किमुपनतं कथं प्राप्तम् । त्रिदिवं स्वर्गं ‘स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः’ इत्यमरः ॥ गतः प्राप्त इति त्रिविवगतः स्वर्गतो मे मम विक्रमाङ्कदेवस्य पिताऽऽहवमल्लदेवः किमु वक्ष्यते किं कथयिष्यति । इति सर्वं मनसि हृदये निधाय संस्थाप्य जातनिद्रं जाता समागता निद्रा स्वापो यस्य स तं सुप्तं नृपतनयं राजकुमारं विक्रमाङ्कदेवमादिदेशाऽऽज्ञप्तवान् ॥ TE अपयश पैदा करने वाला यह मौका कैसे आ गया ? स्वर्गवासी मेरे पिता आहवमल्लदेव मुझे क्या कहेंगे ? ऐसी बाते मन में रख कर, सोए हुए उस राजकुमार की चन्द्रशेखर महादेव ने (स्वप्न में) आज्ञा दी । त्वमिह महति वत्स देवकार्ये ननु गुणवानवतारितो मयैव । तरलयति मुधा विकल्पदोला किमिति मनस्तव शुद्धधैर्यधाम्नः ॥६३॥
हे वत्स ! मया एष इह महति देवकार्ये गुणवान् त्वं अवतारितः ननु । विकल्पदोला शुद्धधैर्यधाम्रः तव मनः किम् इति मुधा तरलयति । व्याख्या हे वत्स ! हे प्रिय बालक ! मयैव शिवेनैवेत्यर्थः । इहाऽस्मिन् जगति महति विशाले देवकायें सुरकार्यार्थ गुणवान् दयादाक्षिण्यशौर्यादिगुणशाली त्वं विक्रमाङ्कदेवोऽवतारितः समुत्पादितो ननु निश्चयेन । विकल्पः सन्देह एवोभयपक्षस्य समबलत्वेनाऽऽश्रयणाद्दोला प्रेखा ‘दोला प्रेखादिका स्त्रियाम्' इत्यमरः । शुद्धस्य चाञ्चल्यरहितस्य धैर्यस्य धीरताया धाम स्थानं तस्य तव मनश्चित्तं · किमिति कथ मधा व्यर्थ तरलयति चञ्चलयति । संशय विहाय समरोद्यती