सामग्री पर जाएँ

श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १८

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १७ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १९ →



दितिवंशवर्णनं मरुतां उत्पत्तिश्च -



श्रीशुक उवाच -
पृश्निस्तु पत्‍नी सवितुः सावित्रीं व्याहृतिं त्रयीम् ।
 अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥
 सिद्धिर्भगस्य भार्याङ्‌ग महिमानं विभुं प्रभुम् ।
 आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २ ॥
 धातुः कुहूः सिनीवाली राका चानुमतिस्तथा ।
 सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥ ३ ॥
 अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तरः ।
 चर्षणी वरुणस्यासीद् यस्यां जातो भृगुः पुनः ॥ ४ ॥
 वाल्मीकिश्च महायोगी वल्मीकाद् अभवत्किल ।
 अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोः ऋषी ॥ ५ ॥
 रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् ।
 रेवत्यां मित्र उत्सर्गं अरिष्टं पिप्पलं व्यधात् ॥ ६ ॥
 पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम् ।
 जयन्तं ऋषभं तात तृतीयं मीढुषं प्रभुः ॥ ७ ॥
 उरुक्रमस्य देवस्य मायावामनरूपिणः ।
 कीर्तौ पत्‍न्यां बृहच्छ्लोकः तस्यासन् सौभगादयः ॥ ८ ॥
 तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः ।
 पश्चाद् वक्ष्यामहेऽदित्यां यथा वावततार ह ॥ ९ ॥
 अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते ।
 यत्र भागवतः श्रीमान् प्रह्रादो बलिरेव च ॥ १० ॥
 दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।
 हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ ११ ॥
 हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।
 जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान् ॥ १२ ॥
 संह्रादं प्रागनुह्रादं ह्रादं प्रह्रादमेव च ।
 तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥ १३ ॥
 शिरोऽहरद्यस्य हरिः चक्रेण पिबतोऽमृतम् ।
 संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः ॥ १४ ॥
 ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् ।
 योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ॥ १५ ॥
 अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा ।
 विरोचनस्तु प्राह्रादिः देव्याः तस्याभवद्‍बलिः ॥ १६ ॥
 बाणज्येष्ठं पुत्रशतं अशनायां ततोऽभवत् ।
 तस्यानुभावं सुश्लोक्यः पश्चादेवाभिधास्यते ॥ १७ ॥
 बाण आराध्य गिरिशं लेभे तद्‍गणमुख्यताम् ।
 यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः ॥ १८ ॥
 मरुतश्च दितेः पुत्राः चत्वारिंशत् नवाधिकाः ।
 ते आसन् अप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥ १९ ॥
 श्रीराजोवाच -
कथं त आसुरं भावं अपोह्यौत्पत्तिकं गुरो ।
 इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः ॥ २० ॥
 इमे श्रद्दधते ब्रह्मन् ऋषयो हि मया सह ।
 परिज्ञानाय भगवन् तन्नो व्याख्यातुमर्हसि ॥ २१ ॥
 श्रीसूत उवाच -
तद्विष्णुरातस्य स बादरायणिः
     वचो निशम्यादृतमल्पमर्थवत् ।
 सभाजयन् सन्निभृतेन चेतसा
     जगाद सत्रायण सर्वदर्शनः ॥ २२ ॥
 श्रीशुक उवाच -
हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना ।
 मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३ ॥
 कदा नु भ्रातृहन्तारं इन्द्रियाराममुल्बणम् ।
 अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥ २४ ॥
 कृमिविड्भस्मसंज्ञाऽऽसीद् यस्येशाभिहितस्य च ।
 भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ २५ ॥
 आशासानस्य तस्येदं ध्रुवं उन्नद्धचेतसः ।
 मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥ २६ ॥
 इति भावेन सा भर्तुः आचचारासकृत्प्रियम् ।
 शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥ २७ ॥
 भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः ।
 मनो जग्राह भावज्ञा सस्मितापाङ्‌गवीक्षणैः ॥ २८ ॥
 एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया ।
 बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥ २९ ॥
 विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः ।
 स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥ ३० ॥
 एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया ।
 प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ ३१ ॥
 श्रीकश्यप उवाच -
वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते ।
 स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥ ३२ ॥
 पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।
 मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥ ३३ ॥
 स एव देवतालिङ्‌गैः नामरूपविकल्पितैः ।
 इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥ ३४ ॥
 तस्मात् पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे ।
 यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ ३५ ॥
 सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः ।
 तं ते सम्पादये कामं असतीनां सुदुर्लभम् ॥ ३६ ॥
 दितिरुवाच -
वरदो यदि मे ब्रह्मन् पुत्रं इन्द्रहणं वृणे ।
 अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ ३७ ॥
 निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत ।
 अहो अधर्मः सुमहान् अद्य मे समुपस्थितः ॥ ३८ ॥
 अहो अद्येन्द्रियारामो योषिन् मय्येह मायया ।
 गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ ३९ ॥
 कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः ।
 धिङ्‌मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥ ४० ॥
 शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ।
 हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ ४१ ॥
 न हि कश्चित्प्रियः स्त्रीणां अञ्जसा स्वाशिषात्मनाम् ।
 पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥ ४२ ॥
 प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् ।
 वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते ॥ ४३ ॥
 इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन ।
 उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥
 श्रीकश्यप उवाच -
पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः ।
 संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥ ४५ ॥
 दितिरुवाच -
धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे ।
 यानि चेह निषिद्धानि न व्रतं घ्नन्ति यानि तु ॥ ४६ ॥
 श्रीकश्यप उवाच -
न हिंस्याद् भूतजातानि न शपेन्नानृतं वदेत् ।
 न छिन्द्याद् नखरोमाणि न स्पृशेद् यदमङ्‌गलम् ॥ ४७ ॥
 नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः ।
 न वसीताधौतवासः स्रजं च विधृतां क्वचित् ॥ ४८ ॥
 नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् ।
 भुञ्जीतोदक्यया दृष्टं पिबेदञ्जलिना त्वपः ॥ ४९ ॥
 नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा ।
 अनर्चितासंयतवाङ् नासंवीता बहिश्चरेत् ॥ ५० ॥
 नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः ।
 शयीत नापराङ्‌नान्यैः न नग्ना न च सन्ध्ययोः ॥ ५१ ॥
 धौतवासा शुचिर्नित्यं सर्वमङ्‌गलसंयुता ।
 पूजयेत् प्रातराशात् प्राग् गोविप्रान् श्रियमच्युतम् ॥ ५२ ॥
 स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः ।
 पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ॥ ५३ ॥
 सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् ।
 धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥ ५४ ॥
 बाढमित्यभ्युपेत्याथ दिती राजन् महामनाः ।
 कश्यपाद्‍गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ ५५ ॥
 मातृषु असुरभिप्रायं इन्द्र आज्ञाय मानद ।
 शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः ॥ ५६ ॥
 नित्यं वनात्सुमनसः फलमूलसमित्कुशान् ।
 पत्राङ्‌कुरमृदोऽपश्च काले काल उपाहरत् ॥ ५७ ॥
 एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ।
 प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः ॥ ५८ ॥
 नाध्यगच्छद् व्रतच्छिद्रं तत्परोऽथ महीपते ।
 चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ॥ ५९ ॥
 एकदा सा तु सन्ध्यायां उच्छिष्टा व्रतकर्शिता ।
 अस्पृष्टवार्यधौताङ्‌घ्रिः सुष्वाप विधिमोहिता ॥ ६० ॥
 लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः ।
 दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ ६१ ॥
 चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् ।
 रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ॥ ६२ ॥
 ते तमूचुः पाट्यमानाः सर्वे प्राञ्जलयो नृप ।
 नो जिघांससि किमिन्द्र भ्रातरो मरुतस्तव ॥ ६३ ॥
 मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः ।
 अनन्यभावान्पार्षदान् आत्मनो मरुतां गणान् ॥ ६४ ॥
 न ममार दितेर्गर्भः श्रीनिवासानुकम्पया ।
 बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ ६५ ॥
 सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम् ।
 संवत्सरं किञ्चिदूनं दित्या यद् हरिरर्चितः ॥ ६६ ॥
 सजूरिन्द्रेण पञ्चाशद् देवास्ते मरुतोऽभवन् ।
 व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥ ६७ ॥
 दितिरुत्थाय ददृशे कुमाराननलप्रभान् ।
 इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ ६८ ॥
 अथेन्द्रमाह ताताहं आदित्यानां भयावहम् ।
 अपत्यमिच्छन्त्यचरं व्रतमेतत् सुदुष्करम् ॥ ६९ ॥
 एकः सङ्‌कल्पितः पुत्रः सप्त सप्ताभवन् कथम् ।
 यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ ७० ॥
 इन्द्र उवाच -
अम्ब तेऽहं व्यवसितं उपधार्यागतोऽन्तिकम् ।
 लब्धान्तरोऽच्छिदं गर्भं अर्थबुद्धिर्न धर्मवित् ॥ ७१ ॥
 कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः ।
 तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ ७२ ॥
 ततस्तत् परमाश्चर्यं वीक्ष्य व्यवसितं मया ।
 महापुरुषपूजायाः सिद्धिः काप्यानुषङ्‌गिणी ॥ ७३ ॥
 आराधनं भगवत ईहमाना निराशिषः ।
 ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ ७४ ॥
 आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् ।
 को वृणीत गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् ॥ ७५ ॥
 तदिदं मम दौर्जन्यं बालिशस्य महीयसि ।
 क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥ ७६ ॥
 श्रीशुक उवाच -
इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया ।
 मरुद्‌भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥ ७७ ॥
 एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
 मङ्‌गलं मरुतां जन्म किं भूयः कथयामि ते ॥ ७८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे मरुत् उत्पत्तिकथनं नाम अष्टादशोऽध्या‍यः ॥ १८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥