सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/397

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

: वितथवचाः कुलपांसनत्वम् श्राप्तः सः तु शपथशतैः सर्वं प्रपद्य प्रहर्तुं अनुगुण क्षणम् ऐक्षत। मलिनधियां चरित्र अनाजवं धिक्। व्याख्या वितथं मिथ्या वचो वचनं यस्य स मिथ्याभाषी कुलस्य गोत्रस्य पांसनः कलङ्कस्तस्य भावः कुलपांसनत्वमाप्तो वंशकलङ्कत्वमुपागतः स तु सोमदेवस्तु शपथानां शतानि तैरसंख्यशपथग्रहणैः सर्वं विक्रमाङ्कदेवप्राथितं प्रपद्य तथेत्यङ्गीकृत्य विक्रमाङ्कदेवं प्रहर्नु मारयितुमनुगुणमनुकूलं क्षणमवसरमैक्षत दृष्टवान् प्रतीक्षते स्मेत्यर्थः । मलिना मलीमसा ‘मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः। धीर्बुद्धियेषां ते तेषां मलीमसबुद्धिमतां चरित्र वृतमनार्जवं कुटिल कौटिल्यपूर्णमित्यर्थः । इति धिक् । अत्राऽर्थान्तरन्यासालङ्कारः । भाषा मिथ्याभाषी, कुलाङ्गारता को प्राप्त यह सोमदेव तो विक्रमाङ्कदेव की प्रार्थनाओं को, सैकड़ों कसमें खा, स्वीकार कर, उसको मार डालने के लिए अनुकूल मौका खोजता था । मलिन बुद्धि वालों के चरित्र को धिक्कार है जो कि सर्वदा कौटिल्यपूर्ण होता है। किमिदमुपनतं यशोविरोधि त्रिदिवगत: किमु वक्ष्यते पिता मे । इति मनसि निधाय जातनिद्रं नृपतनयं शशिमौलिरादिदेश ।।६२।। अन्वयः शशिमौलिः ‘यशोविरोधि इदं किम उपनर्त, त्रिविगतः मे पिता किमु N - - - -