पृष्ठम्:साहित्यसारः.pdf/45

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
साहित्यसारे

              नाटकलक्षणम्

स्वभावशुद्धो मेधावी रक्तलोको दृढव्रतः ।
शरः प्रियंवदस्त्यागी मधुरो लोकविश्रुतः ॥ ४२ ॥

युवा विद्वत्प्रियो भोगी गीतादौ निपुणः प्रभुः ।
नाटके नायकः प्रोक्तो नाट्यशास्त्रविचक्षणैः ॥ ४३ ॥

धीरोपपदसंबद्वैः सभेदैर्लोकविश्रुतैः ।
नेता चतुर्धा ललितशान्तोदातोद्धतैरिह ॥ ४४ ॥

निश्चिन्तो यौवनोद्धात्मा कलाकुशलमानसः ।
समृद्धो धीरललितो विलासी वनिताप्रियः ॥ ४५ ॥

सामान्यगुणभूयिष्ठस्सविशेषपराक्रमः ।
मितभाषी निर्विकारो धीरशान्तो द्विजादिकः ।। ४६ ।।

महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः ।
धीरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ॥ ४७ ॥

गम्भीरो मत्सरग्रस्तो मायावी कामनिष्ठुरः ।
धीरोद्धतो हितद्वेषी वीरश्चण्डो विकत्थनः ।। ४८ ।।

रसे चतुर्विधो नेता शृङ्गारे नाटकादिषु ।
अनुकूलो दक्षिणश्च शठो धृष्ट इति क्रमात् ॥ ४९ ॥

एकामेवाश्रयेद्यस्तु सोऽनुकूल इति स्मृतः ।
ज्येष्ठायामपि गेहिन्यां सस्नेहो दक्षिणो भवेत् ॥ ५० ॥

गूढविप्रियकारी यः शठस्सः कथ्यते बुधैः ।
व्यलीकविक्रमश्लाघी घृष्टो लज्जाविनाशकः ॥ ५१ ॥

पूर्वोक्तास्ते तु चत्वारः प्रत्येकोऽर्थदशावशात् ।
काव्यनाटकभेदेषु भवन्त्येव हि षोडश ॥ ५२ ॥