४८ ० याज्ञवल्क्यस्मृतिः । पलाशोदुम्बरारवेिन्दृश्रीवृक्षपणर्णानामेकैकेन छथेितमुदकं प्रत्यहं पिबेत् । कुशी दकं चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छूः । यदा तु पर्णादीनामेकीकृतानां काथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः–“एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । काथयित्वा पिबेदद्भिः पर्णकूचोंऽभिधीयते ॥' इति । यदा तु बिल्वादिफलानि प्रत्येकं कथितानि मासं पीयन्ते तदा फलकृच्छूादिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः–“फलैर्मासेन कथितः फलकृच्छूो मनीषिभि । श्रीकृच्छूः श्रीफलैः प्रोक्तः पद्माक्षेरपरस्तथा ॥ मासेनामलकैरेवं श्रीकृच्छूमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छूः पुष्पैस्तत्कृच्छू उच्यते ॥ मूलकृच्छूः स्मृतो मूलैस्तोय कृच्छूो जलेन तु ॥’ इति ॥ ३१६ ॥ इति पर्णकृच्छू एकादशविधः । [ प्रायश्चित्ताध्यायः तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छू उदाहृतः ॥ ३१७ ।। दुग्धसर्पिरुदकानां तसानामेकैकं प्रतिदिवसं प्राश्यापरेद्युरुपवसेत् । एष दिवस । मनुना तु द्वादशरात्रनिर्वत्र्योऽभिहितः (११।२१४ )- ‘तसकृच्छ चरन्विप्रो जलक्षीरघृतानिलान् । प्रतिञ्यहं पिबेदुष्णान्सकृत्स्लायी समा हितः ॥’ इति । क्षीरादिपरिमाणं तु पराशरेणोत्तं द्रष्टव्यम् ।-*अपां पिबेतु त्रिपलं, द्विपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पित्रिरात्रं चोष्णमारुतम् ॥ इति । त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेदित्यर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छूः ।–“यहं शीतं पिबेत्तोयं त्र्यहं शीतं पयः पिबेत् । त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥' इति यमस्मरणात् ॥ ३१७ ॥ इति तप्तकृच्छूश्चतुर्विध । १ त्रिरात्रस्य मारुतस्य ख एकभत्तेन नत्तेन तथैवायाचितेन च । उपवासेन चैवायं पादकृच्छः प्रकीर्तितः ।। ३१८ ।। एकभत्तेन सकृद्रोजनेन दिवैव । नत्क्तनेति पृथगुपादानात् । अतश्च दिवैचैक चारमेव भोजनेनैवैकमहोरात्रमतिवाहयेदिति । तत्र दिवेति रात्रिध्युदासः । एक वारमिति द्विवारादिच्युदास । भोजनेनेत्यभोजनव्युदासः । एतञ्च कृच्छादीनां ऋतरूपत्वात् पुरुषार्थभोजनपर्युदासेन कृच्छाङ्गभूतं भोजनं विधीयते । तथाचा च ततस्यहं । त्र्यहमयावितव्रतस्यहं नाश्नाति किंचन' इति । अत्र चानक्ताशीत्यनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्युदासेन दिवाभोजननिर्थमं दर्शयति । गौतमेनापीदमेव स्पष्टीकृतम्-‘हविष्यान्प्रातरा
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०४
दिखावट