्योऽनुपातो यदि कल्पावमैः कल्पग्रहभगणास्तदोहगैणसम्बन्धिसावयवगतावमैः किम् । लब्धो भगणादिर्ग्रहः । अथ पूर्वोदितसमीकरणेकक्ष.अह=इक्ष.ककु+क्षशे कल्पक्षयाहभते लब्धोऽहर्गणः=अह =*** आत उपपत्रं सर्वम् ॥ ३२-३३ ॥ इदानी सावयवगतावमेभ्यो गताधिमासानाह । यातावमकल्पामृतकरदिनवधमवमशेषयुतम्। कल्पोनरात्रभक्तं कल्पाधिकमासकैर्गुणयेत् ॥ ३४ ॥ तुहिनांशुदिनैर्विभजेल्लब्धं याताधिमासाः स्युः । कल्पामृतकरदिनानि । कल्पचान्द्रदिनानि । कल्पोनरात्रभक्त कल्पक्षयाहभक्तम् । तुहिनांशुदिनैः कल्पञ्चान्द्रदिनैः । शेषं स्पष्टार्थम् ।