सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ याज्ञवल्क्यस्मृतः। [प्रायिश्चत्ताध्यायः शुध्यतः ॥' इति । असपल्योस्तु सवर्णयोरकामतः स्नानमात्रम् । ‘उदक्या त सवर्णा या स्पृष्टा चेत्स्यादुदक्यया । । तस्मिन्नेवाहनि स्नात्वा शुद्धिमाप्तोत्यसंश यम् ॥’ इति मार्कण्डेयस्मरणात् ॥ यत्तु कश्यपवचनम्--'रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि । एकरात्रं निराहारा पञ्चगव्येन शुद्धयति ॥ इति । तत्कामकारविषयम् । असवर्णास्पर्श तु बृहद्वसिष्टन विशेषो दर्शित 'स्पृष्टा रजस्वलान्योन्यं ब्राह्मणी शूद्रजापि च । कृच्छेण शुद्धयते पूर्वा शूदी दानेन शुद्धयति ॥' दानेनेति पादकृच्छूप्रत्याम्रायभूतनिष्कचतुर्थाशदानेन शुद्धयतीति । स्पृष्टा रजस्वलान्योन्यं ब्राह्मणी वैश्यजापि च । पादहीनं चरेत्पूर्वा पादकृच्छ् तथोत्तरा ॥ स्पृष्टा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा । कृच्छूाधच्छुद्धयते पूर्वा तूत्तरा च तदर्धतः ॥ स्पृष्टा रजस्वलान्योन्यं क्षत्रिया शूद्रजापि च । उपवा सैस्त्रिभिः पूर्वा त्वहोरात्रेण चोत्तरा ॥ स्पृष्टा रजस्वलान्योन्यं क्षत्रिया वैश्यजापि च । त्रिरात्राच्छुद्धयते पूर्वा त्वहोरात्रेण चोत्तैरा ॥ स्पृष्टा रजस्वलान्योन्यं वैश्या शूद्रा तथैव च । ि त्ररात्राच्छुद्धयते पूर्वा तूत्तरा च दिनद्वयात् ॥ वर्णानां कामत स्पर्श शुद्धिरेषा पुरातनी ॥' इति । अकामतस्तु बृहद्विष्णुनोक्तं स्रानमात्रम् ‘रजस्वलां हीनवर्णा रजस्वला स्पृष्टा न तावदश्रीयाद्याचन्न शुद्धा स्यात् । सवर्णा मधिकवणर्णा वा स्पृष्टा सद्यः स्रात्वा विशुद्धयति’ इति । चण्डालादिस्पर्श तु बृहद्धसिष्ठन विशेष उक्त –*पतितान्त्यश्वपाकेन संस्पृष्टा चेद्रजस्वला । तान्य हानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि त्रिरात्रं स्याद्वितीये द्यहमेव तु । अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत्। ॥ शूद्रयोच्छिष्टया स्पृष्टा शुना वेट्टयहमाचरेत् ॥' इति । तान्यहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । एतत्कामतः स्पर्शविषयम् । अकामतस्तु–“रजस्वला तु संस्पृष्टा चाण्डाला न्त्यश्वचायसैः । तावतिष्ठन्निराहारा यावत्कालेन शुद्धयति ॥’ इति बौधायनेनोक्तं द्रष्टव्यम् ॥ यत्पुनस्तेनैवोक्तम्--'रजस्वला तु संस्पृष्टा ग्रामकुकुटसूकरैः । वभि स्नात्वा क्षिपेत्तावद्यावच्चन्द्रस्य दर्शनम् ॥' इति, तदशाक्तविषयम् ॥ यदा तु भुञ्जानायाः श्वादिस्पशों भवति तदा स्मृत्यन्तरे विशेष उक्तः–‘रजस्वला तु भुञ्जाना श्वान्यजादीन्स्पृशेद्यदि । गोमूत्रयावकाहारा षड्रात्रेण विशुद्धयति ॥ अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वापि भोजनम् ॥' इति । यदा तूच्छिष्टयोः परस्पर स्पर्शनं भवति तदा-उच्छिष्टोच्छिष्टया स्पृष्टा कदाचित्स्री रजस्वला । कृच्छेण शुद्धयते पूर्वा शूद्रा दानैरुपोषिता ॥’ इत्यत्रिणोत्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टा न्द्विजान्रजस्वला स्पृशति तदा-‘द्विजान्कथंचिदुच्छिष्टान् रजःस्था यदि संस्ट शेत् । अधोच्छिष्टे त्वहोरात्रमूध्वच्छिष्ट त्र्यहं क्षिपेत् ॥' इति मार्कण्डेयोक्तं द्रष्टव्यम् । एवमवकीर्णिप्रायश्चित्तप्रसङ्गात्कानिचिदनुपातकभूतप्रायश्चित्तान्यपि व्याख्याय प्रकृतमनुसरामः । तत्रावकीर्णानन्तरं ‘सुतानां चैव विक्रयः’ इत्युक्त तत्र मनुयोगीश्वरोक्तानि त्रैमैसिकादीनिकामाकामजातिशक्तयाद्यपेक्षया पूर्वव ब्रह्मवस्थापनीयानि ॥ यत्तु शङ्कवचनम्–‘देवगृहप्रतिश्रयोद्यानारामसभाप्रपा १ चापरा ङ. २ दीनि कामजाति ङ