गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः ११

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १० गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः ११
गर्गमुनि
गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १२ →

बलभद्रखण्डः - एकादशोऽध्यायः

बलरामस्तोत्रम् -


दुर्योधन उवाच -
स्तोत्रं श्रीबलदेवस्य प्राड्‌विपाक महामुने ॥
 वद मां कृपया साक्षात्सर्वसिद्धिप्रदायकम् ॥१॥
 प्राड्‌विपाक उवाच -
स्तवराजं तु रामस्य वेदव्यासकृतं शुभम् ॥
 सर्वसिद्धिप्रदं राजञ्छृणु कैवल्यदं नृणाम् ॥२॥
 देवादिदेव भगवन् कामपाल नमोऽस्तु ते ॥
 नमोऽनन्ताय शेषाय साक्षाद्रामाय ते नमः ॥३॥
 धराधराय पूर्णाय स्वधाम्ने सीरपाणये ॥
 सहस्रशिरसे नित्यं नमः संकर्षणाय ते ॥४॥
 रेवतीरमण त्वं वै बलदेवाच्युताग्रजः ॥
 हलायुध प्रलंबघ्न पाहि मां पुरुषोत्तम ॥५॥
 बलाय बलभद्राय तालांकाय नमो नमः ॥
 नीलांबराय गौराय रौहणेयाय ते नमः ॥६॥
 धेनुकारिर्मुष्टिकारिः कूटारिर्बल्वलांतकः ॥
 रुक्म्यरिः कूपकर्णारिः कुम्भांडारिस्त्वमेव हि ॥७॥
 कालिंदीभेदनोऽसि त्वं हस्तिनापुरकर्षकः ॥
 द्विविदारिर्यादवेंद्रो व्रजमंडलमंडनः ॥८॥
 कंसभातृप्रहन्तसि तीर्थयात्राकरः प्रभुः ॥
 दुर्योधनगुरुः साक्षात्पाहि पाहि प्रभो त्वतः ॥९॥
 जय जयाच्युतदेव परात्पर
     स्वयमनन्तदिगंतगतश्रुत ॥
 सुरमुनींद्रफणीन्द्रवराय ते
     मुसलिने बलिने हलिने नमः ॥१०॥
 यः पठेत्सततं स्तवनं नरः
     स तु हरेः परमं पदमाव्रजेत् ॥
 जगति सर्वबलं त्वरिमर्दनं
     भवति तस्य धनं स्वजनं धनम् ॥११॥


इति श्रीगर्गसंहितायां बलभद्रखण्डे
बलभद्रस्तवराजवर्णनं नामैकादशोऽध्यायः ॥११॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥





वर्गःगर्ग संहिता