प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहेिता ४४९ द्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यैनि । यत्तु वसिष्ठनो चक्तम्-‘ब्रह्मोज्झः कृच्छू द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्यात्' इति तदत्यन्तापद्विषयम् । अग्लियागेऽपि तेनैव विशेषो दर्शित –‘योऽीनपवेि ध्येत्स कृच्छू द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्’ इति । द्वादशरात्रग्रहणमु त्सन्नकालापेक्षया प्राजापत्यादिगुरुलघुकृच्छूाणां प्राप्स्यर्थम् । तत्र मासद्वये प्राजापत्यं मासचतुष्टयेऽतिकृच्छूः । षण्मासोच्छिन्ने पराक । षण्मासादूध्र्व योगीश्वरोक्ता न्युपपातकसामान्यप्रायश्चित्तानेि कालाद्यपेक्षया योज्यानि । संवत्सरादूध्र्वं तु मानवै त्रैमासिकं द्वैमासिकमिति व्यवस्था । एतच नास्तिक्येन त्यागविषयम् । तथाच व्याघ्रः–‘योऽझिं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्विजः’ इति । यदा तु प्रमादात्यजति तदा भारद्वाजगृहे विशेष उक्त -‘प्राणायामशतमात्रि रात्रादुपवासः स्यादाविंशतिरात्रातू अत ऊध्र्वमाषष्टिरात्रातिस्रो रात्रीरुपचसेदत ऊध्र्वमासंवत्सरात् प्राजापत्यं चरेत् अत ऊध्र्व कालबहुत्वे दोषगुरुत्वम्’ इति । यदा त्वालस्यादिना त्यजति तदपि तेनैव विशेष उक्तः–‘द्वादशाहातिक्रमे त्र्यहमुपवासो मासातिक्रमे द्वादशाहमुपवासः संवत्सरतिक्रमे मासोपवासः पयो भक्षणं वा' इति । संवत्सरादूध्र्व तु वृद्धहारीतेन विशेष उक्तः–‘संवत्सरोत्स ज्ञेऽग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्यात् । द्विवषत्सन्ने चान्द्रायणं सोमायनं च कुर्यात् । त्रिवषत्सन्ने संवत्सरं कृच्छ्म भ्यस्य पुनराद्ध्यात्' इति । सोमायनै कृच्छूकाण्डे वक्ष्यते । शङ्गेनापि विशेष उक्तः-‘अयुत्सादी संवत्सरं प्राजापत्यै चरेद्रां च दद्यात्’ इति ॥ सुतत्यागे बन्धुत्यागे च त्रैमासिकं गोवधत्रतं कामतः । अकामतस्तु योगीश्वरोत्तं व्रतचतुष्टयं शक्तयाद्यपेक्षया योज्यम् ॥ दुमच्छेदे प्राय श्चित्तं प्रागुक्तम् । स्त्रीप्राणिवधवशीकरणादिभिजीवने तिलेश्रुयत्रप्रवर्तने च तान्येव प्रायश्चित्तानि तथैव योज्यानि । व्यसनेषु च घृतमृगयादिषु तान्येव ब्रतानि तथैव योज्यानि । यत्तु बौधायनेन –“अथाशुचिकराणि यूतमभिचारोऽनाहेि ताझेरुञ्छवृत्तिः समावृत्तस्य च भैक्षचर्या तस्य च गुरुकुले वास ऊध्र्व चतुभ्य मासेभ्यो यश्च तमध्यापयति नक्षत्रनिर्देशनं चेति द्वादशमासान्द्वादशार्धमासा न्द्वादशाहान्द्वादशषडहान्द्वादशञ्यहाँश्च त्र्यहमेकाहमेित्यशुचिकरनिर्देशः,’ इति यूते वार्षिकत्रतमुक्तं तदभ्यासविषयम्। यत्तु प्रचेतसोक्तम्-‘अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर्गरदोऽग्निदोऽश्वरथगजारोहणवृत्ती रङ्गोपजीवी श्चाग णिकः शूद्रोपाध्यायो वृषलीपतिभौण्डिको नक्षत्रोपजीवी श्धवृत्तिर्बह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारकोऽपत्यविक्रयी मनुष्यपशु विक्रेता चेति तानुद्धरेत्समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्वद्रव्यत्यागे चतुर्थ कालाहाराः संवत्सरं त्रिषवणमुपस्पृशेयुस्तस्यान्ते देवपितृतर्पणं गवाह्निकं चेत्येवं व्यवहार्या ।' इति, तदपि बौधायनेन समानविषयम् । श्वागणिको यः श्वगणेन जीवति । भाण्डिको बन्दिव्यतिरिक्तो राज्ञां तूर्यादिस्वनैः प्रबोधयिता । बन्दिन पृथगुपादानात् । श्ववृत्तिः सेवकः । ब्रह्मजीवी ब्राह्मणकार्येषु मूव्येन परिचारक १ शक्यपेक्षया ड. २ व्यवस्थापनीयानि. ३ द्विजकार्येषु
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७३
दिखावट