गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← गर्ग संहिता/खण्डः ८ (बलभद्र खण्ड)/अध्यायः ०९ गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १०
गर्गमुनि
गर्ग संहिता/खण्डः ८ (बलभद्र खण्ड)/अध्यायः ११ →


बलभद्रखण्डः - दशमोऽध्यायः

बलरामपूजापद्धतिः -


दुर्योधन उवाच -
भगवन् गर्गाचार्येण गोपीयूथाय कथं दत्तं
 बलभद्रपञ्चाङ्गं तत्कृपया वदतात् ॥ त्वं सर्वज्ञोऽसि ॥१॥

 प्राड्विपाक उवाच -
कौरवेन्द्र एकदा गर्गाचार्यः कलिंदनन्दिनीं
 स्नातुं गर्गाचलाद्व्रजमंडलं चाजगाम ॥
 तत्रैकांते मरुल्लीलैजल्ललितलतातरुपल्लवपुष्पगंधमत्तमिलिंदपुञ्जे
 कालिंदीकूलकलितनिकुंजे श्रीरामकृष्णध्यानतत्परं
 गर्गाचार्यं प्रणम्य नागेन्द्रकन्याः स्म इति जातिस्मरा
 गोपकन्याः श्रीमद्‌बलभद्रप्राप्त्यर्थं सेवनं पप्रच्छुस्तासां
 परमां भक्तिं वीक्ष्य पद्धतिपटलस्तोत्रकवचसहस्रनामानि
 गोपीयूथाय स प्रददौ ॥ किं भूयस्त्वं
 तद्‍ग्रहणं कर्तुमिच्छसि वदतात् ॥२॥
 दुर्योधन उवाच -
रामस्य पद्धतिं ब्रूहि यथा सिद्धिं व्रजाम्यहम् ॥
 त्वं भक्तवत्सलो ब्रह्मन् गुरुदेव नमोस्तु ते ॥३॥
 प्राड्विपाक उवाच -
राममार्गस्य नियमं शृणु पार्थिवसत्तम ॥
 येन प्रसन्नो भवति बलभद्रो महाप्रभुः ॥४॥
 सहस्रवदनो देवो भगवान् भुवनेश्वरः ॥
 न दानैर्न च तीर्थैश्च भक्त्या लभ्यस्त्वनन्यया ॥५॥
 सत्संगमेत्याशु शिक्षेद्‌भक्तिं वै श्रीहरेर्गुरोः ॥
 स सिद्धः कथितो जातं यस्य वै प्रेमलक्षणम् ॥६॥
 ब्राह्मे मुहूर्ते चोत्थाय रामकृष्णेति च ब्रुवन् ॥
 नत्वा गुरुं भुवं चैव ततो भूम्यां पदं न्यसेत् ॥७॥
 वार्य्युपस्पृश्य रहसि स्थितो भूत्वा कुशासने ॥
 हस्तावुत्संग आधाय स्वनासाग्रनिरीक्षणः ॥८॥
 ध्यायेत्परं हरिं देवं बलभद्रं सनातनम् ॥
 गौरं नीलांबरं हृद्यं वनमालाविभूषितम् ॥९॥
 एवं ध्यानपरो नित्यं प्रीत्यर्थं हलिनः प्रभोः ॥
 त्रिकालसंध्याकृच्छुद्धो मौनी क्रोधविवर्जितः ॥१०॥
 अकामी गतलोभश्च निर्मोहः सत्यवाग्भवेत् ॥
 द्विवारं जलपानार्थी एकभुक्तो जितेन्द्रियः ॥११॥
 क्षौमाम्बरो भूमिशायी भूत्वा पायसभोजनः ॥
 एवं निर्जितषड्‍वर्गो भवेदेकाग्रमानसः ॥१२॥
 तस्य प्रसन्नो भवति सदा संकर्षणो हरिः ॥
 परिपूर्णतमः साक्षात्सर्वकारणकारणः ॥१३॥
 इत्थं श्रीबलभद्रस्य कथिता पद्धतिर्मया ॥
 कौरवेन्द्र महाबाहो किं भूयः श्रोतुमिच्छसि ॥१४॥
 दुर्योधन उवाच -
मुनींद्र देवदेवस्य पटलं ब्रूहि मे प्रभोः ॥
 येन सेवां करिष्यामि तत्पदाम्बुजयोः सदा ॥१५॥
 प्राड्‌विपाक उवाच -
बलस्य पटलं गुह्यं विद्धि सिद्धिप्रदायकम् ॥
 एकांते ब्रह्मणा दत्तं नारदाय महात्मने ॥१६॥
 प्रणवं पूर्वमुद्‌धृत्य कामबीजं ततः परम् ॥
 कालिंदीभेदनपदं संकर्षणमतः परम् ॥१७॥
 चतुर्थ्यंतं द्वयं कृत्वा स्वाहां पश्चाद्विधाय च ॥
 मंत्रराजमिमं राजन् ब्रह्मोक्तं षोडशाक्षरम् ॥१८॥
 जपेल्लक्षं व्रती भूत्वा सहस्राणि च षोडश ॥
 इहामुत्र परां सिद्धिं संप्राप्नोति न संशयः ॥१९॥
 अथ जप्तस्य मंत्रस्य महापूजां समाचरेत् ॥
 द्वात्रिंशत्पत्रसंयुक्तं कर्णिकाकेसरोज्ज्वलम् ॥२०॥
 भव्यं कंजं पञ्चवर्णं लिखित्वा स्थंडिले शुभे ॥
 तस्योपरि न्यसेद्राजन् हेमसिहासनं शुभम् ॥
 तस्मिन् श्रीबलदेवस्य परमर्चां प्रपूजयेत् ॥२१॥
 ॐ नमो भगवते पुरुषोत्तमाय वासुदेवाय संकर्षणाय
 सहस्रवदनाय महानन्ताय स्वाहा ॥ अनेन
 मन्त्रेण शिखाबन्धनं कृत्वा सर्वतस्तं प्रणम्य
 तत्संमुखो भूत्वा स्वयं नतो भवेत् ॥
 ॐ जयजयानंत बलभद्र कामपाल तालांक
 कालिंदीभंजन आविराविर्भूय मम सम्मुखो भवेति ॥
 अनेन मंत्रेणावाहनं कुर्यात् ॥ ॐनमस्तेऽस्तु सीरपाणे
 हलमुसलधर रौहिणेय नीलांबर राम रेवतीरमण
 नमस्तेऽस्तु ॥ अनेन मंत्रेणासनपाद्यार्घ्यस्नानमधुपर्क-
धूपदीपयज्ञोपवित-नैवेद्यवस्त्रभूषणगंधपुष्पाक्षतपुष्पाञ्जलि-
नीराजनादीनुपचारान् प्रकल्पयेत् ॥ ॐविष्णवे मधुसूदनाय
 वामनाय त्रिविक्रमाय श्रीधराय हृषिकेशाय पद्मनाभाय
 दामोदराय संकर्षणाय वासुदेवाय प्रद्युम्नायानिरुद्धाय
 अधोक्षजाय पुरुषोत्तमाय श्रीकृष्णाय नमः ॥
 इति पादगुल्फजानूरुकट्युदरपार्श्वपृष्ठिभुजाकंधरनेत्रशिरांसि
 पृथक् पृथक् पूजयामीति मंत्रेण सर्वाङ्गपूजां कुर्यात् ॥
 अथ शंखचक्रगदापद्मासिधनुर्बाणहलमुसलकौस्तुभ-
वनमालाश्रीवत्सपीतांबरनीलांबरवंशीवेत्रगरुडांकतालांक-
रथदारुकसुमतिकुमुदकुमुदाक्षश्रीदामादीन् प्रणवपूर्वेण
 चतुर्थ्यंतेन नमः संयुक्तेन नाममंत्रेण पृथक् पृथक्
 संपूज्य ॥ तथा विष्वक्सेनवेदव्यासदुर्गाविनायक-
दिक्पालग्रहादीन् कमले सर्वतः स्वे स्वे स्थाने संपूजयेत् ॥
 पुनः परिसमूहनादिस्थालीपाकविधानेन वैश्वानरं संपूज्य
 पूर्वोक्तेन मूलमन्त्रेण पंचविंशतिसहस्राण्याहुतीर्जुहुयात् ॥
 तथाष्टौ सहस्राणि द्वादशाक्षरेण तथाष्टौ सहस्राणि
 चतुर्व्यूहमन्त्रेणाहुतीर्जुहुयात् ॥ ततोऽग्निं प्रदक्षिणीकृत्य
 नमस्कृत्याचार्यं महार्हवस्त्रसुवर्णाभरणताम्रपात्रसवत्सगो-
सुवर्णदक्षिणाभिः संपूज्य तथा ब्राह्मणान्भोजनाद्यैः संपूज्य
 नगरजनेभ्यो भोजनं दत्वाऽऽचार्यान्प्रणमेत् ॥ इत्थं बलस्य
 पटलानुसारेण योऽनुस्मरति इहामुत्र सिद्धिसमृद्धिभिः
 संवृतो भवति ॥ श्रीरामपटलं गुह्यं मया ते ह्यनुवर्णितम् ॥
 सर्वसिद्धिप्रदं राजन् किं भूयः श्रोतुमिच्छसि ॥२२॥


इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्‌विपाकदुर्योधनसंवादे
पद्धतिपटलवर्णनं नाम दशमोऽध्यायः ॥१०॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥





वर्गःगर्ग संहिता