पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
अष्टमः सर्गः ।

(५)[१]दष्टतामरसकेसरत्यजी:
(६)[२]क्रन्दतोर्विपरिटत्तकण्ठयोः ।
(७)[३]निन्नयोः सरसि चक्रवाकयोः
अल्पमन्तरमनल्पतां गतम् ॥ ३२ ॥
स्थानमाहिकमपास्य दन्तिनः
सलवकीविटपभङ्गवासितम् ।
वारि वारिरुहबद्दषट्पदम् ॥ ३३ ॥

 दष्टति । दष्टम् अर्धजग्ध' तामरसकेसरं पद्मकिञ्जल्कम् । सुखद्दयेनैकमिति भावः । तत् त्यजत: इति तथोक्षयोः क्रन्दती : कूजतो: विपरिवृत्तकण्ठयोः । परस्परालोकनार्थ वक्रौक्तग्रीवयोरित्यर्थः । निन्नयोः दैवाधीनयोः ॥ “अधीनो नित्र आयत्ते”.इत्यमरः ॥ चक्रवाकौ च चक्रवाकश्च तयोः ॥ “पुमान् स्त्रिया” इत्येकशेषः । सरसि अल्पम् अन्तरं व्यवधानम् अन्नस्पताम् आधिक्यं गतम् । सरसि वियुज्यमानयोर्महट्टव्यवधानमभूदित्यर्थः ॥ ३२ ॥

 स्थानमिति ॥ दन्तिनः गजाः । अङ्गि भवम् प्राङ्गिकम् ॥ “कालाटुञ्ज' ॥ स्थानम् अपास्य विहाय मस्तकौ गजप्रिया काचिक्षता ॥ “सलको स्याङ्गजप्रिया” इति हलायुधः । तस्याः विटपभङ्गः पलवखण्डेः वासितं सुरभितं वारिरुडेषु बद्दाः सङ्गताः षट्पदा: यस्मिन् तत् वारि जलम् श्राविभातं प्रभातमारभ्य यत् चरणं तस्मै । तत्यर्याप्तमित्यर्थः । ग्टवते उपाददते.। गजा हि भुक्तिपर्याप्तजलं सकृदेव सायं पिबन्तीति प्रसिङ्वम् ॥ ३३ ॥


  1. दष्टतामरसकेसरस्रजोः ।
  2. क्रन्दतोर्विरहदौनकण्ठयोः।
  3. भित्रयोः ।